Click on words to see what they mean.

वैशंपायन उवाच ।तथा तत्रोपविष्टेषु पाण्डवेषु महात्मसु ।महत्सु चोपविष्टेषु गन्धर्वेषु च भारत ॥ १ ॥
लोकाननुचरन्सर्वानागमत्तां सभामृषिः ।नारदः सुमहातेजा ऋषिभिः सहितस्तदा ॥ २ ॥
पारिजातेन राजेन्द्र रैवतेन च धीमता ।सुमुखेन च सौम्येन देवर्षिरमितद्युतिः ।सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः ॥ ३ ॥
तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित् ।सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह ।अभ्यवादयत प्रीत्या विनयावनतस्तदा ॥ ४ ॥
तदर्हमासनं तस्मै संप्रदाय यथाविधि ।अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित् ॥ ५ ॥
सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः ।धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम् ॥ ६ ॥
नारद उवाच ।कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः ।सुखानि चानुभूयन्ते मनश्च न विहन्यते ॥ ७ ॥
कच्चिदाचरितां पूर्वैर्नरदेव पितामहैः ।वर्तसे वृत्तिमक्षीणां धर्मार्थसहितां नृषु ॥ ८ ॥
कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा ।उभौ वा प्रीतिसारेण न कामेन प्रबाधसे ॥ ९ ॥
कच्चिदर्थं च धर्मं च कामं च जयतां वर ।विभज्य काले कालज्ञ सदा वरद सेवसे ॥ १० ॥
कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथानघ ।बलाबलं तथा सम्यक्चतुर्दश परीक्षसे ॥ ११ ॥
कच्चिदात्मानमन्वीक्ष्य परांश्च जयतां वर ।तथा संधाय कर्माणि अष्टौ भारत सेवसे ॥ १२ ॥
कच्चित्प्रकृतयः षट्ते न लुप्ता भरतर्षभ ।आढ्यास्तथाव्यसनिनः स्वनुरक्ताश्च सर्वशः ॥ १३ ॥
कच्चिन्न तर्कैर्दूतैर्वा ये चाप्यपरिशङ्किताः ।त्वत्तो वा तव वामात्यैर्भिद्यते जातु मन्त्रितम् ॥ १४ ॥
कच्चित्संधिं यथाकालं विग्रहं चोपसेवसे ।कच्चिद्वृत्तिमुदासीने मध्यमे चानुवर्तसे ॥ १५ ॥
कच्चिदात्मसमा बुद्ध्या शुचयो जीवितक्षमाः ।कुलीनाश्चानुरक्ताश्च कृतास्ते वीर मन्त्रिणः ॥ १६ ॥
विजयो मन्त्रमूलो हि राज्ञां भवति भारत ।सुसंवृतो मन्त्रधनैरमात्यैः शास्त्रकोविदैः ॥ १७ ॥
कच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे ।कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित् ॥ १८ ॥
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह ।कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रमनुधावति ॥ १९ ॥
कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान् ।क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान् ॥ २० ॥
कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः ।सर्वे वा पुनरुत्सृष्टाः संसृष्टं ह्यत्र कारणम् ॥ २१ ॥
कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः ।विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित् ॥ २२ ॥
कच्चित्कारणिकाः सर्वे सर्वशास्त्रेषु कोविदाः ।कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः ॥ २३ ॥
कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम् ।पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं परम् ॥ २४ ॥
कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः ।यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥ २५ ॥
एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः ।राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥ २६ ॥
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ २७ ॥
कच्चिद्द्विषामविदितः प्रतियत्तश्च सर्वदा ।नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन ॥ २८ ॥
कच्चिद्विनयसंपन्नः कुलपुत्रो बहुश्रुतः ।अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः ॥ २९ ॥
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः ।हुतं च होष्यमाणं च काले वेदयते सदा ॥ ३० ॥
कच्चिदङ्गेषु निष्णातो ज्योतिषां प्रतिपादकः ।उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव ॥ ३१ ॥
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः ।जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः ॥ ३२ ॥
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् ।श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ ३३ ॥
कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजाः ।राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ ॥ ३४ ॥
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा ।उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ ३५ ॥
कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्शुचिः ।कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तव ॥ ३६ ॥
कच्चिद्बलस्य ते मुख्याः सर्वे युद्धविशारदाः ।दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥ ३७ ॥
कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् ।संप्राप्तकालं दातव्यं ददासि न विकर्षसि ॥ ३८ ॥
कालातिक्रमणाद्ध्येते भक्तवेतनयोर्भृताः ।भर्तुः कुप्यन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः ॥ ३९ ॥
कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः ।कच्चित्प्राणांस्तवार्थेषु संत्यजन्ति सदा युधि ॥ ४० ॥
कच्चिन्नैको बहूनर्थान्सर्वशः सांपरायिकान् ।अनुशास्सि यथाकामं कामात्मा शासनातिगः ॥ ४१ ॥
कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन् ।लभते मानमधिकं भूयो वा भक्तवेतनम् ॥ ४२ ॥
कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान् ।यथार्हं गुणतश्चैव दानेनाभ्यवपद्यसे ॥ ४३ ॥
कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमेयुषाम् ।व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ ॥ ४४ ॥
कच्चिद्भयादुपनतं क्लीबं वा रिपुमागतम् ।युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि ॥ ४५ ॥
कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते ।समश्च नाभिशङ्क्यश्च यथा माता यथा पिता ॥ ४६ ॥
कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ ।अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् ॥ ४७ ॥
पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम् ।बलस्य च महाराज दत्त्वा वेतनमग्रतः ॥ ४८ ॥
कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परंतप ।उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः ॥ ४९ ॥
कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः ।पराञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान् ॥ ५० ॥
कच्चित्ते यास्यतः शत्रून्पूर्वं यान्ति स्वनुष्ठिताः ।साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः ॥ ५१ ॥
कच्चिन्मूलं दृढं कृत्वा यात्रां यासि विशां पते ।तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि ॥ ५२ ॥
कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः ।बलमुख्यैः सुनीता ते द्विषतां प्रतिबाधनी ॥ ५३ ॥
कच्चिल्लवं च मुष्टिं च परराष्ट्रे परंतप ।अविहाय महाराज विहंसि समरे रिपून् ॥ ५४ ॥
कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव ।अर्थान्समनुतिष्ठन्ति रक्षन्ति च परस्परम् ॥ ५५ ॥
कच्चिदभ्यवहार्याणि गात्रसंस्पर्शकानि च ।घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव ॥ ५६ ॥
कच्चित्कोशं च कोष्ठं च वाहनं द्वारमायुधम् ।आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः ॥ ५७ ॥
कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशां पते ।रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान् ॥ ५८ ॥
कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च ।प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव ॥ ५९ ॥
कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः ।पादभागैस्त्रिभिर्वापि व्ययः संशोध्यते तव ॥ ६० ॥
कच्चिज्ज्ञातीन्गुरून्वृद्धान्वणिजः शिल्पिनः श्रितान् ।अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान् ॥ ६१ ॥
कच्चिदायव्यये युक्ताः सर्वे गणकलेखकाः ।अनुतिष्ठन्ति पूर्वाह्णे नित्यमायव्ययं तव ॥ ६२ ॥
कच्चिदर्थेषु संप्रौढान्हितकामाननुप्रियान् ।नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम् ॥ ६३ ॥
कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान् ।त्वं कर्मस्वनुरूपेषु नियोजयसि भारत ॥ ६४ ॥
कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशां पते ।अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः ॥ ६५ ॥
कच्चिन्न लुब्धैश्चौरैर्वा कुमारैः स्त्रीबलेन वा ।त्वया वा पीड्यते राष्ट्रं कच्चित्पुष्टाः कृषीवलाः ॥ ६६ ॥
कच्चिद्राष्ट्रे तडागानि पूर्णानि च महान्ति च ।भागशो विनिविष्टानि न कृषिर्देवमातृका ॥ ६७ ॥
कच्चिद्बीजं च भक्तं च कर्षकायावसीदते ।प्रतिकं च शतं वृद्ध्या ददास्यृणमनुग्रहम् ॥ ६८ ॥
कच्चित्स्वनुष्ठिता तात वार्त्ता ते साधुभिर्जनैः ।वार्त्तायां संश्रितस्तात लोकोऽयं सुखमेधते ॥ ६९ ॥
कच्चिच्छुचिकृतः प्राज्ञाः पञ्च पञ्च स्वनुष्ठिताः ।क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव ॥ ७० ॥
कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः ।ग्रामवच्च कृता रक्षा ते च सर्वे तदर्पणाः ॥ ७१ ॥
कच्चिद्बलेनानुगताः समानि विषमाणि च ।पुराणचौराः साध्यक्षाश्चरन्ति विषये तव ॥ ७२ ॥
कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः ।कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ॥ ७३ ॥
कच्चिच्चारान्निशि श्रुत्वा तत्कार्यमनुचिन्त्य च ।प्रियाण्यनुभवञ्शेषे विदित्वाभ्यन्तरं जनम् ॥ ७४ ॥
कच्चिद्द्वौ प्रथमौ यामौ रात्र्यां सुप्त्वा विशां पते ।संचिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे ॥ ७५ ॥
कच्चिद्दर्शयसे नित्यं मनुष्यान्समलंकृतान् ।उत्थाय काले कालज्ञः सह पाण्डव मन्त्रिभिः ॥ ७६ ॥
कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलंकृताः ।अभितस्त्वामुपासन्ते रक्षणार्थमरिंदम ॥ ७७ ॥
कच्चिद्दण्ड्येषु यमवत्पूज्येषु च विशां पते ।परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च ॥ ७८ ॥
कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा ।मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि ॥ ७९ ॥
कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः ।सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा ॥ ८० ॥
कच्चिन्न मानान्मोहाद्वा कामाद्वापि विशां पते ।अर्थिप्रत्यर्थिनः प्राप्तानपास्यसि कथंचन ॥ ८१ ॥
कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा ।आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि च ॥ ८२ ॥
कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः ।त्वया सह विरुध्यन्ते परैः क्रीताः कथंचन ॥ ८३ ॥
कच्चित्ते दुर्बलः शत्रुर्बलेनोपनिपीडितः ।मन्त्रेण बलवान्कश्चिदुभाभ्यां वा युधिष्ठिर ॥ ८४ ॥
कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः ।कच्चित्प्राणांस्त्वदर्थेषु संत्यजन्ति त्वया हृताः ॥ ८५ ॥
कच्चित्ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते ।ब्राह्मणानां च साधूनां तव निःश्रेयसे शुभा ॥ ८६ ॥
कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः ।वर्तमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे ॥ ८७ ॥
कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः ।गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम् ॥ ८८ ॥
कच्चित्क्रतूनेकचित्तो वाजपेयांश्च सर्वशः ।पुण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान् ॥ ८९ ॥
कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि ।चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांश्च नमस्यसि ॥ ९० ॥
कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ ।आयुष्या च यशस्या च धर्मकामार्थदर्शिनी ॥ ९१ ॥
एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति ।विजित्य च महीं राजा सोऽत्यन्तं सुखमेधते ॥ ९२ ॥
कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि ।अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥ ९३ ॥
पृष्टो गृहीतस्तत्कारी तज्ज्ञैर्दृष्टः सकारणः ।कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ ॥ ९४ ॥
व्युत्पन्ने कच्चिदाढ्यस्य दरिद्रस्य च भारत ।अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः ॥ ९५ ॥
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।अदर्शनं ज्ञानवतामालस्यं क्षिप्तचित्तताम् ॥ ९६ ॥
एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम् ।निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ ९७ ॥
मङ्गल्यस्याप्रयोगं च प्रसङ्गं विषयेषु च ।कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश ॥ ९८ ॥
कच्चित्ते सफला वेदाः कच्चित्ते सफलं धनम् ।कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥ ९९ ॥
युधिष्ठिर उवाच ।कथं वै सफला वेदाः कथं वै सफलं धनम् ।कथं वै सफला दाराः कथं वै सफलं श्रुतम् ॥ १०० ॥
नारद उवाच ।अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् ।रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥ १०१ ॥
वैशंपायन उवाच ।एतदाख्याय स मुनिर्नारदः सुमहातपाः ।पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम् ॥ १०२ ॥
नारद उवाच ।कच्चिदभ्यागता दूराद्वणिजो लाभकारणात् ।यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः ॥ १०३ ॥
कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः ।उपानयन्ति पण्यानि उपधाभिरवञ्चिताः ॥ १०४ ॥
कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः ।नित्यमर्थविदां तात तथा धर्मानुदर्शिनाम् ॥ १०५ ॥
कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च ।धर्मार्थं च द्विजातिभ्यो दीयते मधुसर्पिषी ॥ १०६ ॥
द्रव्योपकरणं कच्चित्सर्वदा सर्वशिल्पिनाम् ।चातुर्मास्यावरं सम्यङ्नियतं संप्रयच्छसि ॥ १०७ ॥
कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि ।सतां मध्ये महाराज सत्करोषि च पूजयन् ॥ १०८ ॥
कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ ।हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभो ॥ १०९ ॥
कच्चिदभ्यस्यते शश्वद्गृहे ते भरतर्षभ ।धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम् ॥ ११० ॥
कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ ।विषयोगाश्च ते सर्वे विदिताः शत्रुनाशनाः ॥ १११ ॥
कच्चिदग्निभयाच्चैव सर्पव्यालभयात्तथा ।रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षसि ॥ ११२ ॥
कच्चिदन्धांश्च मूकांश्च पङ्गून्व्यङ्गानबान्धवान् ।पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि ॥ ११३ ॥
वैशंपायन उवाच ।एताः कुरूणामृषभो महात्मा श्रुत्वा गिरो ब्राह्मणसत्तमस्य ।प्रणम्य पादावभिवाद्य हृष्टो राजाब्रवीन्नारदं देवरूपम् ॥ ११४ ॥
एवं करिष्यामि यथा त्वयोक्तं प्रज्ञा हि मे भूय एवाभिवृद्धा ।उक्त्वा तथा चैव चकार राजा लेभे महीं सागरमेखलां च ॥ ११५ ॥
नारद उवाच ।एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे ।स विहृत्येह सुसुखी शक्रस्यैति सलोकताम् ॥ ११६ ॥
« »