Click on words to see what they mean.

वैशंपायन उवाच ।धिगस्तु क्षत्तारमिति ब्रुवाणो दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः ।अवैक्षत प्रातिकामीं सभायामुवाच चैनं परमार्यमध्ये ॥ १ ॥
त्वं प्रातिकामिन्द्रौपदीमानयस्व न ते भयं विद्यते पाण्डवेभ्यः ।क्षत्ता ह्ययं विवदत्येव भीरुर्न चास्माकं वृद्धिकामः सदैव ॥ २ ॥
एवमुक्तः प्रातिकामी स सूतः प्रायाच्छीघ्रं राजवचो निशम्य ।प्रविश्य च श्वेव स सिंहगोष्ठं समासदन्महिषीं पाण्डवानाम् ॥ ३ ॥
प्रातिकाम्युवाच ।युधिष्ठिरे द्यूतमदेन मत्ते दुर्योधनो द्रौपदि त्वामजैषीत् ।सा प्रपद्य त्वं धृतराष्ट्रस्य वेश्म नयामि त्वां कर्मणे याज्ञसेनि ॥ ४ ॥
द्रौपद्युवाच ।कथं त्वेवं वदसि प्रातिकामिन्को वै दीव्येद्भार्यया राजपुत्रः ।मूढो राजा द्यूतमदेन मत्त आहो नान्यत्कैतवमस्य किंचित् ॥ ५ ॥
प्रातिकाम्युवाच ।यदा नाभूत्कैतवमन्यदस्य तदादेवीत्पाण्डवोऽजातशत्रुः ।न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा स्वयं चात्मा त्वमथो राजपुत्रि ॥ ६ ॥
द्रौपद्युवाच ।गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज ।किं नु पूर्वं पराजैषीरात्मानं मां नु भारत ।एतज्ज्ञात्वा त्वमागच्छ ततो मां नय सूतज ॥ ७ ॥
वैशंपायन उवाच ।सभां गत्वा स चोवाच द्रौपद्यास्तद्वचस्तदा ।कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी ।किं नु पूर्वं पराजैषीरात्मानमथ वापि माम् ॥ ८ ॥
युधिष्ठिरस्तु निश्चेष्टो गतसत्त्व इवाभवत् ।न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा ॥ ९ ॥
दुर्योधन उवाच ।इहैत्य कृष्णा पाञ्चाली प्रश्नमेतं प्रभाषताम् ।इहैव सर्वे शृण्वन्तु तस्या अस्य च यद्वचः ॥ १० ॥
वैशंपायन उवाच ।स गत्वा राजभवनं दुर्योधनवशानुगः ।उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव ॥ ११ ॥
सभ्यास्त्वमी राजपुत्र्याह्वयन्ति मन्ये प्राप्तः संक्षयः कौरवाणाम् ।न वै समृद्धिं पालयते लघीयान्यत्त्वं सभामेष्यसि राजपुत्रि ॥ १२ ॥
द्रौपद्युवाच ।एवं नूनं व्यदधात्संविधाता स्पर्शावुभौ स्पृशतो धीरबालौ ।धर्मं त्वेकं परमं प्राह लोके स नः शमं धास्यति गोप्यमानः ॥ १३ ॥
वैशंपायन उवाच ।युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम् ।द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ ॥ १४ ॥
एकवस्त्रा अधोनीवी रोदमाना रजस्वला ।सभामागम्य पाञ्चाली श्वशुरस्याग्रतोऽभवत् ॥ १५ ॥
ततस्तेषां मुखमालोक्य राजा दुर्योधनः सूतमुवाच हृष्टः ।इहैवैतामानय प्रातिकामिन्प्रत्यक्षमस्याः कुरवो ब्रुवन्तु ॥ १६ ॥
ततः सूतस्तस्य वशानुगामी भीतश्च कोपाद्द्रुपदात्मजायाः ।विहाय मानं पुनरेव सभ्यानुवाच कृष्णां किमहं ब्रवीमि ॥ १७ ॥
दुर्योधन उवाच ।दुःशासनैष मम सूतपुत्रो वृकोदरादुद्विजतेऽल्पचेताः ।स्वयं प्रगृह्यानय याज्ञसेनीं किं ते करिष्यन्त्यवशाः सपत्नाः ॥ १८ ॥
ततः समुत्थाय स राजपुत्रः श्रुत्वा भ्रातुः कोपविरक्तदृष्टिः ।प्रविश्य तद्वेश्म महारथानामित्यब्रवीद्द्रौपदीं राजपुत्रीम् ॥ १९ ॥
एह्येहि पाञ्चालि जितासि कृष्णे दुर्योधनं पश्य विमुक्तलज्जा ।कुरून्भजस्वायतपद्मनेत्रे धर्मेण लब्धासि सभां परैहि ॥ २० ॥
ततः समुत्थाय सुदुर्मनाः सा विवर्णमामृज्य मुखं करेण ।आर्ता प्रदुद्राव यतः स्त्रियस्ता वृद्धस्य राज्ञः कुरुपुंगवस्य ॥ २१ ॥
ततो जवेनाभिससार रोषाद्दुःशासनस्तामभिगर्जमानः ।दीर्घेषु नीलेष्वथ चोर्मिमत्सु जग्राह केशेषु नरेन्द्रपत्नीम् ॥ २२ ॥
ये राजसूयावभृथे जलेन महाक्रतौ मन्त्रपूतेन सिक्ताः ।ते पाण्डवानां परिभूय वीर्यं बलात्प्रमृष्टा धृतराष्ट्रजेन ॥ २३ ॥
स तां परामृश्य सभासमीपमानीय कृष्णामतिकृष्णकेशीम् ।दुःशासनो नाथवतीमनाथवच्चकर्ष वायुः कदलीमिवार्ताम् ॥ २४ ॥
सा कृष्यमाणा नमिताङ्गयष्टिः शनैरुवाचाद्य रजस्वलास्मि ।एकं च वासो मम मन्दबुद्धे सभां नेतुं नार्हसि मामनार्य ॥ २५ ॥
ततोऽब्रवीत्तां प्रसभं निगृह्य केशेषु कृष्णेषु तदा स कृष्णाम् ।कृष्णं च जिष्णुं च हरिं नरं च त्राणाय विक्रोश नयामि हि त्वाम् ॥ २६ ॥
रजस्वला वा भव याज्ञसेनि एकाम्बरा वाप्यथ वा विवस्त्रा ।द्यूते जिता चासि कृतासि दासी दासीषु कामश्च यथोपजोषम् ॥ २७ ॥
प्रकीर्णकेशी पतितार्धवस्त्रा दुःशासनेन व्यवधूयमाना ।ह्रीमत्यमर्षेण च दह्यमाना शनैरिदं वाक्यमुवाच कृष्णा ॥ २८ ॥
इमे सभायामुपदिष्टशास्त्राः क्रियावन्तः सर्व एवेन्द्रकल्पाः ।गुरुस्थाना गुरवश्चैव सर्वे तेषामग्रे नोत्सहे स्थातुमेवम् ॥ २९ ॥
नृशंसकर्मंस्त्वमनार्यवृत्त मा मां विवस्त्रां कृधि मा विकार्षीः ।न मर्षयेयुस्तव राजपुत्राः सेन्द्रापि देवा यदि ते सहायाः ॥ ३० ॥
धर्मे स्थितो धर्मसुतश्च राजा धर्मश्च सूक्ष्मो निपुणोपलभ्यः ।वाचापि भर्तुः परमाणुमात्रं नेच्छामि दोषं स्वगुणान्विसृज्य ॥ ३१ ॥
इदं त्वनार्यं कुरुवीरमध्ये रजस्वलां यत्परिकर्षसे माम् ।न चापि कश्चित्कुरुतेऽत्र पूजां ध्रुवं तवेदं मतमन्वपद्यन् ॥ ३२ ॥
धिगस्तु नष्टः खलु भारतानां धर्मस्तथा क्षत्रविदां च वृत्तम् ।यत्राभ्यतीतां कुरुधर्मवेलां प्रेक्षन्ति सर्वे कुरवः सभायाम् ॥ ३३ ॥
द्रोणस्य भीष्मस्य च नास्ति सत्त्वं ध्रुवं तथैवास्य महात्मनोऽपि ।राज्ञस्तथा हीममधर्ममुग्रं न लक्षयन्ते कुरुवृद्धमुख्याः ॥ ३४ ॥
तथा ब्रुवन्ती करुणं सुमध्यमा काक्षेण भर्तॄन्कुपितानपश्यत् ।सा पाण्डवान्कोपपरीतदेहान्संदीपयामास कटाक्षपातैः ॥ ३५ ॥
हृतेन राज्येन तथा धनेन रत्नैश्च मुख्यैर्न तथा बभूव ।यथार्तया कोपसमीरितेन कृष्णाकटाक्षेण बभूव दुःखम् ॥ ३६ ॥
दुःशासनश्चापि समीक्ष्य कृष्णामवेक्षमाणां कृपणान्पतींस्तान् ।आधूय वेगेन विसंज्ञकल्पामुवाच दासीति हसन्निवोग्रः ॥ ३७ ॥
कर्णस्तु तद्वाक्यमतीव हृष्टः संपूजयामास हसन्सशब्दम् ।गान्धारराजः सुबलस्य पुत्रस्तथैव दुःशासनमभ्यनन्दत् ॥ ३८ ॥
सभ्यास्तु ये तत्र बभूवुरन्ये ताभ्यामृते धार्तराष्ट्रेण चैव ।तेषामभूद्दुःखमतीव कृष्णां दृष्ट्वा सभायां परिकृष्यमाणाम् ॥ ३९ ॥
भीष्म उवाच ।न धर्मसौक्ष्म्यात्सुभगे विवक्तुं शक्नोमि ते प्रश्नमिमं यथावत् ।अस्वो ह्यशक्तः पणितुं परस्वं स्त्रियश्च भर्तुर्वशतां समीक्ष्य ॥ ४० ॥
त्यजेत सर्वां पृथिवीं समृद्धां युधिष्ठिरः सत्यमथो न जह्यात् ।उक्तं जितोऽस्मीति च पाण्डवेन तस्मान्न शक्नोमि विवेक्तुमेतत् ॥ ४१ ॥
द्यूतेऽद्वितीयः शकुनिर्नरेषु कुन्तीसुतस्तेन निसृष्टकामः ।न मन्यते तां निकृतिं महात्मा तस्मान्न ते प्रश्नमिमं ब्रवीमि ॥ ४२ ॥
द्रौपद्युवाच ।आहूय राजा कुशलैः सभायां दुष्टात्मभिर्नैकृतिकैरनार्यैः ।द्यूतप्रियैर्नातिकृतप्रयत्नः कस्मादयं नाम निसृष्टकामः ॥ ४३ ॥
स शुद्धभावो निकृतिप्रवृत्तिमबुध्यमानः कुरुपाण्डवाग्र्यः ।संभूय सर्वैश्च जितोऽपि यस्मात्पश्चाच्च यत्कैतवमभ्युपेतः ॥ ४४ ॥
तिष्ठन्ति चेमे कुरवः सभायामीशाः सुतानां च तथा स्नुषाणाम् ।समीक्ष्य सर्वे मम चापि वाक्यं विब्रूत मे प्रश्नमिमं यथावत् ॥ ४५ ॥
वैशंपायन उवाच ।तथा ब्रुवन्तीं करुणं रुदन्तीमवेक्षमाणामसकृत्पतींस्तान् ।दुःशासनः परुषाण्यप्रियाणि वाक्यान्युवाचामधुराणि चैव ॥ ४६ ॥
तां कृष्यमाणां च रजस्वलां च स्रस्तोत्तरीयामतदर्हमाणाम् ।वृकोदरः प्रेक्ष्य युधिष्ठिरं च चकार कोपं परमार्तरूपः ॥ ४७ ॥
« »