Click on words to see what they mean.

दुर्योधन उवाच ।एहि क्षत्तर्द्रौपदीमानयस्व प्रियां भार्यां संमतां पाण्डवानाम् ।संमार्जतां वेश्म परैतु शीघ्रमानन्दो नः सह दासीभिरस्तु ॥ १ ॥
विदुर उवाच ।दुर्विभाव्यं भवति त्वादृशेन न मन्द संबुध्यसि पाशबद्धः ।प्रपाते त्वं लम्बमानो न वेत्सि व्याघ्रान्मृगः कोपयसेऽतिबाल्यात् ॥ २ ॥
आशीविषाः शिरसि ते पूर्णकोशा महाविषाः ।मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम् ॥ ३ ॥
न हि दासीत्वमापन्ना कृष्णा भवति भारत ।अनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः ॥ ४ ॥
अयं धत्ते वेणुरिवात्मघाती फलं राजा धृतराष्ट्रस्य पुत्रः ।द्यूतं हि वैराय महाभयाय पक्वो न बुध्यत्ययमन्तकाले ॥ ५ ॥
नारुंतुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत ।ययास्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलोक्याम् ॥ ६ ॥
समुच्चरन्त्यतिवादा हि वक्त्राद्यैराहतः शोचति रात्र्यहानि ।परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥ ७ ॥
अजो हि शस्त्रमखनत्किलैकः शस्त्रे विपन्ने पद्भिरपास्य भूमिम् ।निकृन्तनं स्वस्य कण्ठस्य घोरं तद्वद्वैरं मा खनीः पाण्डुपुत्रैः ॥ ८ ॥
न किंचिदीड्यं प्रवदन्ति पापं वनेचरं वा गृहमेधिनं वा ।तपस्विनं संपरिपूर्णविद्यं भषन्ति हैवं श्वनराः सदैव ॥ ९ ॥
द्वारं सुघोरं नरकस्य जिह्मं न बुध्यसे धृतराष्ट्रस्य पुत्र ।त्वामन्वेतारो बहवः कुरूणां द्यूतोदये सह दुःशासनेन ॥ १० ॥
मज्जन्त्यलाबूनि शिलाः प्लवन्ते मुह्यन्ति नावोऽम्भसि शश्वदेव ।मूढो राजा धृतराष्ट्रस्य पुत्रो न मे वाचः पथ्यरूपाः शृणोति ॥ ११ ॥
अन्तो नूनं भवितायं कुरूणां सुदारुणः सर्वहरो विनाशः ।वाचः काव्याः सुहृदां पथ्यरूपा न श्रूयन्ते वर्धते लोभ एव ॥ १२ ॥
« »