Click on words to see what they mean.

ब्राह्मण उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि ॥ १ ॥
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।येन सागरपर्यन्ता धनुषा निर्जिता मही ॥ २ ॥
स कदाचित्समुद्रान्ते विचरन्बलदर्पितः ।अवाकिरच्छरशतैः समुद्रमिति नः श्रुतम् ॥ ३ ॥
तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह ।मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते ॥ ४ ॥
मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः ।वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ॥ ५ ॥
अर्जुन उवाच ।मत्समो यदि संग्रामे शरासनधरः क्वचित् ।विद्यते तं ममाचक्ष्व यः समासीत मां मृधे ॥ ६ ॥
समुद्र उवाच ।महर्षिर्जमदग्निस्ते यदि राजन्परिश्रुतः ।तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति ॥ ७ ॥
ततः स राजा प्रययौ क्रोधेन महता वृतः ।स तमाश्रममागम्य राममेवान्वपद्यत ॥ ८ ॥
स रामप्रतिकूलानि चकार सह बन्धुभिः ।आयासं जनयामास रामस्य च महात्मनः ॥ ९ ॥
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः ।प्रदहद्रिपुसैन्यानि तदा कमललोचने ॥ १० ॥
ततः परशुमादाय स तं बाहुसहस्रिणम् ।चिच्छेद सहसा रामो बाहुशाखमिव द्रुमम् ॥ ११ ॥
तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः ।असीनादाय शक्तीश्च भार्गवं पर्यवारयन् ॥ १२ ॥
रामोऽपि धनुरादाय रथमारुह्य सत्वरः ।विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम् ॥ १३ ॥
ततस्तु क्षत्रियाः केचिज्जमदग्निं निहत्य च ।विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव ॥ १४ ॥
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम् ।प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ॥ १५ ॥
त एते द्रमिडाः काशाः पुण्ड्राश्च शबरैः सह ।वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः ॥ १६ ॥
ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः ।द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत ॥ १७ ॥
एकविंशतिमेधान्ते रामं वागशरीरिणी ।दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ॥ १८ ॥
राम राम निवर्तस्व कं गुणं तात पश्यसि ।क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः ॥ १९ ॥
तथैव तं महात्मानमृचीकप्रमुखास्तदा ।पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् ॥ २० ॥
पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् ।नार्हन्तीह भवन्तो मां निवारयितुमित्युत ॥ २१ ॥
पितर ऊचुः ।नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर ।न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् ॥ २२ ॥
« »