Click on words to see what they mean.

जनमेजय उवाच ।भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः ।विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा ॥ १ ॥
धृष्टकेतुर्जयत्सेनो राजा चैव स सत्यजित् ।दुर्योधनसुताश्चैव शकुनिश्चैव सौबलः ॥ २ ॥
कर्णपुत्राश्च विक्रान्ता राजा चैव जयद्रथः ।घटोत्कचादयश्चैव ये चान्ये नानुकीर्तिताः ॥ ३ ॥
ये चान्ये कीर्तितास्तत्र राजानो दीप्तमूर्तयः ।स्वर्गे कालं कियन्तं ते तस्थुस्तदपि शंस मे ॥ ४ ॥
आहोस्विच्छाश्वतं स्थानं तेषां तत्र द्विजोत्तम ।अन्ते वा कर्मणः कां ते गतिं प्राप्ता नरर्षभाः ।एतदिच्छाम्यहं श्रोतुं प्रोच्यमानं त्वया द्विज ॥ ५ ॥
सूत उवाच ।इत्युक्तः स तु विप्रर्षिरनुज्ञातो महात्मना ।व्यासेन तस्य नृपतेराख्यातुमुपचक्रमे ॥ ६ ॥
वैशंपायन उवाच ।गन्तव्यं कर्मणामन्ते सर्वेण मनुजाधिप ।शृणु गुह्यमिदं राजन्देवानां भरतर्षभ ।यदुवाच महातेजा दिव्यचक्षुः प्रतापवान् ॥ ७ ॥
मुनिः पुराणः कौरव्य पाराशर्यो महाव्रतः ।अगाधबुद्धिः सर्वज्ञो गतिज्ञः सर्वकर्मणाम् ॥ ८ ॥
वसूनेव महातेजा भीष्मः प्राप महाद्युतिः ।अष्टावेव हि दृश्यन्ते वसवो भरतर्षभ ॥ ९ ॥
बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम् ।कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणम् ॥ १० ॥
सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम् ।धृतराष्ट्रो धनेशस्य लोकान्प्राप दुरासदान् ॥ ११ ॥
धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी ।पत्नीभ्यां सहितः पाण्डुर्महेन्द्रसदनं ययौ ॥ १२ ॥
विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः ।निशठाक्रूरसाम्बाश्च भानुः कम्पो विडूरथः ॥ १३ ॥
भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः ।उग्रसेनस्तथा कंसो वसुदेवश्च वीर्यवान् ॥ १४ ॥
उत्तरश्च सह भ्रात्रा शङ्खेन नरपुंगवः ।विश्वेषां देवतानां ते विविशुर्नरसत्तमाः ॥ १५ ॥
वर्चा नाम महातेजाः सोमपुत्रः प्रतापवान् ।सोऽभिमन्युर्नृसिंहस्य फल्गुनस्य सुतोऽभवत् ॥ १६ ॥
स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित् ।विवेश सोमं धर्मात्मा कर्मणोऽन्ते महारथः ॥ १७ ॥
आविवेश रविं कर्णः पितरं पुरुषर्षभ ।द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम् ॥ १८ ॥
धृतराष्ट्रात्मजाः सर्वे यातुधाना बलोत्कटाः ।ऋद्धिमन्तो महात्मानः शस्त्रपूता दिवं गताः ।धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः ॥ १९ ॥
अनन्तो भगवान्देवः प्रविवेश रसातलम् ।पितामहनियोगाद्धि यो योगाद्गामधारयत् ॥ २० ॥
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः ।न्यमज्जन्त सरस्वत्यां कालेन जनमेजय ।ताश्चाप्यप्सरसो भूत्वा वासुदेवमुपागमन् ॥ २१ ॥
हतास्तस्मिन्महायुद्धे ये वीरास्तु महारथाः ।घटोत्कचादयः सर्वे देवान्यक्षांश्च भेजिरे ॥ २२ ॥
दुर्योधनसहायाश्च राक्षसाः परिकीर्तिताः ।प्राप्तास्ते क्रमशो राजन्सर्वलोकाननुत्तमान् ॥ २३ ॥
भवनं च महेन्द्रस्य कुबेरस्य च धीमतः ।वरुणस्य तथा लोकान्विविशुः पुरुषर्षभाः ॥ २४ ॥
एतत्ते सर्वमाख्यातं विस्तरेण महाद्युते ।कुरूणां चरितं कृत्स्नं पाण्डवानां च भारत ॥ २५ ॥
सूत उवाच ।एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः ।विस्मितोऽभवदत्यर्थं यज्ञकर्मान्तरेष्वथ ॥ २६ ॥
ततः समापयामासुः कर्म तत्तस्य याजकाः ।आस्तीकश्चाभवत्प्रीतः परिमोक्ष्य भुजंगमान् ॥ २७ ॥
ततो द्विजातीन्सर्वांस्तान्दक्षिणाभिरतोषयत् ।पूजिताश्चापि ते राज्ञा ततो जग्मुर्यथागतम् ॥ २८ ॥
विसर्जयित्वा विप्रांस्तान्राजापि जनमेजयः ।ततस्तक्षशिलायाः स पुनरायाद्गजाह्वयम् ॥ २९ ॥
एतत्ते सर्वमाख्यातं वैशंपायनकीर्तितम् ।व्यासाज्ञया समाख्यातं सर्पसत्रे नृपस्य ह ॥ ३० ॥
पुण्योऽयमितिहासाख्यः पवित्रं चेदमुत्तमम् ।कृष्णेन मुनिना विप्र नियतं सत्यवादिना ॥ ३१ ॥
सर्वज्ञेन विधिज्ञेन धर्मज्ञानवता सता ।अतीन्द्रियेण शुचिना तपसा भावितात्मना ॥ ३२ ॥
ऐश्वर्ये वर्तता चैव सांख्ययोगविदा तथा ।नैकतन्त्रविबुद्धेन दृष्ट्वा दिव्येन चक्षुषा ॥ ३३ ॥
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् ।अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥ ३४ ॥
य इदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि ।धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय गच्छति ॥ ३५ ॥
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः ।अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते ॥ ३६ ॥
अह्ना यदेनः कुरुते इन्द्रियैर्मनसापि वा ।महाभारतमाख्याय पश्चात्संध्यां प्रमुच्यते ॥ ३७ ॥
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ ३८ ॥
जयो नामेतिहासोऽयं श्रोतव्यो भूतिमिच्छता ।राज्ञा राजसुतैश्चापि गर्भिण्या चैव योषिता ॥ ३९ ॥
स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम् ।गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् ॥ ४० ॥
अनागतं त्रिभिर्वर्षैः कृष्णद्वैपायनः प्रभुः ।संदर्भं भारतस्यास्य कृतवान्धर्मकाम्यया ॥ ४१ ॥
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् ।रक्षो यक्षाञ्शुको मर्त्यान्वैशंपायन एव तु ॥ ४२ ॥
इतिहासमिमं पुण्यं महार्थं वेदसंमितम् ।श्रावयेद्यस्तु वर्णांस्त्रीन्कृत्वा ब्राह्मणमग्रतः ॥ ४३ ॥
स नरः पापनिर्मुक्तः कीर्तिं प्राप्येह शौनक ।गच्छेत्परमिकां सिद्धिमत्र मे नास्ति संशयः ॥ ४४ ॥
भारताध्ययनात्पुण्यादपि पादमधीयतः ।श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥ ४५ ॥
महर्षिर्भगवान्व्यासः कृत्वेमां संहितां पुरा ।श्लोकैश्चतुर्भिर्भगवान्पुत्रमध्यापयच्छुकम् ॥ ४६ ॥
मातापितृसहस्राणि पुत्रदारशतानि च ।संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥ ४७ ॥
हर्षस्थानसहस्राणि भयस्थानशतानि च ।दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ ४८ ॥
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥ ४९ ॥
न जातु कामान्न भयान्न लोभाद्धर्मं त्यजेज्जीवितस्यापि हेतोः ।नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥ ५० ॥
इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् ।स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥ ५१ ॥
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः ।ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥ ५२ ॥
महाभारतमाख्यानं यः पठेत्सुसमाहितः ।स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः ॥ ५३ ॥
द्वैपायनोष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च ।यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन ॥ ५४ ॥
« »