Click on words to see what they mean.

वैशंपायन उवाच ।ततो राज्ञाभ्यनुज्ञातो धृतराष्ट्रः प्रतापवान् ।ययौ स्वभवनं राजा गान्धार्यानुगतस्तदा ॥ १ ॥
मन्दप्राणगतिर्धीमान्कृच्छ्रादिव समुद्धरन् ।पदातिः स महीपालो जीर्णो गजपतिर्यथा ॥ २ ॥
तमन्वगच्छद्विदुरो विद्वान्सूतश्च संजयः ।स चापि परमेष्वासः कृपः शारद्वतस्तथा ॥ ३ ॥
स प्रविश्य गृहं राजा कृतपूर्वाह्णिकक्रियः ।तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा ॥ ४ ॥
गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी ।वधूभिरुपचारेण पूजिताभुङ्क्त भारत ॥ ५ ॥
कृताहारं कृताहाराः सर्वे ते विदुरादयः ।पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम् ॥ ६ ॥
ततोऽब्रवीन्महाराज कुन्तीपुत्रमुपह्वरे ।निषण्णं पाणिना पृष्ठे संस्पृशन्नम्बिकासुतः ॥ ७ ॥
अप्रमादस्त्वया कार्यः सर्वथा कुरुनन्दन ।अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते ॥ ८ ॥
तत्तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन ।राज्यं धर्मं च कौन्तेय विद्वानसि निबोध तत् ॥ ९ ॥
विद्यावृद्धान्सदैव त्वमुपासीथा युधिष्ठिर ।शृणुयास्ते च यद्ब्रूयुः कुर्याश्चैवाविचारयन् ॥ १० ॥
प्रातरुत्थाय तान्राजन्पूजयित्वा यथाविधि ।कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः ॥ ११ ॥
ते तु संमानिता राजंस्त्वया राज्यहितार्थिना ।प्रवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन ॥ १२ ॥
इन्द्रियाणि च सर्वाणि वाजिवत्परिपालय ।हिताय वै भविष्यन्ति रक्षितं द्रविणं यथा ॥ १३ ॥
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् ।दान्तान्कर्मसु सर्वेषु मुख्यान्मुख्येषु योजयेः ॥ १४ ॥
चारयेथाश्च सततं चारैरविदितैः परान् ।परीक्षितैर्बहुविधं स्वराष्ट्रेषु परेषु च ॥ १५ ॥
पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणम् ।अट्टाट्टालकसंबाधं षट्पथं सर्वतोदिशम् ॥ १६ ॥
तस्य द्वाराणि कार्याणि पर्याप्तानि बृहन्ति च ।सर्वतः सुविभक्तानि यन्त्रैरारक्षितानि च ॥ १७ ॥
पुरुषैरलमर्थज्ञैर्विदितैः कुलशीलतः ।आत्मा च रक्ष्यः सततं भोजनादिषु भारत ॥ १८ ॥
विहाराहारकालेषु माल्यशय्यासनेषु च ।स्त्रियश्च ते सुगुप्ताः स्युर्वृद्धैराप्तैरधिष्ठिताः ।शीलवद्भिः कुलीनैश्च विद्वद्भिश्च युधिष्ठिर ॥ १९ ॥
मन्त्रिणश्चैव कुर्वीथा द्विजान्विद्याविशारदान् ।विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून् ॥ २० ॥
तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिः सह ।समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित् ॥ २१ ॥
सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः ।अरण्ये निःशलाके वा न च रात्रौ कथंचन ॥ २२ ॥
वानराः पक्षिणश्चैव ये मनुष्यानुकारिणः ।सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गुकाः ॥ २३ ॥
मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीक्षिताम् ।न ते शक्याः समाधातुं कथंचिदिति मे मतिः ॥ २४ ॥
दोषांश्च मन्त्रभेदेषु ब्रूयास्त्वं मन्त्रिमण्डले ।अभेदे च गुणान्राजन्पुनः पुनररिंदम ॥ २५ ॥
पौरजानपदानां च शौचाशौचं युधिष्ठिर ।यथा स्याद्विदितं राजंस्तथा कार्यमरिंदम ॥ २६ ॥
« »