Click on words to see what they mean.

ब्रह्मोवाच ।योऽयं प्रश्नस्त्वया पृष्टो गोप्रदानाधिकारवान् ।नास्य प्रष्टास्ति लोकेऽस्मिंस्त्वत्तोऽन्यो हि शतक्रतो ॥ १ ॥
सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि ।पश्यामि यानहं लोकानेकपत्न्यश्च याः स्त्रियः ॥ २ ॥
कर्मभिश्चापि सुशुभैः सुव्रता ऋषयस्तथा ।सशरीरा हि तान्यान्ति ब्राह्मणाः शुभवृत्तयः ॥ ३ ॥
शरीरन्यासमोक्षेण मनसा निर्मलेन च ।स्वप्नभूतांश्च ताँल्लोकान्पश्यन्तीहापि सुव्रताः ॥ ४ ॥
ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः ।न तत्र क्रमते कालो न जरा न च पापकम् ।तथान्यन्नाशुभं किंचिन्न व्याधिस्तत्र न क्लमः ॥ ५ ॥
यद्यच्च गावो मनसा तस्मिन्वाञ्छन्ति वासव ।तत्सर्वं प्रापयन्ति स्म मम प्रत्यक्षदर्शनात् ।कामगाः कामचारिण्यः कामात्कामांश्च भुञ्जते ॥ ६ ॥
वाप्यः सरांसि सरितो विविधानि वनानि च ।गृहाणि पर्वताश्चैव यावद्द्रव्यं च किंचन ॥ ७ ॥
मनोज्ञं सर्वभूतेभ्यः सर्वं तत्र प्रदृश्यते ।ईदृशान्विद्धि ताँल्लोकान्नास्ति लोकस्ततोऽधिकः ॥ ८ ॥
तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः ।अहंकारैर्विरहिता यान्ति शक्र नरोत्तमाः ॥ ९ ॥
यः सर्वमांसानि न भक्षयीत पुमान्सदा यावदन्ताय युक्तः ।मातापित्रोरर्चिता सत्ययुक्तः शुश्रूषिता ब्राह्मणानामनिन्द्यः ॥ १० ॥
अक्रोधनो गोषु तथा द्विजेषु धर्मे रतो गुरुशुश्रूषकश्च ।यावज्जीवं सत्यवृत्ते रतश्च दाने रतो यः क्षमी चापराधे ॥ ११ ॥
मृदुर्दान्तो देवपरायणश्च सर्वातिथिश्चापि तथा दयावान् ।ईदृग्गुणो मानवः संप्रयाति लोकं गवां शाश्वतं चाव्ययं च ॥ १२ ॥
न पारदारी पश्यति लोकमेनं न वै गुरुघ्नो न मृषाप्रलापी ।सदापवादी ब्राह्मणः शान्तवेदो दोषैरन्यैर्यश्च युक्तो दुरात्मा ॥ १३ ॥
न मित्रध्रुङ्नैकृतिकः कृतघ्नः शठोऽनृजुर्धर्मविद्वेषकश्च ।न ब्रह्महा मनसापि प्रपश्येद्गवां लोकं पुण्यकृतां निवासम् ॥ १४ ॥
एतत्ते सर्वमाख्यातं नैपुणेन सुरेश्वर ।गोप्रदानरतानां तु फलं शृणु शतक्रतो ॥ १५ ॥
दायाद्यलब्धैरर्थैर्यो गाः क्रीत्वा संप्रयच्छति ।धर्मार्जितधनक्रीतान्स लोकानश्नुतेऽक्षयान् ॥ १६ ॥
यो वै द्यूते धनं जित्वा गाः क्रीत्वा संप्रयच्छति ।स दिव्यमयुतं शक्र वर्षाणां फलमश्नुते ॥ १७ ॥
दायाद्या यस्य वै गावो न्यायपूर्वैरुपार्जिताः ।प्रदत्तास्ताः प्रदातॄणां संभवन्त्यक्षया ध्रुवाः ॥ १८ ॥
प्रतिगृह्य च यो दद्याद्गाः सुशुद्धेन चेतसा ।तस्यापीहाक्षयाँल्लोकान्ध्रुवान्विद्धि शचीपते ॥ १९ ॥
जन्मप्रभृति सत्यं च यो ब्रूयान्नियतेन्द्रियः ।गुरुद्विजसहः क्षान्तस्तस्य गोभिः समा गतिः ॥ २० ॥
न जातु ब्राह्मणो वाच्यो यदवाच्यं शचीपते ।मनसा गोषु न द्रुह्येद्गोवृत्तिर्गोनुकम्पकः ॥ २१ ॥
सत्ये धर्मे च निरतस्तस्य शक्र फलं शृणु ।गोसहस्रेण समिता तस्य धेनुर्भवत्युत ॥ २२ ॥
क्षत्रियस्य गुणैरेभिरन्वितस्य फलं शृणु ।तस्यापि शततुल्या गौर्भवतीति विनिश्चयः ॥ २३ ॥
वैश्यस्यैते यदि गुणास्तस्य पञ्चाशतं भवेत् ।शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम् ॥ २४ ॥
एतच्चैवं योऽनुतिष्ठेत युक्तः सत्येन युक्तो गुरुशुश्रूषया च ।दान्तः क्षान्तो देवतार्ची प्रशान्तः शुचिर्बुद्धो धर्मशीलोऽनहंवाक् ॥ २५ ॥
महत्फलं प्राप्नुते स द्विजाय दत्त्वा दोग्ध्रीं विधिनानेन धेनुम् ।नित्यं दद्यादेकभक्तः सदा च सत्ये स्थितो गुरुशुश्रूषिता च ॥ २६ ॥
वेदाध्यायी गोषु यो भक्तिमांश्च नित्यं दृष्ट्वा योऽभिनन्देत गाश्च ।आ जातितो यश्च गवां नमेत इदं फलं शक्र निबोध तस्य ॥ २७ ॥
यत्स्यादिष्ट्वा राजसूये फलं तु यत्स्यादिष्ट्वा बहुना काञ्चनेन ।एतत्तुल्यं फलमस्याहुरग्र्यं सर्वे सन्तस्त्वृषयो ये च सिद्धाः ॥ २८ ॥
योऽग्रं भक्तान्किंचिदप्राश्य दद्याद्गोभ्यो नित्यं गोव्रती सत्यवादी ।शान्तो बुद्धो गोसहस्रस्य पुण्यं संवत्सरेणाप्नुयात्पुण्यशीलः ॥ २९ ॥
य एकं भक्तमश्नीयाद्दद्यादेकं गवां च यत् ।दश वर्षाण्यनन्तानि गोव्रती गोनुकम्पकः ॥ ३० ॥
एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति ।यावन्ति तस्य प्रोक्तानि दिवसानि शतक्रतो ।तावच्छतानां स गवां फलमाप्नोति शाश्वतम् ॥ ३१ ॥
ब्राह्मणस्य फलं हीदं क्षत्रियेऽभिहितं शृणु ।पञ्चवार्षिकमेतत्तु क्षत्रियस्य फलं स्मृतम् ।ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः ॥ ३२ ॥
यश्चात्मविक्रयं कृत्वा गाः क्रीत्वा संप्रयच्छति ।यावतीः स्पर्शयेद्गा वै तावत्तु फलमश्नुते ।लोम्नि लोम्नि महाभाग लोकाश्चास्याक्षयाः स्मृताः ॥ ३३ ॥
संग्रामेष्वर्जयित्वा तु यो वै गाः संप्रयच्छति ।आत्मविक्रयतुल्यास्ताः शाश्वता विद्धि कौशिक ॥ ३४ ॥
अलाभे यो गवां दद्यात्तिलधेनुं यतव्रतः ।दुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥ ३५ ॥
न त्वेवासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्च ।कालज्ञानं विप्र गवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम् ॥ ३६ ॥
स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं वैतानस्थं पापभीरुं कृतज्ञम् ।गोषु क्षान्तं नातितीक्ष्णं शरण्यं वृत्तिग्लानं तादृशं पात्रमाहुः ॥ ३७ ॥
वृत्तिग्लाने सीदति चातिमात्रं कृष्यर्थं वा होमहेतोः प्रसूत्याम् ।गुर्वर्थं वा बालसंवृद्धये वा धेनुं दद्याद्देशकाले विशिष्टे ॥ ३८ ॥
अन्तर्जाताः सुक्रयज्ञानलब्धाः प्राणक्रीता निर्जिताश्चौकजाश्च ।कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः ॥ ३९ ॥
बलान्विताः शीलवयोपपन्नाः सर्वाः प्रशंसन्ति सुगन्धवत्यः ।यथा हि गङ्गा सरितां वरिष्ठा तथार्जुनीनां कपिला वरिष्ठा ॥ ४० ॥
तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः ।वत्सैः पुष्टैः क्षीरपैः सुप्रचारास्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ॥ ४१ ॥
दत्त्वा धेनुं सुव्रतां साधुवत्सां कल्याणवृत्तामपलायिनीं च ।यावन्ति लोमानि भवन्ति तस्यास्तावन्ति वर्षाणि वसत्यमुत्र ॥ ४२ ॥
तथानड्वाहं ब्राह्मणायाथ धुर्यं दत्त्वा युवानं बलिनं विनीतम् ।हलस्य वोढारमनन्तवीर्यं प्राप्नोति लोकान्दशधेनुदस्य ॥ ४३ ॥
कान्तारे ब्राह्मणान्गाश्च यः परित्राति कौशिक ।क्षेमेण च विमुच्येत तस्य पुण्यफलं शृणु ।अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम् ॥ ४४ ॥
मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाङ्क्षते ।लोकान्बहुविधान्दिव्यान्यद्वास्य हृदि वर्तते ॥ ४५ ॥
तत्सर्वं समवाप्नोति कर्मणा तेन मानवः ।गोभिश्च समनुज्ञातः सर्वत्र स महीयते ॥ ४६ ॥
यस्त्वेतेनैव विधिना गां वनेष्वनुगच्छति ।तृणगोमयपर्णाशी निःस्पृहो नियतः शुचिः ॥ ४७ ॥
अकामं तेन वस्तव्यं मुदितेन शतक्रतो ।मम लोके सुरैः सार्धं लोके यत्रापि चेच्छति ॥ ४८ ॥
« »