Click on words to see what they mean.

वैशंपायन उवाच ।ततः प्रवेशनं चक्रे तस्यां राजा युधिष्ठिरः ।अयुतं भोजयामास ब्राह्मणानां नराधिपः ॥ १ ॥
घृतपायसेन मधुना भक्ष्यैर्मूलफलैस्तथा ।अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि ॥ २ ॥
ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः प्रभुः ।पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत ॥ ३ ॥
वादित्रैर्विविधैर्गीतैर्गन्धैरुच्चावचैरपि ।पूजयित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च ॥ ४ ॥
तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा ।उपतस्थुर्महात्मानं सप्तरात्रं युधिष्ठिरम् ॥ ५ ॥
तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः ।तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि ॥ ६ ॥
सभायामृषयस्तस्यां पाण्डवैः सह आसते ।आसां चक्रुर्नरेन्द्राश्च नानादेशसमागताः ॥ ७ ॥
असितो देवलः सत्यः सर्पमाली महाशिराः ।अर्वावसुः सुमित्रश्च मैत्रेयः शुनको बलिः ॥ ८ ॥
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः ।सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम् ॥ ९ ॥
तित्तिरिर्याज्ञवल्क्यश्च ससुतो लोमहर्षणः ।अप्सुहोम्यश्च धौम्यश्च आणीमाण्डव्यकौशिकौ ॥ १० ॥
दामोष्णीषस्त्रैवणिश्च पर्णादो घटजानुकः ।मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकौ ॥ ११ ॥
बलवाकः शिनीवाकः सुत्यपालः कृतश्रमः ।जातूकर्णः शिखावांश्च सुबलः पारिजातकः ॥ १२ ॥
पर्वतश्च महाभागो मार्कण्डेयस्तथा मुनिः ।पवित्रपाणिः सावर्णिर्भालुकिर्गालवस्तथा ॥ १३ ॥
जङ्घाबन्धुश्च रैभ्यश्च कोपवेगश्रवा भृगुः ।हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः ॥ १४ ॥
कक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः ।पैङ्गो वराहः शुनकः शाण्डिल्यश्च महातपाः ।कर्करो वेणुजङ्घश्च कलापः कठ एव च ॥ १५ ॥
मुनयो धर्मसहिता धृतात्मानो जितेन्द्रियाः ।एते चान्ये च बहवो वेदवेदाङ्गपारगाः ॥ १६ ॥
उपासते महात्मानं सभायामृषिसत्तमाः ।कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः ॥ १७ ॥
तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते ।श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः ॥ १८ ॥
संग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान् ।कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः ।काम्बोजराजः कमलः कम्पनश्च महाबलः ॥ १९ ॥
सततं कम्पयामास यवनानेक एव यः ।यथासुरान्कालकेयान्देवो वज्रधरस्तथा ॥ २० ॥
जटासुरो मद्रकान्तश्च राजा कुन्तिः कुणिन्दश्च किरातराजः ।तथाङ्गवङ्गौ सह पुण्ड्रकेण पाण्ड्योड्रराजौ सह चान्ध्रकेण ॥ २१ ॥
किरातराजः सुमना यवनाधिपतिस्तथा ।चाणूरो देवरातश्च भोजो भीमरथश्च यः ॥ २२ ॥
श्रुतायुधश्च कालिङ्गो जयत्सेनश्च मागधः ।सुशर्मा चेकितानश्च सुरथोऽमित्रकर्षणः ॥ २३ ॥
केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः ।सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः ॥ २४ ॥
अनूपराजो दुर्धर्षः क्षेमजिच्च सुदक्षिणः ।शिशुपालः सहसुतः करूषाधिपतिस्तथा ॥ २५ ॥
वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः ।आहुको विपृथुश्चैव गदः सारण एव च ॥ २६ ॥
अक्रूरः कृतवर्मा च सात्यकिश्च शिनेः सुतः ।भीष्मकोऽथाहृतिश्चैव द्युमत्सेनश्च वीर्यवान् ।केकयाश्च महेष्वासा यज्ञसेनश्च सौमकिः ॥ २७ ॥
अर्जुनं चापि संश्रित्य राजपुत्रा महाबलाः ।अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः ॥ २८ ॥
तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः ।रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः ॥ २९ ॥
एते चान्ये च बहवो राजानः पृथिवीपते ।धनंजयसखा चात्र नित्यमास्ते स्म तुम्बुरुः ॥ ३० ॥
चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा ।गीतवादित्रकुशलाः शम्यातालविशारदाः ॥ ३१ ॥
प्रमाणेऽथ लयस्थाने किंनराः कृतनिश्रमाः ।संचोदितास्तुम्बुरुणा गन्धर्वाः सहिता जगुः ॥ ३२ ॥
गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः ।पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते ॥ ३३ ॥
तस्यां सभायामासीनाः सुव्रताः सत्यसंगराः ।दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते ॥ ३४ ॥
« »