Click on words to see what they mean.

नारद उवाच ।कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम् ।वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह ॥ १ ॥
तैजसी सा सभा राजन्बभूव शतयोजना ।विस्तारायामसंपन्ना भूयसी चापि पाण्डव ॥ २ ॥
अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी ।नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी ॥ ३ ॥
न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् ।न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत ॥ ४ ॥
सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः ।रसवच्च प्रभूतं च भक्ष्यभोज्यमरिंदम ॥ ५ ॥
पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः ।रसवन्ति च तोयानि शीतान्युष्णानि चैव ह ॥ ६ ॥
तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः ।यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते ॥ ७ ॥
ययातिर्नहुषः पूरुर्मान्धाता सोमको नृगः ।त्रसदस्युश्च तुरयः कृतवीर्यः श्रुतश्रवाः ॥ ८ ॥
अरिप्रणुत्सुसिंहश्च कृतवेगः कृतिर्निमिः ।प्रतर्दनः शिबिर्मत्स्यः पृथ्वक्षोऽथ बृहद्रथः ॥ ९ ॥
ऐडो मरुत्तः कुशिकः सांकाश्यः सांकृतिर्भवः ।चतुरश्वः सदश्वोर्मिः कार्तवीर्यश्च पार्थिवः ॥ १० ॥
भरतस्तथा सुरथः सुनीथो नैषधो नलः ।दिवोदासोऽथ सुमना अम्बरीषो भगीरथः ॥ ११ ॥
व्यश्वः सदश्वो वध्र्यश्वः पञ्चहस्तः पृथुश्रवाः ।रुषद्गुर्वृषसेनश्च क्षुपश्च सुमहाबलः ॥ १२ ॥
रुषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी ।आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः ॥ १३ ॥
औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः ।अङ्गोऽरिष्टश्च वेनश्च दुःषन्तः संजयो जयः ॥ १४ ॥
भाङ्गास्वरिः सुनीथश्च निषधोऽथ त्विषीरथः ।करंधमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः ॥ १५ ॥
कपोतरोमा तृणकः सहदेवार्जुनौ तथा ।रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः ॥ १६ ॥
अलर्कः कक्षसेनश्च गयो गौराश्व एव च ।जामदग्न्योऽथ रामोऽत्र नाभागसगरौ तथा ॥ १७ ॥
भूरिद्युम्नो महाश्वश्च पृथ्वश्वो जनकस्तथा ।वैन्यो राजा वारिषेणः पुरुजो जनमेजयः ॥ १८ ॥
ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा ।इन्द्रद्युम्नो भीमजानुर्गयः पृष्ठो नयोऽनघः ॥ १९ ॥
पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित् ।अरिष्टनेमिः प्रद्युम्नः पृथगश्वोऽजकस्तथा ॥ २० ॥
शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः ।धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः ॥ २१ ॥
शतं च ब्रह्मदत्तानामीरिणां वैरिणां शतम् ।शंतनुश्चैव राजर्षिः पाण्डुश्चैव पिता तव ॥ २२ ॥
उशद्गवः शतरथो देवराजो जयद्रथः ।वृषादर्भिश्च राजर्षिर्धाम्ना सह समन्त्रिणा ॥ २३ ॥
अथापरे सहस्राणि ये गताः शशबिन्दवः ।इष्ट्वाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः ॥ २४ ॥
एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः ।तस्यां सभायां राजर्षे वैवस्वतमुपासते ॥ २५ ॥
अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च ।यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः ॥ २६ ॥
अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये ।स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे ॥ २७ ॥
कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः ।नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः ॥ २८ ॥
कालस्य नयने युक्ता यमस्य पुरुषाश्च ये ।तस्यां शिंशपपालाशास्तथा काशकुशादयः ।उपासते धर्मराजं मूर्तिमन्तो निरामयाः ॥ २९ ॥
एते चान्ये च बहवः पितृराजसभासदः ।अशक्याः परिसंख्यातुं नामभिः कर्मभिस्तथा ॥ ३० ॥
असंबाधा हि सा पार्थ रम्या कामगमा सभा ।दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा ॥ ३१ ॥
प्रभासन्ती ज्वलन्तीव तेजसा स्वेन भारत ।तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः ॥ ३२ ॥
शान्ताः संन्यासिनः सिद्धाः पूताः पुण्येन कर्मणा ।सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः ॥ ३३ ॥
चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः ।सुकृतैः कर्मभिः पुण्यैः परिबर्हैर्विभूषिताः ॥ ३४ ॥
गन्धर्वाश्च महात्मानः शतशश्चाप्सरोगणाः ।वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः ॥ ३५ ॥
पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः ।दिव्यानि माल्यानि च तामुपतिष्ठन्ति सर्वशः ॥ ३६ ॥
शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् ।उपासते महात्मानं रूपयुक्ता मनस्विनः ॥ ३७ ॥
ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः ।वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् ॥ ३८ ॥
« »