Click on words to see what they mean.

धृतराष्ट्र उवाच ।कथं गच्छति कौन्तेयो धर्मराजो युधिष्ठिरः ।भीमसेनः सव्यसाची माद्रीपुत्रौ च तावुभौ ॥ १ ॥
धौम्यश्चैव कथं क्षत्तर्द्रौपदी वा तपस्विनी ।श्रोतुमिच्छाम्यहं सर्वं तेषामङ्गविचेष्टितम् ॥ २ ॥
विदुर उवाच ।वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः ।बाहू विशालौ कृत्वा तु भीमो गच्छति पाण्डवः ॥ ३ ॥
सिकता वपन्सव्यसाची राजानमनुगच्छति ।माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति ॥ ४ ॥
पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः ।दर्शनीयतमो लोके राजानमनुगच्छति ॥ ५ ॥
कृष्णा केशैः प्रतिच्छाद्य मुखमायतलोचना ।दर्शनीया प्ररुदती राजानमनुगच्छति ॥ ६ ॥
धौम्यो याम्यानि सामानि रौद्राणि च विशां पते ।गायन्गच्छति मार्गेषु कुशानादाय पाणिना ॥ ७ ॥
धृतराष्ट्र उवाच ।विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः ।तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते ॥ ८ ॥
विदुर उवाच ।निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च ।न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः ॥ ९ ॥
योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत ।निकृत्या क्रोधसंतप्तो नोन्मीलयति लोचने ॥ १० ॥
नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा ।स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः ॥ ११ ॥
यथा च भीमो व्रजति तन्मे निगदतः शृणु ।बाह्वोर्बले नास्ति समो ममेति भरतर्षभ ॥ १२ ॥
बाहू विशालौ कृत्वा तु तेन भीमोऽपि गच्छति ।बाहू दर्शयमानो हि बाहुद्रविणदर्पितः ।चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः ॥ १३ ॥
प्रदिशञ्शरसंपातान्कुन्तीपुत्रोऽर्जुनस्तदा ।सिकता वपन्सव्यसाची राजानमनुगच्छति ॥ १४ ॥
असक्ताः सिकतास्तस्य यथा संप्रति भारत ।असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु ॥ १५ ॥
न मे कश्चिद्विजानीयान्मुखमद्येति भारत ।मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति ॥ १६ ॥
नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो ।पांसूपचितसर्वाङ्गो नकुलस्तेन गच्छति ॥ १७ ॥
एकवस्त्रा तु रुदती मुक्तकेशी रजस्वला ।शोणिताक्तार्द्रवसना द्रौपदी वाक्यमब्रवीत् ॥ १८ ॥
यत्कृतेऽहमिमां प्राप्ता तेषां वर्षे चतुर्दशे ।हतपत्यो हतसुता हतबन्धुजनप्रियाः ॥ १९ ॥
बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः ।एवं कृतोदका नार्यः प्रवेक्ष्यन्ति गजाह्वयम् ॥ २० ॥
कृत्वा तु नैरृतान्दर्भान्धीरो धौम्यः पुरोहितः ।सामानि गायन्याम्यानि पुरतो याति भारत ॥ २१ ॥
हतेषु भारतेष्वाजौ कुरूणां गुरवस्तदा ।एवं सामानि गास्यन्तीत्युक्त्वा धौम्योऽपि गच्छति ॥ २२ ॥
हा हा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम् ।इति पौराः सुदुःखार्ताः क्रोशन्ति स्म समन्ततः ॥ २३ ॥
एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम् ।कथयन्तः स्म कौन्तेया वनं जग्मुर्मनस्विनः ॥ २४ ॥
एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात् ।अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत ॥ २५ ॥
राहुरग्रसदादित्यमपर्वणि विशां पते ।उल्का चाप्यपसव्यं तु पुरं कृत्वा व्यशीर्यत ॥ २६ ॥
प्रव्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः ।देवायतनचैत्येषु प्राकाराट्टालकेषु च ॥ २७ ॥
एवमेते महोत्पाता वनं गच्छति पाण्डवे ।भारतानामभावाय राजन्दुर्मन्त्रिते तव ॥ २८ ॥
नारदश्च सभामध्ये कुरूणामग्रतः स्थितः ।महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह ॥ २९ ॥
इतश्चतुर्दशे वर्षे विनङ्क्ष्यन्तीह कौरवाः ।दुर्योधनापराधेन भीमार्जुनबलेन च ॥ ३० ॥
इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत ।ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः ॥ ३१ ॥
ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन् ॥ ३२ ॥
अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम् ।दुःशासनं च कर्णं च सर्वानेव च भारतान् ॥ ३३ ॥
अवध्यान्पाण्डवानाहुर्देवपुत्रान्द्विजातयः ।अहं तु शरणं प्राप्तान्वर्तमानो यथाबलम् ॥ ३४ ॥
गतान्सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान् ।नोत्सहे समभित्यक्तुं दैवमूलमतः परम् ॥ ३५ ॥
धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः ।ते च द्वादश वर्षाणि वने वत्स्यन्ति कौरवाः ॥ ३६ ॥
चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः ।वैरं प्रत्यानयिष्यन्ति मम दुःखाय पाण्डवाः ॥ ३७ ॥
मया तु भ्रंशितो राज्याद्द्रुपदः सखिविग्रहे ।पुत्रार्थमयजत्क्रोधाद्वधाय मम भारत ॥ ३८ ॥
याजोपयाजतपसा पुत्रं लेभे स पावकात् ।धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम् ॥ ३९ ॥
ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी ।मर्त्यधर्मतया तस्मादिति मां भयमाविशत् ॥ ४० ॥
गतो हि पक्षतां तेषां पार्षतः पुरुषर्षभः ।सृष्टप्राणो भृशतरं तस्माद्योत्स्ये तवारिभिः ॥ ४१ ॥
मद्वधाय श्रुतो ह्येष लोके चाप्यतिविश्रुतः ।नूनं सोऽयमनुप्राप्तस्त्वत्कृते कालपर्ययः ॥ ४२ ॥
त्वरिताः कुरुत श्रेयो नैतदेतावता कृतम् ।मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी ॥ ४३ ॥
यजध्वं च महायज्ञैर्भोगानश्नीत दत्त च ।इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम् ॥ ४४ ॥
दुर्योधन निशम्यैतत्प्रतिपद्य यथेच्छसि ।साम वा पाण्डवेयेषु प्रयुङ्क्ष्व यदि मन्यसे ॥ ४५ ॥
वैशंपायन उवाच ।द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम् ।सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान् ॥ ४६ ॥
यदि वा न निवर्तन्ते सत्कृता यान्तु पाण्डवाः ।सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः ॥ ४७ ॥
« »