Click on words to see what they mean.

जनमेजय उवाच ।वनवासं गते विप्र धृतराष्ट्रे महीपतौ ।सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते ॥ १ ॥
विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते ।वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले ॥ २ ॥
यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह ।व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे ॥ ३ ॥
वनवासे च कौरव्यः कियन्तं कालमच्युतः ।युधिष्ठिरो नरपतिर्न्यवसत्सजनो द्विज ॥ ४ ॥
किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो ।सान्तःपुरा महात्मान इति तद्ब्रूहि मेऽनघ ॥ ५ ॥
वैशंपायन उवाच ।तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः ।विविधान्यन्नपानानि विश्राम्यानुभवन्ति ते ॥ ६ ॥
मासमेकं विजह्रुस्ते ससैन्यान्तःपुरा वने ।अथ तत्रागमद्व्यासो यथोक्तं ते मयानघ ॥ ७ ॥
तथा तु तेषां सर्वेषां कथाभिर्नृपसंनिधौ ।व्यासमन्वासतां राजन्नाजग्मुर्मुनयोऽपरे ॥ ८ ॥
नारदः पर्वतश्चैव देवलश्च महातपाः ।विश्वावसुस्तुम्बुरुश्च चित्रसेनश्च भारत ॥ ९ ॥
तेषामपि यथान्यायं पूजां चक्रे महामनाः ।धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः ॥ १० ॥
निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् ।आसनेष्वथ पुण्येषु बर्हिष्केषु वरेषु च ॥ ११ ॥
तेषु तत्रोपविष्टेषु स तु राजा महामतिः ।पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वहः ॥ १२ ॥
गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा ।स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः ॥ १३ ॥
तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप ।ऋषीणां च पुराणानां देवासुरविमिश्रिताः ॥ १४ ॥
ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम् ।प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः ।प्रीयमाणो महातेजाः सर्ववेदविदां वरः ॥ १५ ॥
विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम् ।दह्यमानस्य शोकेन तव पुत्रकृतेन वै ॥ १६ ॥
गान्धार्याश्चैव यद्दुःखं हृदि तिष्ठति पार्थिव ।कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम् ॥ १७ ॥
यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम् ।सुभद्रा कृष्णभगिनी तच्चापि विदितं मम ॥ १८ ॥
श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप ।संशयच्छेदनायाहं प्राप्तः कौरवनन्दन ॥ १९ ॥
इमे च देवगन्धर्वाः सर्वे चैव महर्षयः ।पश्यन्तु तपसो वीर्यमद्य मे चिरसंभृतम् ॥ २० ॥
तदुच्यतां महाबाहो कं कामं प्रदिशामि ते ।प्रवणोऽस्मि वरं दातुं पश्य मे तपसो बलम् ॥ २१ ॥
एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना ।मुहूर्तमिव संचिन्त्य वचनायोपचक्रमे ॥ २२ ॥
धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं च मे ।यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः ॥ २३ ॥
अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः ।भवद्भिर्ब्रह्मकल्पैर्यत्समेतोऽहं तपोधनाः ॥ २४ ॥
दर्शनादेव भवतां पूतोऽहं नात्र संशयः ।विद्यते न भयं चापि परलोकान्ममानघाः ॥ २५ ॥
किं तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम् ।दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः ॥ २६ ॥
अपापाः पाण्डवा येन निकृताः पापबुद्धिना ।घातिता पृथिवी चेयं सहसा सनरद्विपा ॥ २७ ॥
राजानश्च महात्मानो नानाजनपदेश्वराः ।आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः ॥ २८ ॥
ये ते पुत्रांश्च दाराश्च प्राणांश्च मनसः प्रियान् ।परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ॥ २९ ॥
का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे ।तथैव पुत्रपौत्राणां मम ये निहता युधि ॥ ३० ॥
दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम् ।भीष्मं शांतनवं वृद्धं द्रोणं च द्विजसत्तमम् ॥ ३१ ॥
मम पुत्रेण मूढेन पापेन सुहृदद्विषा ।क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता ॥ ३२ ॥
एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम् ।न शान्तिमधिगच्छामि दुःखशोकसमाहतः ।इति मे चिन्तयानस्य पितः शर्म न विद्यते ॥ ३३ ॥
« »