Click on words to see what they mean.

वैशंपायन उवाच ।कथयन्नेव तु तदा वासुदेवः प्रतापवान् ।महाभारतयुद्धं तत्कथान्ते पितुरग्रतः ॥ १ ॥
अभिमन्योर्वधं वीरः सोऽत्यक्रामत भारत ।अप्रियं वसुदेवस्य मा भूदिति महामनाः ॥ २ ॥
मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम् ।दुःखशोकाभिसंतप्तो भवेदिति महामतिः ॥ ३ ॥
सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे ।आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि ॥ ४ ॥
तामपश्यन्निपतितां वसुदेवः क्षितौ तदा ।दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः ॥ ५ ॥
ततः स दौहित्रवधाद्दुःखशोकसमन्वितः ।वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत् ॥ ६ ॥
ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः ।यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन् ॥ ७ ॥
तद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे विभो ।सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे ॥ ८ ॥
दुर्मरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सदा ।यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते ॥ ९ ॥
किमब्रवीत्त्वा संग्रामे सुभद्रां मातरं प्रति ।मां चापि पुण्डरीकाक्ष चपलाक्षः प्रियो मम ॥ १० ॥
आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः ।कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम् ॥ ११ ॥
स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः ।बालभावेन विजयमात्मनोऽकथयत्प्रभुः ॥ १२ ॥
कच्चिन्न विकृतो बालो द्रोणकर्णकृपादिभिः ।धरण्यां निहतः शेते तन्ममाचक्ष्व केशव ॥ १३ ॥
स हि द्रोणं च भीष्मं च कर्णं च रथिनां वरम् ।स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम ॥ १४ ॥
एवंविधं बहु तदा विलपन्तं सुदुःखितम् ।पितरं दुःखिततरो गोविन्दो वाक्यमब्रवीत् ॥ १५ ॥
न तेन विकृतं वक्त्रं कृतं संग्राममूर्धनि ।न पृष्ठतः कृतश्चापि संग्रामस्तेन दुस्तरः ॥ १६ ॥
निहत्य पृथिवीपालान्सहस्रशतसंघशः ।खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः ॥ १७ ॥
एको ह्येकेन सततं युध्यमानो यदि प्रभो ।न स शक्येत संग्रामे निहन्तुमपि वज्रिणा ॥ १८ ॥
समाहूते तु संग्रामे पार्थे संशप्तकैस्तदा ।पर्यवार्यत संक्रुद्धैः स द्रोणादिभिराहवे ॥ १९ ॥
ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे पितुः ।दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः ॥ २० ॥
नूनं च स गतः स्वर्गं जहि शोकं महामते ।न हि व्यसनमासाद्य सीदन्ते सन्नराः क्वचित् ॥ २१ ॥
द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः ।रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम् ॥ २२ ॥
स शोकं जहि दुर्धर्ष मा च मन्युवशं गमः ।शस्त्रपूतां हि स गतिं गतः परपुरंजयः ॥ २३ ॥
तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम ।दुःखार्ताथो पृथां प्राप्य कुररीव ननाद ह ॥ २४ ॥
द्रौपदीं च समासाद्य पर्यपृच्छत दुःखिता ।आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम् ॥ २५ ॥
अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः ।भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत् ॥ २६ ॥
उत्तरां चाब्रवीद्भद्रा भद्रे भर्ता क्व ते गतः ।क्षिप्रमागमनं मह्यं तस्मै त्वं वेदयस्व ह ॥ २७ ॥
ननु नाम स वैराटि श्रुत्वा मम गिरं पुरा ।भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः ॥ २८ ॥
अभिमन्यो कुशलिनो मातुलास्ते महारथाः ।कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम् ॥ २९ ॥
आचक्ष्व मेऽद्य संग्रामं यथापूर्वमरिंदम ।कस्मादेव विलपतीं नाद्येह प्रतिभाषसे ॥ ३० ॥
एवमादि तु वार्ष्णेय्यास्तदस्याः परिदेवितम् ।श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत् ॥ ३१ ॥
सुभद्रे वासुदेवेन तथा सात्यकिना रणे ।पित्रा च पालितो बालः स हतः कालधर्मणा ॥ ३२ ॥
ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि ।पुत्रो हि तव दुर्धर्षः संप्राप्तः परमां गतिम् ॥ ३३ ॥
कुले महति जातासि क्षत्रियाणां महात्मनाम् ।मा शुचश्चपलाक्षं त्वं पुण्डरीकनिभेक्षणे ॥ ३४ ॥
उत्तरां त्वमवेक्षस्व गर्भिणीं मा शुचः शुभे ।पुत्रमेषा हि तस्याशु जनयिष्यति भामिनी ॥ ३५ ॥
एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह ।विहाय शोकं दुर्धर्षं श्राद्धमस्य ह्यकल्पयत् ॥ ३६ ॥
समनुज्ञाप्य धर्मज्ञा राजानं भीममेव च ।यमौ यमोपमौ चैव ददौ दानान्यनेकशः ॥ ३७ ॥
ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह ।समहृष्यत वार्ष्णेयी वैराटीं चाब्रवीदिदम् ॥ ३८ ॥
वैराटि नेह संतापस्त्वया कार्यो यशस्विनि ।भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष मे शिशुम् ॥ ३९ ॥
एवमुक्त्वा ततः कुन्ती विरराम महाद्युते ।तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम् ॥ ४० ॥
एवं स निधनं प्राप्तो दौहित्रस्तव माधव ।संतापं जहि दुर्धर्ष मा च शोके मनः कृथाः ॥ ४१ ॥
« »