Click on words to see what they mean.

वसुदेव उवाच ।श्रुतवानस्मि वार्ष्णेय संग्रामं परमाद्भुतम् ।नराणां वदतां पुत्र कथोद्घातेषु नित्यशः ॥ १ ॥
त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुज ।तस्मात्प्रब्रूहि संग्रामं याथातथ्येन मेऽनघ ॥ २ ॥
यथा तदभवद्युद्धं पाण्डवानां महात्मनाम् ।भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम् ॥ ३ ॥
अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः ।नानावेषाकृतिमतां नानादेशनिवासिनाम् ॥ ४ ॥
इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदन्तिके ।शशंस कुरुवीराणां संग्रामे निधनं यथा ॥ ५ ॥
वासुदेव उवाच ।अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम् ।बहुलत्वान्न संख्यातुं शक्यान्यब्दशतैरपि ॥ ६ ॥
प्राधान्यतस्तु गदतः समासेनैव मे शृणु ।कर्माणि पृथिवीशानां यथावदमरद्युते ॥ ७ ॥
भीष्मः सेनापतिरभूदेकादशचमूपतिः ।कौरव्यः कौरवेयाणां देवानामिव वासवः ॥ ८ ॥
शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः ।बभूव रक्षितो धीमान्धीमता सव्यसाचिना ॥ ९ ॥
तेषां तदभवद्युद्धं दशाहानि महात्मनाम् ।कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम् ॥ १० ॥
ततः शिखण्डी गाङ्गेयमयुध्यन्तं महाहवे ।जघान बहुभिर्बाणैः सह गाण्डीवधन्वना ॥ ११ ॥
अकरोत्स ततः कालं शरतल्पगतो मुनिः ।अयनं दक्षिणं हित्वा संप्राप्ते चोत्तरायणे ॥ १२ ॥
ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषां वरः ।प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव ॥ १३ ॥
अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः ।संवृतः समरश्लाघी गुप्तः कृपवृषादिभिः ॥ १४ ॥
धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित् ।गुप्तो भीमेन तेजस्वी मित्रेण वरुणो यथा ॥ १५ ॥
पञ्चसेनापरिवृतो द्रोणप्रेप्सुर्महामनाः ।पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत् ॥ १६ ॥
तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसंगरे ।नानादिगागता वीराः प्रायशो निधनं गताः ॥ १७ ॥
दिनानि पञ्च तद्युद्धमभूत्परमदारुणम् ।ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः ॥ १८ ॥
ततः सेनापतिरभूत्कर्णो दौर्योधने बले ।अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे ॥ १९ ॥
तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः ।हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः ॥ २० ॥
ततः पार्थं समासाद्य पतंग इव पावकम् ।पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणे ॥ २१ ॥
हते कर्णे तु कौरव्या निरुत्साहा हतौजसः ।अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन् ॥ २२ ॥
हतवाहनभूयिष्ठाः पाण्डवास्तु युधिष्ठिरम् ।अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन् ॥ २३ ॥
अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः ।तस्मिंस्तथार्धदिवसे कर्म कृत्वा सुदुष्करम् ॥ २४ ॥
हते शल्ये तु शकुनिं सहदेवो महामनाः ।आहर्तारं कलेस्तस्य जघानामितविक्रमः ॥ २५ ॥
निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः ।अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः ॥ २६ ॥
तमन्वधावत्संक्रुद्धो भीमसेनः प्रतापवान् ।ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम् ॥ २७ ॥
ततः शिष्टेन सैन्येन समन्तात्परिवार्य तम् ।उपोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः ॥ २८ ॥
विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः ।उत्थाय स गदापाणिर्युद्धाय समुपस्थितः ॥ २९ ॥
ततः स निहतो राजा धार्तराष्ट्रो महामृधे ।भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम् ॥ ३० ॥
ततस्तत्पाण्डवं सैन्यं संसुप्तं शिबिरे निशि ।निहतं द्रोणपुत्रेण पितुर्वधममृष्यता ॥ ३१ ॥
हतपुत्रा हतबला हतमित्रा मया सह ।युयुधानद्वितीयेन पञ्च शिष्टाः स्म पाण्डवाः ॥ ३२ ॥
सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत ।युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात् ॥ ३३ ॥
निहते कौरवेन्द्रे च सानुबन्धे सुयोधने ।विदुरः संजयश्चैव धर्मराजमुपस्थितौ ॥ ३४ ॥
एवं तदभवद्युद्धमहान्यष्टादश प्रभो ।यत्र ते पृथिवीपाला निहताः स्वर्गमावसन् ॥ ३५ ॥
वैशंपायन उवाच ।शृण्वतां तु महाराज कथां तां रोमहर्षणीम् ।दुःखहर्षपरिक्लेशा वृष्णीनामभवंस्तदा ॥ ३६ ॥
« »