Click on words to see what they mean.

जनमेजय उवाच ।यज्ञे सक्ता नृपतयस्तपःसक्ता महर्षयः ।शान्तिव्यवसिता विप्राः शमो दम इति प्रभो ॥ १ ॥
तस्माद्यज्ञफलैस्तुल्यं न किंचिदिह विद्यते ।इति मे वर्तते बुद्धिस्तथा चैतदसंशयम् ॥ २ ॥
यज्ञैरिष्ट्वा हि बहवो राजानो द्विजसत्तम ।इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमितो गताः ॥ ३ ॥
देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः ।देवराज्यं महातेजाः प्राप्तवानखिलं विभुः ॥ ४ ॥
यथा युधिष्ठिरो राजा भीमार्जुनपुरःसरः ।सदृशो देवराजेन समृद्ध्या विक्रमेण च ॥ ५ ॥
अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम् ।अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः ॥ ६ ॥
वैशंपायन उवाच ।यज्ञस्य विधिमग्र्यं वै फलं चैव नरर्षभ ।गदतः शृणु मे राजन्यथावदिह भारत ॥ ७ ॥
पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः ।ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि ॥ ८ ॥
हूयमाने तथा वह्नौ होत्रे बहुगुणान्विते ।देवेष्वाहूयमानेषु स्थितेषु परमर्षिषु ॥ ९ ॥
सुप्रतीतैस्तदा विप्रैः स्वागमैः सुस्वनैर्नृप ।अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा ॥ १० ॥
आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ ।महर्षयो महाराज संबभूवुः कृपान्विताः ॥ ११ ॥
ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः ।ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः ॥ १२ ॥
अपविज्ञानमेतत्ते महान्तं धर्ममिच्छतः ।न हि यज्ञे पशुगणा विधिदृष्टाः पुरंदर ॥ १३ ॥
धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो ।नायं धर्मकृतो धर्मो न हिंसा धर्म उच्यते ॥ १४ ॥
आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि ।विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत् ॥ १५ ॥
यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः ।एष धर्मो महाञ्शक्र चिन्त्यमानोऽधिगम्यते ॥ १६ ॥
शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः ।उक्तं न प्रतिजग्राह मानमोहवशानुगः ॥ १७ ॥
तेषां विवादः सुमहाञ्जज्ञे शक्रमहर्षिणाम् ।जङ्गमैः स्थावरैर्वापि यष्टव्यमिति भारत ॥ १८ ॥
ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः ।ततः संधाय शक्रेण पप्रच्छुर्नृपतिं वसुम् ॥ १९ ॥
महाभाग कथं यज्ञेष्वागमो नृपते स्मृतः ।यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरपि ॥ २० ॥
तच्छ्रुत्वा तु वचस्तेषामविचार्य बलाबलम् ।यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः ॥ २१ ॥
एवमुक्त्वा स नृपतिः प्रविवेश रसातलम् ।उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः ॥ २२ ॥
अन्यायोपगतं द्रव्यमतीतं यो ह्यपण्डितः ।धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते ॥ २३ ॥
धर्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा ।ददाति दानं विप्रेभ्यो लोकविश्वासकारकम् ॥ २४ ॥
पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कुशः ।रागमोहान्वितः सोऽन्ते कलुषां गतिमाप्नुते ॥ २५ ॥
तेन दत्तानि दानानि पापेन हतबुद्धिना ।तानि सत्त्वमनासाद्य नश्यन्ति विपुलान्यपि ॥ २६ ॥
तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः ।दाने न कीर्तिर्भवति प्रेत्य चेह च दुर्मतेः ॥ २७ ॥
अपि संचयबुद्धिर्हि लोभमोहवशंगतः ।उद्वेजयति भूतानि हिंसया पापचेतनः ॥ २८ ॥
एवं लब्ध्वा धनं लोभाद्यजते यो ददाति च ।स कृत्वा कर्मणा तेन न सिध्यति दुरागमात् ॥ २९ ॥
उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः ।दानं विभवतो दत्त्वा नराः स्वर्यान्ति धर्मिणः ॥ ३० ॥
एष धर्मो महांस्त्यागो दानं भूतदया तथा ।ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा ।सनातनस्य धर्मस्य मूलमेतत्सनातनम् ॥ ३१ ॥
श्रूयन्ते हि पुरा विप्रा विश्वामित्रादयो नृपाः ।विश्वामित्रोऽसितश्चैव जनकश्च महीपतिः ।कक्षसेनार्ष्टिषेणौ च सिन्धुद्वीपश्च पार्थिवः ॥ ३२ ॥
एते चान्ये च बहवः सिद्धिं परमिकां गताः ।नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः ॥ ३३ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः ।दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत ॥ ३४ ॥
« »