Click on words to see what they mean.

जनमेजय उवाच ।धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत् ।एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम् ॥ १ ॥
ततोञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत् ।कथितं मे महद्ब्रह्मंस्तथ्यमेतदसंशयम् ॥ २ ॥
कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत् ।एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ ॥ ३ ॥
वैशंपायन उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम ॥ ४ ॥
पुरागस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम् ।प्रविवेश महाराज सर्वभूतहिते रतः ॥ ५ ॥
तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः ।मूलाहारा निराहाराः साश्मकुट्टा मरीचिपाः ॥ ६ ॥
परिघृष्टिका वैघसिकाः संप्रक्षालास्तथैव च ।यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः ॥ ७ ॥
सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः ।दमे स्थिताश्च ते सर्वे दम्भमोहविवर्जिताः ॥ ८ ॥
वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यवाहिताः ।उपासते स्म तं यज्ञं भुञ्जानास्ते महर्षयः ॥ ९ ॥
यथाशक्त्या भगवता तदन्नं समुपार्जितम् ।तस्मिन्सत्रे तु यत्किंचिदयोग्यं तत्र नाभवत् ।तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः ॥ १० ॥
एवंविधेस्त्वगस्त्यस्य वर्तमाने महाध्वरे ।न ववर्ष सहस्राक्षस्तदा भरतसत्तम ॥ ११ ॥
ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः ।कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम् ॥ १२ ॥
अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरः ।न च वर्षति पर्जन्यः कथमन्नं भविष्यति ॥ १३ ॥
सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम् ।न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश ॥ १४ ॥
एतद्भवन्तः संचिन्त्य महर्षेरस्य धीमतः ।अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम् ॥ १५ ॥
इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान् ।प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन् ॥ १६ ॥
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः ।चिन्तायज्ञं करिष्यामि विधिरेष सनातनः ॥ १७ ॥
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः ।व्यायामेनाहरिष्यामि यज्ञानन्यानतिव्रतान् ॥ १८ ॥
बीजयज्ञो मयायं वै बहुवर्षसमाचितः ।बीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति ॥ १९ ॥
नेदं शक्यं वृथा कर्तुं मम सत्रं कथंचन ।वर्षिष्यतीह वा देवो न वा देवो भविष्यति ॥ २० ॥
अथ वाभ्यर्थनामिन्द्रः कुर्यान्न त्विह कामतः ।स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः ॥ २१ ॥
यो यदाहारजातश्च स तथैव भविष्यति ।विशेषं चैव कर्तास्मि पुनः पुनरतीव हि ॥ २२ ॥
अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम् ।त्रिषु लोकेषु यच्चास्ति तदिहागच्छतां स्वयम् ॥ २३ ॥
दिव्याश्चाप्सरसां संघाः सगन्धर्वाः सकिंनराः ।विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु वः सदा ॥ २४ ॥
उत्तरेभ्यः कुरुभ्यश्च यत्किंचिद्वसु विद्यते ।सर्वं तदिह यज्ञे मे स्वयमेवोपतिष्ठतु ।स्वर्गं स्वर्गसदश्चैव धर्मश्च स्वयमेव तु ॥ २५ ॥
इत्युक्ते सर्वमेवैतदभवत्तस्य धीमतः ।ततस्ते मुनयो दृष्ट्वा मुनेस्तस्य तपोबलम् ।विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत् ॥ २६ ॥
प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोव्ययम् ।स्वैरेव यज्ञैस्तुष्टाः स्मो न्यायेनेच्छामहे वयम् ॥ २७ ॥
यज्ञान्दीक्षास्तथा होमान्यच्चान्यन्मृगयामहे ।तन्नोऽस्तु स्वकृतैर्यज्ञैर्नान्यतो मृगयामहे ॥ २८ ॥
न्यायेनोपार्जिताहाराः स्वकर्मनिरता वयम् ।वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे ॥ २९ ॥
न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम् ।धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम् ॥ ३० ॥
भवतः सम्यगेषा हि बुद्धिर्हिंसाविवर्जिता ।एतामहिंसां यज्ञेषु ब्रूयास्त्वं सततं प्रभो ॥ ३१ ॥
प्रीतास्ततो भविष्यामो वयं द्विजवरोत्तम ।विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे ॥ ३२ ॥
वैशंपायन उवाच ।तथा कथयतामेव देवराजः पुरंदरः ।ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् ॥ ३३ ॥
असमाप्तौ च यज्ञस्य तस्यामितपराक्रमः ।निकामवर्षी देवेन्द्रो बभूव जनमेजय ॥ ३४ ॥
प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः ।स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम् ॥ ३५ ॥
ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन् ।अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि ॥ ३६ ॥
« »