Click on words to see what they mean.

श्येन उवाच ।धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः ।स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि ॥ १ ॥
विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा ।मा भाङ्क्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि ॥ २ ॥
राजोवाच ।संत्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज ।मत्सकाशमनुप्राप्तः प्राणगृध्नुरयं द्विजः ॥ ३ ॥
एवमभ्यागतस्येह कपोतस्याभयार्थिनः ।अप्रदाने परोऽधर्मः किं त्वं श्येन प्रपश्यसि ॥ ४ ॥
प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन लक्ष्यते ।मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः ॥ ५ ॥
श्येन उवाच ।आहारात्सर्वभूतानि संभवन्ति महीपते ।आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥ ६ ॥
शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम् ।न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम् ॥ ७ ॥
भक्ष्याद्विलोपितस्याद्य मम प्राणा विशां पते ।विसृज्य कायमेष्यन्ति पन्थानमपुनर्भवम् ॥ ८ ॥
प्रमृते मयि धर्मात्मन्पुत्रदारं नशिष्यति ।रक्षमाणः कपोतं त्वं बहून्प्राणान्नशिष्यसि ॥ ९ ॥
धर्मं यो बाधते धर्मो न स धर्मः कुधर्म तत् ।अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम ॥ १० ॥
विरोधिषु महीपाल निश्चित्य गुरुलाघवम् ।न बाधा विद्यते यत्र तं धर्मं समुदाचरेत् ॥ ११ ॥
गुरुलाघवमाज्ञाय धर्माधर्मविनिश्चये ।यतो भूयांस्ततो राजन्कुरु धर्मविनिश्चयम् ॥ १२ ॥
राजोवाच ।बहुकल्याणसंयुक्तं भाषसे विहगोत्तम ।सुपर्णः पक्षिराट्किं त्वं धर्मज्ञश्चास्यसंशयम् ।तथा हि धर्मसंयुक्तं बहु चित्रं प्रभाषसे ॥ १३ ॥
न तेऽस्त्यविदितं किंचिदिति त्वा लक्षयाम्यहम् ।शरणैषिणः परित्यागं कथं साध्विति मन्यसे ॥ १४ ॥
आहारार्थं समारम्भस्तव चायं विहंगम ।शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया ॥ १५ ॥
गोवृषो वा वराहो वा मृगो वा महिषोऽपि वा ।त्वदर्थमद्य क्रियतां यद्वान्यदभिकाङ्क्षसे ॥ १६ ॥
श्येन उवाच ।न वराहं न चोक्षाणं न मृगान्विविधांस्तथा ।भक्षयामि महाराज किमन्नाद्येन तेन मे ॥ १७ ॥
यस्तु मे दैवविहितो भक्षः क्षत्रियपुंगव ।तमुत्सृज महीपाल कपोतमिममेव मे ॥ १८ ॥
श्येनाः कपोतान्खादन्ति स्थितिरेषा सनातनी ।मा राजन्मार्गमाज्ञाय कदलीस्कन्धमारुह ॥ १९ ॥
राजोवाच ।राज्यं शिबीनामृद्धं वै शाधि पक्षिगणार्चित ।यद्वा कामयसे किंचिच्छ्येन सर्वं ददानि ते ।विनेमं पक्षिणं श्येन शरणार्थिनमागतम् ॥ २० ॥
येनेमं वर्जयेथास्त्वं कर्मणा पक्षिसत्तम ।तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम् ॥ २१ ॥
श्येन उवाच ।उशीनर कपोते ते यदि स्नेहो नराधिप ।आत्मनो मांसमुत्कृत्य कपोततुलया धृतम् ॥ २२ ॥
यदा समं कपोतेन तव मांसं भवेन्नृप ।तदा प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति ॥ २३ ॥
राजोवाच ।अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे ।तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम् ॥ २४ ॥
लोमश उवाच ।अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित् ।तुलयामास कौन्तेय कपोतेन सहाभिभो ॥ २५ ॥
ध्रियमाणस्तु तुलया कपोतो व्यतिरिच्यते ।पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः ॥ २६ ॥
न विद्यते यदा मांसं कपोतेन समं धृतम् ।तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम् ॥ २७ ॥
श्येन उवाच ।इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम् ।जिज्ञासमानौ धर्मे त्वां यज्ञवाटमुपागतौ ॥ २८ ॥
यत्ते मांसानि गात्रेभ्य उत्कृत्तानि विशां पते ।एषा ते भास्वरी कीर्तिर्लोकानभिभविष्यति ॥ २९ ॥
यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव ।तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः ॥ ३० ॥
लोमश उवाच ।तत्पाण्डवेय सदनं राज्ञस्तस्य महात्मनः ।पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम् ॥ ३१ ॥
अत्र वै सततं देवा मुनयश्च सनातनाः ।दृश्यन्ते ब्राह्मणै राजन्पुण्यवद्भिर्महात्मभिः ॥ ३२ ॥
« »