Click on words to see what they mean.

लोमश उवाच ।नृगेण यजमानेन सोमेनेह पुरंदरः ।तर्पितः श्रूयते राजन्स तृप्तो मदमभ्यगात् ॥ १ ॥
इह देवैः सहेन्द्रैर्हि प्रजापतिभिरेव च ।इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ॥ २ ॥
आमूर्तरयसश्चेह राजा वज्रधरं प्रभुम् ।तर्पयामास सोमेन हयमेधेषु सप्तसु ॥ ३ ॥
तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मयम् ।वानस्पत्यं च भौमं च यद्द्रव्यं नियतं मखे ॥ ४ ॥
तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः ।सप्तैकैकस्य यूपस्य चषालाश्चोपरि स्थिताः ॥ ५ ॥
तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान् ।स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर ॥ ६ ॥
तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः ।अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥ ७ ॥
सिकता वा यथा लोके यथा वा दिवि तारकाः ।यथा वा वर्षतो धारा असंख्येयाश्च केनचित् ॥ ८ ॥
तथैव तदसंख्येयं धनं यत्प्रददौ गयः ।सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु ॥ ९ ॥
भवेत्संख्येयमेतद्वै यदेतत्परिकीर्तितम् ।न सा शक्या तु संख्यातुं दक्षिणा दक्षिणावतः ॥ १० ॥
हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा ।ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान् ॥ ११ ॥
अल्पावशेषा पृथिवी चैत्यैरासीन्महात्मनः ।गयस्य यजमानस्य तत्र तत्र विशां पते ॥ १२ ॥
स लोकान्प्राप्तवानैन्द्रान्कर्मणा तेन भारत ।सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत् ॥ १३ ॥
तस्मात्त्वमत्र राजेन्द्र भ्रातृभिः सहितोऽनघ ।उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि ॥ १४ ॥
वैशंपायन उवाच ।स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह ।वैडूर्यपर्वतं चैव नर्मदां च महानदीम् ।समाजगाम तेजस्वी भ्रातृभिः सहितोऽनघः ॥ १५ ॥
ततोऽस्य सर्वाण्याचख्यौ लोमशो भगवानृषिः ।तीर्थानि रमणीयानि तत्र तत्र विशां पते ॥ १६ ॥
यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह ।ददमानोऽसकृद्वित्तं ब्राह्मणेभ्यः सहस्रशः ॥ १७ ॥
लोमश उवाच ।देवानामेति कौन्तेय तथा राज्ञां सलोकताम् ।वैडूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च ॥ १८ ॥
संधिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च ।एतमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते ॥ १९ ॥
एष शर्यातियज्ञस्य देशस्तात प्रकाशते ।साक्षाद्यत्रापिबत्सोममश्विभ्यां सह कौशिकः ॥ २० ॥
चुकोप भार्गवश्चापि महेन्द्रस्य महातपाः ।संस्तम्भयामास च तं वासवं च्यवनः प्रभुः ।सुकन्यां चापि भार्यां स राजपुत्रीमिवाप्तवान् ॥ २१ ॥
युधिष्ठिर उवाच ।कथं विष्टम्भितस्तेन भगवान्पाकशासनः ।किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः ॥ २२ ॥
नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ ।एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम ॥ २३ ॥
« »