Click on words to see what they mean.

लोमश उवाच ।चङ्क्रम्यमाणः स तदा यवक्रीरकुतोभयः ।जगाम माधवे मासि रैभ्याश्रमपदं प्रति ॥ १ ॥
स ददर्शाश्रमे पुण्ये पुष्पितद्रुमभूषिते ।विचरन्तीं स्नुषां तस्य किंनरीमिव भारत ॥ २ ॥
यवक्रीस्तामुवाचेदमुपतिष्ठस्व मामिति ।निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः ॥ ३ ॥
सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती ।तेजस्वितां च रैभ्यस्य तथेत्युक्त्वा जगाम सा ॥ ४ ॥
तत एकान्तमुन्नीय मज्जयामास भारत ।आजगाम तदा रैभ्यः स्वमाश्रममरिंदम ॥ ५ ॥
रुदन्तीं च स्नुषां दृष्ट्वा भार्यामार्तां परावसोः ।सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर ॥ ६ ॥
सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा ।प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तदात्मना ॥ ७ ॥
शृण्वानस्यैव रैभ्यस्य यवक्रीतविचेष्टितम् ।दहन्निव तदा चेतः क्रोधः समभवन्महान् ॥ ८ ॥
स तदा मन्युनाविष्टस्तपस्वी भृशकोपनः ।अवलुप्य जटामेकां जुहावाग्नौ सुसंस्कृते ॥ ९ ॥
ततः समभवन्नारी तस्या रूपेण संमिता ।अवलुप्यापरां चाथ जुहावाग्नौ जटां पुनः ॥ १० ॥
ततः समभवद्रक्षो घोराक्षं भीमदर्शनम् ।अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे ॥ ११ ॥
तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति ।जग्मतुस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया ॥ १२ ॥
ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना ।कमण्डलुं जहारास्य मोहयित्वा तु भारत ॥ १३ ॥
उच्छिष्टं तु यवक्रीतमपकृष्टकमण्डलुम् ।तत उद्यतशूलः स राक्षसः समुपाद्रवत् ॥ १४ ॥
तमापतन्तं संप्रेक्ष्य शूलहस्तं जिघांसया ।यवक्रीः सहसोत्थाय प्राद्रवद्येन वै सरः ॥ १५ ॥
जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः ।जगाम सरितः सर्वास्ताश्चाप्यासन्विशोषिताः ॥ १६ ॥
स काल्यमानो घोरेण शूलहस्तेन रक्षसा ।अग्निहोत्रं पितुर्भीतः सहसा समुपाद्रवत् ॥ १७ ॥
स वै प्रविशमानस्तु शूद्रेणान्धेन रक्षिणा ।निगृहीतो बलाद्द्वारि सोऽवातिष्ठत पार्थिव ॥ १८ ॥
निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः ।ताडयामास शूलेन स भिन्नहृदयोऽपतत् ॥ १९ ॥
यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत् ।अनुज्ञातस्तु रैभ्येण तया नार्या सहाचरत् ॥ २० ॥
« »