Click on words to see what they mean.

ब्रह्मोवाच ।केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं महत् ।केचित्पुरुषमव्यक्तं केचित्परमनामयम् ।मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम् ॥ १ ॥
उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत् ।आत्मानमुपसंगम्य सोऽमृतत्वाय कल्पते ॥ २ ॥
निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि ।गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् ॥ ३ ॥
प्राणायामैरथ प्राणान्संयम्य स पुनः पुनः ।दशद्वादशभिर्वापि चतुर्विंशात्परं ततः ॥ ४ ॥
एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति ।अव्यक्तात्सत्त्वमुद्रिक्तममृतत्वाय कल्पते ॥ ५ ॥
सत्त्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः ।अनुमानाद्विजानीमः पुरुषं सत्त्वसंश्रयम् ।न शक्यमन्यथा गन्तुं पुरुषं तमथो द्विजाः ॥ ६ ॥
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् ।ज्ञानं त्यागोऽथ संन्यासः सात्त्विकं वृत्तमिष्यते ॥ ७ ॥
एतेनैवानुमानेन मन्यन्तेऽथ मनीषिणः ।सत्त्वं च पुरुषश्चैकस्तत्र नास्ति विचारणा ॥ ८ ॥
आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः ।क्षेत्रज्ञसत्त्वयोरैक्यमित्येतन्नोपपद्यते ॥ ९ ॥
पृथग्भूतस्ततो नित्यमित्येतदविचारितम् ।पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः ॥ १० ॥
तथैवैकत्वनानात्वमिष्यते विदुषां नयः ।मशकोदुम्बरे त्वैक्यं पृथक्त्वमपि दृश्यते ॥ ११ ॥
मत्स्यो यथान्यः स्यादप्सु संप्रयोगस्तथानयोः ।संबन्धस्तोयबिन्दूनां पर्णे कोकनदस्य च ॥ १२ ॥
गुरुरुवाच ।इत्युक्तवन्तं ते विप्रास्तदा लोकपितामहम् ।पुनः संशयमापन्नाः पप्रच्छुर्द्विजसत्तमाः ॥ १३ ॥
ऋषय ऊचुः ।किं स्विदेवेह धर्माणामनुष्ठेयतमं स्मृतम् ।व्याहतामिव पश्यामो धर्मस्य विविधां गतिम् ॥ १४ ॥
ऊर्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे ।केचित्संशयितं सर्वं निःसंशयमथापरे ॥ १५ ॥
अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे ।एकरूपं द्विधेत्येके व्यामिश्रमिति चापरे ।एकमेके पृथक्चान्ये बहुत्वमिति चापरे ॥ १६ ॥
मन्यन्ते ब्राह्मणा एवं प्राज्ञास्तत्त्वार्थदर्शिनः ।जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः ॥ १७ ॥
अस्नानं केचिदिच्छन्ति स्नानमित्यपि चापरे ।आहारं केचिदिच्छन्ति केचिच्चानशने रताः ॥ १८ ॥
कर्म केचित्प्रशंसन्ति प्रशान्तिमपि चापरे ।देशकालावुभौ केचिन्नैतदस्तीति चापरे ।केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान् ॥ १९ ॥
धनानि केचिदिच्छन्ति निर्धनत्वं तथापरे ।उपास्यसाधनं त्वेके नैतदस्तीति चापरे ॥ २० ॥
अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः ।पुण्येन यशसेत्येके नैतदस्तीति चापरे ॥ २१ ॥
सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः ।दुःखादन्ये सुखादन्ये ध्यानमित्यपरे स्थिताः ॥ २२ ॥
यज्ञमित्यपरे धीराः प्रदानमिति चापरे ।सर्वमेके प्रशंसन्ति न सर्वमिति चापरे ॥ २३ ॥
तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः ।ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः ॥ २४ ॥
एवं व्युत्थापिते धर्मे बहुधा विप्रधावति ।निश्चयं नाधिगच्छामः संमूढाः सुरसत्तम ॥ २५ ॥
इदं श्रेय इदं श्रेय इत्येवं प्रस्थितो जनः ।यो हि यस्मिन्रतो धर्मे स तं पूजयते सदा ॥ २६ ॥
तत्र नो विहता प्रज्ञा मनश्च बहुलीकृतम् ।एतदाख्यातुमिच्छामः श्रेयः किमिति सत्तम ॥ २७ ॥
अतः परं च यद्गुह्यं तद्भवान्वक्तुमर्हति ।सत्त्वक्षेत्रज्ञयोश्चैव संबन्धः केन हेतुना ॥ २८ ॥
एवमुक्तः स तैर्विप्रैर्भगवाँल्लोकभावनः ।तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान् ॥ २९ ॥
« »