Click on words to see what they mean.

वैशंपायन उवाच ।तस्मिन्संप्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम् ।आपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः ॥ १ ॥
यथार्हं वन्दनाश्लेषान्कृत्वा गन्तुमियेष सा ।ततो निनादः सुमहान्पाण्डवान्तःपुरेऽभवत् ॥ २ ॥
कुन्ती च भृशसंतप्ता द्रौपदीं प्रेक्ष्य गच्छतीम् ।शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत् ॥ ३ ॥
वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत् ।स्त्रीधर्माणामभिज्ञासि शीलाचारवती तथा ॥ ४ ॥
न त्वां संदेष्टुमर्हामि भर्तॄन्प्रति शुचिस्मिते ।साध्वीगुणसमाधानैर्भूषितं ते कुलद्वयम् ॥ ५ ॥
सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयानघे ।अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता ॥ ६ ॥
भाविन्यर्थे हि सत्स्त्रीणां वैक्लव्यं नोपजायते ।गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवाप्स्यसि ॥ ७ ॥
सहदेवश्च मे पुत्रः सदावेक्ष्यो वने वसन् ।यथेदं व्यसनं प्राप्य नास्य सीदेन्महन्मनः ॥ ८ ॥
तथेत्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला ।शोणिताक्तैकवसना मुक्तकेश्यभिनिर्ययौ ॥ ९ ॥
तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम् ।अथापश्यत्सुतान्सर्वान्हृताभरणवाससः ॥ १० ॥
रुरुचर्मावृततनून्ह्रिया किंचिदवाङ्मुखान् ।परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान् ॥ ११ ॥
तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला ।सस्वजानावदच्छोकात्तत्तद्विलपती बहु ॥ १२ ॥
कथं सद्धर्मचारित्रवृत्तस्थितिविभूषितान् ।अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा ॥ १३ ॥
व्यसनं वः समभ्यागात्कोऽयं विधिविपर्ययः ।कस्यापध्यानजं चेदमागः पश्यामि वो धिया ॥ १४ ॥
स्यात्तु मद्भाग्यदोषोऽयं याहं युष्मानजीजनम् ।दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः ॥ १५ ॥
कथं वत्स्यथ दुर्गेषु वनेष्वृद्धिविनाकृताः ।वीर्यसत्त्वबलोत्साहतेजोभिरकृशाः कृशाः ॥ १६ ॥
यद्येतदहमज्ञास्यं वनवासो हि वो ध्रुवम् ।शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम् ॥ १७ ॥
धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा ।यः पुत्राधिमसंप्राप्य स्वर्गेच्छामकरोत्प्रियाम् ॥ १८ ॥
धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम् ।मन्येऽद्य माद्रीं धर्मज्ञां कल्याणीं सर्वथैव हि ॥ १९ ॥
रत्या मत्या च गत्या च ययाहमभिसंधिता ।जीवितप्रियतां मह्यं धिगिमां क्लेशभागिनीम् ॥ २० ॥
एवं विलपतीं कुन्तीमभिसान्त्व्य प्रणम्य च ।पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः ॥ २१ ॥
विदुरादयश्च तामार्तां कुन्तीमाश्वास्य हेतुभिः ।प्रावेशयन्गृहं क्षत्तुः स्वयमार्ततराः शनैः ॥ २२ ॥
राजा च धृतराष्ट्रः स शोकाकुलितचेतनः ।क्षत्तुः संप्रेषयामास शीघ्रमागम्यतामिति ॥ २३ ॥
ततो जगाम विदुरो धृतराष्ट्रनिवेशनम् ।तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो नराधिपः ॥ २४ ॥
« »