Click on words to see what they mean.

लोमश उवाच ।भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम् ।समित्कलापमादाय प्रविवेश स्वमाश्रमम् ॥ १ ॥
तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठन्ति पावकाः ।न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाग्नयः ॥ २ ॥
वैकृतं त्वग्निहोत्रे स लक्षयित्वा महातपाः ।तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत् ॥ ३ ॥
किं नु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम् ।त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाश्रमे ॥ ४ ॥
कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः ।एतदाचक्ष्व मे शीघ्रं न हि मे शुध्यते मनः ॥ ५ ॥
शूद्र उवाच ।रैभ्यं गतो नूनमसौ सुतस्ते मन्दचेतनः ।तथा हि निहतः शेते राक्षसेन बलीयसा ॥ ६ ॥
प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा ।अग्न्यागारं प्रति द्वारि मया दोर्भ्यां निवारितः ॥ ७ ॥
ततः स निहतो ह्यत्र जलकामोऽशुचिर्ध्रुवम् ।संभावितो हि तूर्णेन शूलहस्तेन रक्षसा ॥ ८ ॥
लोमश उवाच ।भरद्वाजस्तु शूद्रस्य तच्छ्रुत्वा विप्रियं वचः ।गतासुं पुत्रमादाय विललाप सुदुःखितः ॥ ९ ॥
ब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः ।द्विजानामनधीता वै वेदाः संप्रतिभान्त्विति ॥ १० ॥
तथा कल्याणशीलस्त्वं ब्राह्मणेषु महात्मसु ।अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान् ॥ ११ ॥
प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात् ।गतवानेव तं क्षुद्रं कालान्तकयमोपमम् ॥ १२ ॥
यः स जानन्महातेजा वृद्धस्यैकं ममात्मजम् ।गतवानेव कोपस्य वशं परमदुर्मतिः ॥ १३ ॥
पुत्रशोकमनुप्राप्य एष रैभ्यस्य कर्मणा ।त्यक्ष्यामि त्वामृते पुत्र प्राणानिष्टतमान्भुवि ॥ १४ ॥
यथाहं पुत्रशोकेन देहं त्यक्ष्यामि किल्बिषी ।तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम् ॥ १५ ॥
सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते ।ते पुत्रशोकमप्राप्य विचरन्ति यथासुखम् ॥ १६ ॥
ये तु पुत्रकृताच्छोकाद्भृशं व्याकुलचेतसः ।शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः ॥ १७ ॥
परासुश्च सुतो दृष्टः शप्तश्चेष्टः सखा मया ।ईदृशीमापदं को नु द्वितीयोऽनुभविष्यति ॥ १८ ॥
विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम् ।सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम् ॥ १९ ॥
« »