Click on words to see what they mean.

युधिष्ठिर उवाच ।संशयो मे महाप्राज्ञ सुमहान्सागरोपमः ।तन्मे शृणु महाबाहो श्रुत्वा चाख्यातुमर्हसि ॥ १ ॥
कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्रभो ।रामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि ॥ २ ॥
कथमेष समुत्पन्नो रामः सत्यपराक्रमः ।कथं ब्रह्मर्षिवंशे च क्षत्रधर्मा व्यजायत ॥ ३ ॥
तदस्य संभवं राजन्निखिलेनानुकीर्तय ।कौशिकाच्च कथं वंशात्क्षत्राद्वै ब्राह्मणोऽभवत् ॥ ४ ॥
अहो प्रभावः सुमहानासीद्वै सुमहात्मनोः ।रामस्य च नरव्याघ्र विश्वामित्रस्य चैव ह ॥ ५ ॥
कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत् ।एष दोषः सुतान्हित्वा तन्मे व्याख्यातुमर्हसि ॥ ६ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।च्यवनस्य च संवादं कुशिकस्य च भारत ॥ ७ ॥
एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा ।आगामिनं महाबुद्धिः स्ववंशे मुनिपुंगवः ॥ ८ ॥
संचिन्त्य मनसा सर्वं गुणदोषबलाबलम् ।दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः ॥ ९ ॥
च्यवनस्तमनुप्राप्य कुशिकं वाक्यमब्रवीत् ।वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ ॥ १० ॥
कुशिक उवाच ।भगवन्सहधर्मोऽयं पण्डितैरिह धार्यते ।प्रदानकाले कन्यानामुच्यते च सदा बुधैः ॥ ११ ॥
यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधन ।तत्कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि ॥ १२ ॥
भीष्म उवाच ।अथासनमुपादाय च्यवनस्य महामुनेः ।कुशिको भार्यया सार्धमाजगाम यतो मुनिः ॥ १३ ॥
प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत् ।कारयामास सर्वाश्च क्रियास्तस्य महात्मनः ॥ १४ ॥
ततः स राजा च्यवनं मधुपर्कं यथाविधि ।प्रत्यग्राहयदव्यग्रो महात्मा नियतव्रतः ॥ १५ ॥
सत्कृत्य स तथा विप्रमिदं वचनमब्रवीत् ।भगवन्परवन्तौ स्वो ब्रूहि किं करवावहे ॥ १६ ॥
यदि राज्यं यदि धनं यदि गाः संशितव्रत ।यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते ॥ १७ ॥
इदं गृहमिदं राज्यमिदं धर्मासनं च ते ।राजा त्वमसि शाध्युर्वीं भृत्योऽहं परवांस्त्वयि ॥ १८ ॥
एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा ।कुशिकं प्रत्युवाचेदं मुदा परमया युतः ॥ १९ ॥
न राज्यं कामये राजन्न धनं न च योषितः ।न च गा न च ते देशान्न यज्ञाञ्श्रूयतामिदम् ॥ २० ॥
नियमं कंचिदारप्स्ये युवयोर्यदि रोचते ।परिचर्योऽस्मि यत्ताभ्यां युवाभ्यामविशङ्कया ॥ २१ ॥
एवमुक्ते तदा तेन दंपती तौ जहर्षतुः ।प्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत ॥ २२ ॥
अथ तं कुशिको हृष्टः प्रावेशयदनुत्तमम् ।गृहोद्देशं ततस्तत्र दर्शनीयमदर्शयत् ॥ २३ ॥
इयं शय्या भगवतो यथाकाममिहोष्यताम् ।प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन ॥ २४ ॥
अथ सूर्योऽतिचक्राम तेषां संवदतां तथा ।अथर्षिश्चोदयामास पानमन्नं तथैव च ॥ २५ ॥
तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा ।किमन्नजातमिष्टं ते किमुपस्थापयाम्यहम् ॥ २६ ॥
ततः स परया प्रीत्या प्रत्युवाच जनाधिपम् ।औपपत्तिकमाहारं प्रयच्छस्वेति भारत ॥ २७ ॥
तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः ।यथोपपन्नं चाहारं तस्मै प्रादाज्जनाधिपः ॥ २८ ॥
ततः स भगवान्भुक्त्वा दंपती प्राह धर्मवित् ।स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो ॥ २९ ॥
ततः शय्यागृहं प्राप्य भगवानृषिसत्तमः ।संविवेश नरेन्द्रस्तु सपत्नीकः स्थितोऽभवत् ॥ ३० ॥
न प्रबोध्योऽस्मि संसुप्त इत्युवाचाथ भार्गवः ।संवाहितव्यौ पादौ मे जागर्तव्यं च वां निशि ॥ ३१ ॥
अविशङ्कश्च कुशिकस्तथेत्याह स धर्मवित् ।न प्रबोधयतां तं च तौ तदा रजनीक्षये ॥ ३२ ॥
यथादेशं महर्षेस्तु शुश्रूषापरमौ तदा ।बभूवतुर्महाराज प्रयतावथ दंपती ॥ ३३ ॥
ततः स भगवान्विप्रः समादिश्य नराधिपम् ।सुष्वापैकेन पार्श्वेन दिवसानेकविंशतिम् ॥ ३४ ॥
स तु राजा निराहारः सभार्यः कुरुनन्दन ।पर्युपासत तं हृष्टश्च्यवनाराधने रतः ॥ ३५ ॥
भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः ।अकिंचिदुक्त्वा तु गृहान्निश्चक्राम महातपाः ॥ ३६ ॥
तमन्वगच्छतां तौ तु क्षुधितौ श्रमकर्शितौ ।भार्यापती मुनिश्रेष्ठो न च ताववलोकयत् ॥ ३७ ॥
तयोस्तु प्रेक्षतोरेव भार्गवाणां कुलोद्वहः ।अन्तर्हितोऽभूद्राजेन्द्र ततो राजापतत्क्षितौ ॥ ३८ ॥
स मुहूर्तं समाश्वस्य सह देव्या महाद्युतिः ।पुनरन्वेषणे यत्नमकरोत्परमं तदा ॥ ३९ ॥
« »