Click on words to see what they mean.

भीष्म उवाच ।ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः ।कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति ॥ १ ॥
ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम् ।मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम् ।तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा ॥ २ ॥
पर्वतान्रम्यसानूंश्च नलिनीश्च सपङ्कजाः ।चित्रशालाश्च विविधास्तोरणानि च भारत ।शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम् ॥ ३ ॥
सहकारान्प्रफुल्लांश्च केतकोद्दालकान्धवान् ।अशोकान्मुचुकुन्दांश्च फुल्लांश्चैवातिमुक्तकान् ॥ ४ ॥
चम्पकांस्तिलकान्भव्यान्पनसान्वञ्जुलानपि ।पुष्पितान्कर्णिकारांश्च तत्र तत्र ददर्श ह ॥ ५ ॥
श्यामां वारणपुष्पीं च तथाष्टापदिकां लताम् ।तत्र तत्र परिकॢप्ता ददर्श स महीपतिः ॥ ६ ॥
वृक्षान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा ।विमानच्छन्दकांश्चापि प्रासादान्पद्मसंनिभान् ॥ ७ ॥
शीतलानि च तोयानि क्वचिदुष्णानि भारत ।आसनानि विचित्राणि शयनप्रवराणि च ॥ ८ ॥
पर्यङ्कान्सर्वसौवर्णान्परार्ध्यास्तरणास्तृतान् ।भक्ष्यभोज्यमनन्तं च तत्र तत्रोपकल्पितम् ॥ ९ ॥
वाणीवादाञ्छुकांश्चापि शारिकाभृङ्गराजकान् ।कोकिलाञ्छतपत्रांश्च कोयष्टिमककुक्कुटान् ॥ १० ॥
मयूरान्कुक्कुटांश्चापि पुत्रकाञ्जीवजीवकान् ।चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान् ॥ ११ ॥
समन्ततः प्रणदितान्ददर्श सुमनोहरान् ।क्वचिदप्सरसां संघान्गन्धर्वाणां च पार्थिव ॥ १२ ॥
कान्ताभिरपरांस्तत्र परिष्वक्तान्ददर्श ह ।न ददर्श च तान्भूयो ददर्श च पुनर्नृपः ॥ १३ ॥
गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम् ।हंसान्सुमधुरांश्चापि तत्र शुश्राव पार्थिवः ॥ १४ ॥
तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत्तदा ।स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु ॥ १५ ॥
अहो सह शरीरेण प्राप्तोऽस्मि परमां गतिम् ।उत्तरान्वा कुरून्पुण्यानथ वाप्यमरावतीम् ॥ १६ ॥
किं त्विदं महदाश्चर्यं संपश्यामीत्यचिन्तयत् ।एवं संचिन्तयन्नेव ददर्श मुनिपुंगवम् ॥ १७ ॥
तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले ।महार्हे शयने दिव्ये शयानं भृगुनन्दनम् ॥ १८ ॥
तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया ।अन्तर्हितस्ततो भूयश्च्यवनः शयनं च तत् ॥ १९ ॥
ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम् ।कौश्यां बृस्यां समासीनं जपमानं महाव्रतम् ।एवं योगबलाद्विप्रो मोहयामास पार्थिवम् ॥ २० ॥
क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः ।गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत ॥ २१ ॥
निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप ।कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा ॥ २२ ॥
ततः स राजा कुशिकः सभार्यस्तेन कर्मणा ।विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम् ॥ २३ ॥
ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः ।पश्य भद्रे यथा भावाश्चित्रा दृष्टाः सुदुर्लभाः ॥ २४ ॥
प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात् ।तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः ॥ २५ ॥
त्रैलोक्यराज्यादपि हि तप एव विशिष्यते ।तपसा हि सुतप्तेन क्रीडत्येष तपोधनः ॥ २६ ॥
अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः ।इच्छन्नेष तपोवीर्यादन्याँल्लोकान्सृजेदपि ॥ २७ ॥
ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणः ।उत्सहेदिह कर्तुं हि कोऽन्यो वै च्यवनादृते ॥ २८ ॥
ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः ।ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत् ॥ २९ ॥
इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै ।संप्रेक्ष्योवाच स नृपं क्षिप्रमागम्यतामिति ॥ ३० ॥
इत्युक्तः सहभार्यस्तमभ्यगच्छन्महामुनिम् ।शिरसा वन्दनीयं तमवन्दत स पार्थिवः ॥ ३१ ॥
तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम् ।निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभ ॥ ३२ ॥
ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम् ।उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत ॥ ३३ ॥
राजन्सम्यग्जितानीह पञ्च पञ्चसु यत्त्वया ।मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोऽसि तेन वै ॥ ३४ ॥
सम्यगाराधितः पुत्र त्वयाहं वदतां वर ।न हि ते वृजिनं किंचित्सुसूक्ष्ममपि विद्यते ॥ ३५ ॥
अनुजानीहि मां राजन्गमिष्यामि यथागतम् ।प्रीतोऽस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम् ॥ ३६ ॥
कुशिक उवाच ।अग्निमध्यगतेनेदं भगवन्संनिधौ मया ।वर्तितं भृगुशार्दूल यन्न दग्धोऽस्मि तद्बहु ॥ ३७ ॥
एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन ।यत्प्रीतोऽसि समाचारात्कुलं पूतं ममानघ ॥ ३८ ॥
एष मेऽनुग्रहो विप्र जीविते च प्रयोजनम् ।एतद्राज्यफलं चैव तपश्चैतत्परं मम ॥ ३९ ॥
यदि तु प्रीतिमान्विप्र मयि त्वं भृगुनन्दन ।अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि ॥ ४० ॥
« »