Click on words to see what they mean.

वैशंपायन उवाच ।ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह ।अन्तर्वेदीं प्रविविशुः सत्कारार्थं महर्षयः ॥ १ ॥
नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः ।समासीनाः शुशुभिरे सह राजर्षिभिस्तदा ॥ २ ॥
समेता ब्रह्मभवने देवा देवर्षयो यथा ।कर्मान्तरमुपासन्तो जजल्पुरमितौजसः ॥ ३ ॥
इदमेवं न चाप्येवमेवमेतन्न चान्यथा ।इत्यूचुर्बहवस्तत्र वितण्डानाः परस्परम् ॥ ४ ॥
कृशानर्थांस्तथा केचिदकृशांस्तत्र कुर्वते ।अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चितैः ॥ ५ ॥
तत्र मेधाविनः केचिदर्थमन्यैः प्रपूरितम् ।विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम् ॥ ६ ॥
केचिद्धर्मार्थसंयुक्ताः कथास्तत्र महाव्रताः ।रेमिरे कथयन्तश्च सर्ववेदविदां वराः ॥ ७ ॥
सा वेदिर्वेदसंपन्नैर्देवद्विजमहर्षिभिः ।आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवामला ॥ ८ ॥
न तस्यां संनिधौ शूद्रः कश्चिदासीन्न चाव्रतः ।अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने ॥ ९ ॥
तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम् ।तुतोष नारदः पश्यन्धर्मराजस्य धीमतः ॥ १० ॥
अथ चिन्तां समापेदे स मुनिर्मनुजाधिप ।नारदस्तं तदा पश्यन्सर्वक्षत्रसमागमम् ॥ ११ ॥
सस्मार च पुरावृत्तां कथां तां भरतर्षभ ।अंशावतरणे यासौ ब्रह्मणो भवनेऽभवत् ॥ १२ ॥
देवानां संगमं तं तु विज्ञाय कुरुनन्दन ।नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम् ॥ १३ ॥
साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः ।प्रतिज्ञां पालयन्धीमाञ्जातः परपुरंजयः ॥ १४ ॥
संदिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम् ।अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ ॥ १५ ॥
इति नारायणः शंभुर्भगवाञ्जगतः प्रभुः ।आदिश्य विबुधान्सर्वानजायत यदुक्षये ॥ १६ ॥
क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः ।परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट् ॥ १७ ॥
यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते ।सोऽयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः ॥ १८ ॥
अहो बत महद्भूतं स्वयंभूर्यदिदं स्वयम् ।आदास्यति पुनः क्षत्रमेवं बलसमन्वितम् ॥ १९ ॥
इत्येतां नारदश्चिन्तां चिन्तयामास धर्मवित् ।हरिं नारायणं ज्ञात्वा यज्ञैरीड्यं तमीश्वरम् ॥ २० ॥
तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः ।महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः ॥ २१ ॥
ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम् ।क्रियतामर्हणं राज्ञां यथार्हमिति भारत ॥ २२ ॥
आचार्यमृत्विजं चैव संयुक्तं च युधिष्ठिर ।स्नातकं च प्रियं चाहुः षडर्घ्यार्हान्नृपं तथा ॥ २३ ॥
एतानर्हानभिगतानाहुः संवत्सरोषितान् ।त इमे कालपूगस्य महतोऽस्मानुपागताः ॥ २४ ॥
एषामेकैकशो राजन्नर्घ्यमानीयतामिति ।अथ चैषां वरिष्ठाय समर्थायोपनीयताम् ॥ २५ ॥
युधिष्ठिर उवाच ।कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन ।उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह ॥ २६ ॥
वैशंपायन उवाच ।ततो भीष्मः शांतनवो बुद्ध्या निश्चित्य भारत ।वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि ॥ २७ ॥
एष ह्येषां समेतानां तेजोबलपराक्रमैः ।मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः ॥ २८ ॥
असूर्यमिव सूर्येण निवातमिव वायुना ।भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः ॥ २९ ॥
तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान् ।उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम् ॥ ३० ॥
प्रतिजग्राह तत्कृष्णः शास्त्रदृष्टेन कर्मणा ।शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे ॥ ३१ ॥
स उपालभ्य भीष्मं च धर्मराजं च संसदि ।अपाक्षिपद्वासुदेवं चेदिराजो महाबलः ॥ ३२ ॥
« »