Click on words to see what they mean.

च्यवन उवाच ।वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि ।तं च ब्रूहि नरश्रेष्ठ सर्वं संपादयामि ते ॥ १ ॥
कुशिक उवाच ।यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव ।कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम् ॥ २ ॥
शयनं चैकपार्श्वेन दिवसानेकविंशतिम् ।अकिंचिदुक्त्वा गमनं बहिश्च मुनिपुंगव ॥ ३ ॥
अन्तर्धानमकस्माच्च पुनरेव च दर्शनम् ।पुनश्च शयनं विप्र दिवसानेकविंशतिम् ॥ ४ ॥
तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम ।समुपानीय विविधं यद्दग्धं जातवेदसा ।निर्याणं च रथेनाशु सहसा यत्कृतं त्वया ॥ ५ ॥
धनानां च विसर्गस्य वनस्यापि च दर्शनम् ।प्रासादानां बहूनां च काञ्चनानां महामुने ॥ ६ ॥
मणिविद्रुमपादानां पर्यङ्कानां च दर्शनम् ।पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम् ॥ ७ ॥
अतीव ह्यत्र मुह्यामि चिन्तयानो दिवानिशम् ।न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम् ।एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन ॥ ८ ॥
च्यवन उवाच ।शृणु सर्वमशेषेण यदिदं येन हेतुना ।न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव ॥ ९ ॥
पितामहस्य वदतः पुरा देवसमागमे ।श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु ॥ १० ॥
ब्रह्मक्षत्रविरोधेन भविता कुलसंकरः ।पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः ॥ ११ ॥
ततः स्वकुलरक्षार्थमहं त्वा समुपागमम् ।चिकीर्षन्कुशिकोच्छेदं संदिधक्षुः कुलं तव ॥ १२ ॥
ततोऽहमागम्य पुरा त्वामवोचं महीपते ।नियमं कंचिदारप्स्ये शुश्रूषा क्रियतामिति ॥ १३ ॥
न च ते दुष्कृतं किंचिदहमासादयं गृहे ।तेन जीवसि राजर्षे न भवेथास्ततोऽन्यथा ॥ १४ ॥
एतां बुद्धिं समास्थाय दिवसानेकविंशतिम् ।सुप्तोऽस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव ॥ १५ ॥
यदा त्वया सभार्येण संसुप्तो न प्रबोधितः ।अहं तदैव ते प्रीतो मनसा राजसत्तम ॥ १६ ॥
उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते ।पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो ॥ १७ ॥
अन्तर्हितश्चास्मि पुनः पुनरेव च ते गृहे ।योगमास्थाय संविष्टो दिवसानेकविंशतिम् ॥ १८ ॥
क्षुधितो मामसूयेथाः श्रमाद्वेति नराधिप ।एतां बुद्धिं समास्थाय कर्शितौ वां मया क्षुधा ॥ १९ ॥
न च तेऽभूत्सुसूक्ष्मोऽपि मन्युर्मनसि पार्थिव ।सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम् ॥ २० ॥
भोजनं च समानाय्य यत्तदादीपितं मया ।क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च ते ॥ २१ ॥
ततोऽहं रथमारुह्य त्वामवोचं नराधिप ।सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा ॥ २२ ॥
अविशङ्को नरपते प्रीतोऽहं चापि तेन ते ।धनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षयत् ॥ २३ ॥
ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव ।सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप ॥ २४ ॥
प्रीत्यर्थं तव चैतन्मे स्वर्गसंदर्शनं कृतम् ।यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं निदर्शनम् ॥ २५ ॥
स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिव ।मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम ॥ २६ ॥
निदर्शनार्थं तपसो धर्मस्य च नराधिप ।तत्र यासीत्स्पृहा राजंस्तच्चापि विदितं मम ॥ २७ ॥
ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते ।अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव ॥ २८ ॥
एवमेतद्यथात्थ त्वं ब्राह्मण्यं तात दुर्लभम् ।ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता ॥ २९ ॥
भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः ।तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति ॥ ३० ॥
वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा ।पौत्रस्ते भविता विप्र तपस्वी पावकद्युतिः ॥ ३१ ॥
यः स देवमनुष्याणां भयमुत्पादयिष्यति ।त्रयाणां चैव लोकानां सत्यमेतद्ब्रवीमि ते ॥ ३२ ॥
वरं गृहाण राजर्षे यस्ते मनसि वर्तते ।तीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते ॥ ३३ ॥
कुशिक उवाच ।एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने ।भवत्वेतद्यथात्थ त्वं तपः पौत्रे ममानघ ।ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः ॥ ३४ ॥
पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै ।कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन ।कश्चासौ भविता बन्धुर्मम कश्चापि संमतः ॥ ३५ ॥
« »