Click on words to see what they mean.

भीष्म उवाच ।नहुषस्तु ततः श्रुत्वा च्यवनं तं तथागतम् ।त्वरितः प्रययौ तत्र सहामात्यपुरोहितः ॥ १ ॥
शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः ।आत्मानमाचचक्षे च च्यवनाय महात्मने ॥ २ ॥
अर्चयामास तं चापि तस्य राज्ञः पुरोहितः ।सत्यव्रतं महाभागं देवकल्पं विशां पते ॥ ३ ॥
नहुष उवाच ।करवाणि प्रियं किं ते तन्मे व्याख्यातुमर्हसि ।सर्वं कर्तास्मि भगवन्यद्यपि स्यात्सुदुष्करम् ॥ ४ ॥
च्यवन उवाच ।श्रमेण महता युक्ताः कैवर्ता मत्स्यजीविनः ।मम मूल्यं प्रयच्छैभ्यो मत्स्यानां विक्रयैः सह ॥ ५ ॥
नहुष उवाच ।सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित ।निष्क्रयार्थं भगवतो यथाह भृगुनन्दनः ॥ ६ ॥
च्यवन उवाच ।सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप ।सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु ॥ ७ ॥
नहुष उवाच ।सहस्राणां शतं क्षिप्रं निषादेभ्यः प्रदीयताम् ।स्यादेतत्तु भवेन्मूल्यं किं वान्यन्मन्यते भवान् ॥ ८ ॥
च्यवन उवाच ।नाहं शतसहस्रेण निमेयः पार्थिवर्षभ ।दीयतां सदृशं मूल्यममात्यैः सह चिन्तय ॥ ९ ॥
नहुष उवाच ।कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित ।यदेतदपि नौपम्यमतो भूयः प्रदीयताम् ॥ १० ॥
च्यवन उवाच ।राजन्नार्हाम्यहं कोटिं भूयो वापि महाद्युते ।सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय ॥ ११ ॥
नहुष उवाच ।अर्धराज्यं समग्रं वा निषादेभ्यः प्रदीयताम् ।एतन्मूल्यमहं मन्ये किं वान्यन्मन्यसे द्विज ॥ १२ ॥
च्यवन उवाच ।अर्धराज्यं समग्रं वा नाहमर्हामि पार्थिव ।सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम् ॥ १३ ॥
भीष्म उवाच ।महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः ।स चिन्तयामास तदा सहामात्यपुरोहितः ॥ १४ ॥
तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः ।नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः ॥ १५ ॥
स समाभाष्य राजानमब्रवीद्द्विजसत्तमः ।तोषयिष्याम्यहं विप्रं यथा तुष्टो भविष्यति ॥ १६ ॥
नाहं मिथ्यावचो ब्रूयां स्वैरेष्वपि कुतोऽन्यथा ।भवतो यदहं ब्रूयां तत्कार्यमविशङ्कया ॥ १७ ॥
नहुष उवाच ।ब्रवीतु भगवान्मूल्यं महर्षेः सदृशं भृगोः ।परित्रायस्व मामस्माद्विषयं च कुलं च मे ॥ १८ ॥
हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम् ।किं पुनर्मां तपोहीनं बाहुवीर्यपरायणम् ॥ १९ ॥
अगाधेऽम्भसि मग्नस्य सामात्यस्य सहर्त्विजः ।प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम् ॥ २० ॥
भीष्म उवाच ।नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान् ।उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम् ॥ २१ ॥
अनर्घेया महाराज द्विजा वर्णमहत्तमाः ।गावश्च पृथिवीपाल गौर्मूल्यं परिकल्प्यताम् ॥ २२ ॥
नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप ।हर्षेण महता युक्तः सहामात्यपुरोहितः ॥ २३ ॥
अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम् ।इदं प्रोवाच नृपते वाचा संतर्पयन्निव ॥ २४ ॥
उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोऽसि भार्गव ।एतन्मूल्यमहं मन्ये तव धर्मभृतां वर ॥ २५ ॥
च्यवन उवाच ।उत्तिष्ठाम्येष राजेन्द्र सम्यक्क्रीतोऽस्मि तेऽनघ ।गोभिस्तुल्यं न पश्यामि धनं किंचिदिहाच्युत ॥ २६ ॥
कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव ।गवां प्रशस्यते वीर सर्वपापहरं शिवम् ॥ २७ ॥
गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते ।अन्नमेव सदा गावो देवानां परमं हविः ॥ २८ ॥
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ ।गावो यज्ञप्रणेत्र्यो वै तथा यज्ञस्य ता मुखम् ॥ २९ ॥
अमृतं ह्यक्षयं दिव्यं क्षरन्ति च वहन्ति च ।अमृतायतनं चैताः सर्वलोकनमस्कृताः ॥ ३० ॥
तेजसा वपुषा चैव गावो वह्निसमा भुवि ।गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः ॥ ३१ ॥
निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम् ।विराजयति तं देशं पाप्मानं चापकर्षति ॥ ३२ ॥
गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः ।गावः कामदुघा देव्यो नान्यत्किंचित्परं स्मृतम् ॥ ३३ ॥
इत्येतद्गोषु मे प्रोक्तं माहात्म्यं पार्थिवर्षभ ।गुणैकदेशवचनं शक्यं पारायणं न तु ॥ ३४ ॥
निषादा ऊचुः ।दर्शनं कथनं चैव सहास्माभिः कृतं मुने ।सतां सप्तपदं मित्रं प्रसादं नः कुरु प्रभो ॥ ३५ ॥
हवींषि सर्वाणि यथा ह्युपभुङ्क्ते हुताशनः ।एवं त्वमपि धर्मात्मन्पुरुषाग्निः प्रतापवान् ॥ ३६ ॥
प्रसादयामहे विद्वन्भवन्तं प्रणता वयम् ।अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम् ॥ ३७ ॥
च्यवन उवाच ।कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च ।नरं समूलं दहति कक्षमग्निरिव ज्वलन् ॥ ३८ ॥
प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः ।दिवं गच्छत वै क्षिप्रं मत्स्यैर्जालोद्धृतैः सह ॥ ३९ ॥
भीष्म उवाच ।ततस्तस्य प्रसादात्ते महर्षेर्भावितात्मनः ।निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः ॥ ४० ॥
ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान् ।आरोहमाणांस्त्रिदिवं मत्स्यांश्च भरतर्षभ ॥ ४१ ॥
ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः ।वराभ्यामनुरूपाभ्यां छन्दयामासतुर्नृपम् ॥ ४२ ॥
ततो राजा महावीर्यो नहुषः पृथिवीपतिः ।परमित्यब्रवीत्प्रीतस्तदा भरतसत्तम ॥ ४३ ॥
ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः ।तथेति चोदितः प्रीतस्तावृषी प्रत्यपूजयत् ॥ ४४ ॥
समाप्तदीक्षश्च्यवनस्ततोऽगच्छत्स्वमाश्रमम् ।गविजश्च महातेजाः स्वमाश्रमपदं ययौ ॥ ४५ ॥
निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिप ।नहुषोऽपि वरं लब्ध्वा प्रविवेश पुरं स्वकम् ॥ ४६ ॥
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि ।दर्शने यादृशः स्नेहः संवासे च युधिष्ठिर ॥ ४७ ॥
महाभाग्यं गवां चैव तथा धर्मविनिश्चयम् ।किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम् ॥ ४८ ॥
« »