Click on words to see what they mean.

शिशुपाल उवाच ।नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु ।महीपतिषु कौरव्य राजवत्पार्थिवार्हणम् ॥ १ ॥
नायं युक्तः समाचारः पाण्डवेषु महात्मसु ।यत्कामात्पुण्डरीकाक्षं पाण्डवार्चितवानसि ॥ २ ॥
बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः ।अयं तत्राभ्यतिक्रान्त आपगेयोऽल्पदर्शनः ॥ ३ ॥
त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया ।भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम् ॥ ४ ॥
कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम् ।अर्हणामर्हति तथा यथा युष्माभिरर्चितः ॥ ५ ॥
अथ वा मन्यसे कृष्णं स्थविरं भरतर्षभ ।वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः ॥ ६ ॥
अथ वा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान् ।द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम् ॥ ७ ॥
आचार्यं मन्यसे कृष्णमथ वा कुरुपुंगव ।द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि ॥ ८ ॥
ऋत्विजं मन्यसे कृष्णमथ वा कुरुनन्दन ।द्वैपायने स्थिते विप्रे कथं कृष्णोऽर्चितस्त्वया ॥ ९ ॥
नैव ऋत्विङ्न चाचार्यो न राजा मधुसूदनः ।अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया ॥ १० ॥
अथ वाप्यर्चनीयोऽयं युष्माकं मधुसूदनः ।किं राजभिरिहानीतैरवमानाय भारत ॥ ११ ॥
वयं तु न भयादस्य कौन्तेयस्य महात्मनः ।प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात् ॥ १२ ॥
अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः ।करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते ॥ १३ ॥
किमन्यदवमानाद्धि यदिमं राजसंसदि ।अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि ॥ १४ ॥
अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम् ।को हि धर्मच्युते पूजामेवं युक्तां प्रयोजयेत् ।योऽयं वृष्णिकुले जातो राजानं हतवान्पुरा ॥ १५ ॥
अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात् ।कृपणत्वं निविष्टं च कृष्णेऽर्घ्यस्य निवेदनात् ॥ १६ ॥
यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः ।ननु त्वयापि बोद्धव्यं यां पूजां माधवोऽर्हति ॥ १७ ॥
अथ वा कृपणैरेतामुपनीतां जनार्दन ।पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि ॥ १८ ॥
अयुक्तामात्मनः पूजां त्वं पुनर्बहु मन्यसे ।हविषः प्राप्य निष्यन्दं प्राशितुं श्वेव निर्जने ॥ १९ ॥
न त्वयं पार्थिवेन्द्राणामवमानः प्रयुज्यते ।त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन ॥ २० ॥
क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम् ।अराज्ञो राजवत्पूजा तथा ते मधुसूदन ॥ २१ ॥
दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः ।वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम् ॥ २२ ॥
इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात् ।निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा ॥ २३ ॥
« »