Click on words to see what they mean.

युधिष्ठिर उवाच ।पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।श्रुतं मे महदाख्यानमिदं मतिमतां वर ॥ १ ॥
भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप ।कथ्यमानं त्वया किंचित्तन्मे व्याख्यातुमर्हसि ॥ २ ॥
केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः ।इत्येतत्सर्वमाचक्ष्व तत्त्वेन मम पार्थिव ॥ ३ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः ॥ ४ ॥
मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः ।तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः ॥ ५ ॥
दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत ।माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः ॥ ६ ॥
दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः ।सत्ये तपसि दाने च यस्य नित्यं रतं मनः ॥ ७ ॥
मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः ।धनुर्वेदे च वेदे च निरतो योऽभवत्सदा ॥ ८ ॥
मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः ।महाभागो महातेजा महासत्त्वो महाबलः ॥ ९ ॥
पुत्रो द्युतिमतस्त्वासीत्सुवीरो नाम पार्थिवः ।धर्मात्मा कोशवांश्चापि देवराज इवापरः ॥ १० ॥
सुवीरस्य तु पुत्रोऽभूत्सर्वसंग्रामदुर्जयः ।दुर्जयेत्यभिविख्यातः सर्वशास्त्रविशारदः ॥ ११ ॥
दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिः ।दुर्योधनो नाम महान्राजासीद्राजसत्तम ॥ १२ ॥
तस्येन्द्रसमवीर्यस्य संग्रामेष्वनिवर्तिनः ।विषयश्च प्रभावश्च तुल्यमेवाभ्यवर्तत ॥ १३ ॥
रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः ।नगरं विषयश्चास्य प्रतिपूर्णं तदाभवत् ॥ १४ ॥
न तस्य विषये चाभूत्कृपणो नापि दुर्गतः ।व्याधितो वा कृशो वापि तस्मिन्नाभून्नरः क्वचित् ॥ १५ ॥
सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः ।धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः ॥ १६ ॥
यज्वा वदान्यो मेधावी ब्रह्मण्यः सत्यसंगरः ।न चावमन्ता दाता च वेदवेदाङ्गपारगः ॥ १७ ॥
तं नर्मदा देवनदी पुण्या शीतजला शिवा ।चकमे पुरुषश्रेष्ठं स्वेन भावेन भारत ॥ १८ ॥
तस्य जज्ञे तदा नद्यां कन्या राजीवलोचना ।नाम्ना सुदर्शना राजन्रूपेण च सुदर्शना ॥ १९ ॥
तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर ।दुर्योधनसुता यादृगभवद्वरवर्णिनी ॥ २० ॥
तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम् ।भूत्वा च ब्राह्मणः साक्षाद्वरयामास तं नृपम् ॥ २१ ॥
दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः ।न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम् ॥ २२ ॥
ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनः ।ततो दुर्योधनो राजा वाक्यमाहर्त्विजस्तदा ॥ २३ ॥
दुष्कृतं मम किं नु स्याद्भवतां वा द्विजर्षभाः ।येन नाशं जगामाग्निः कृतं कुपुरुषेष्विव ॥ २४ ॥
न ह्यल्पं दुष्कृतं नोऽस्ति येनाग्निर्नाशमागतः ।भवतां वाथ वा मह्यं तत्त्वेनैतद्विमृश्यताम् ॥ २५ ॥
एतद्राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभ ।नियता वाग्यताश्चैव पावकं शरणं ययुः ॥ २६ ॥
तान्दर्शयामास तदा भगवान्हव्यवाहनः ।स्वं रूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः ॥ २७ ॥
ततो महात्मा तानाह दहनो ब्राह्मणर्षभान् ।वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति ॥ २८ ॥
ततस्ते काल्यमुत्थाय तस्मै राज्ञे न्यवेदयन् ।ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना ॥ २९ ॥
ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम् ।अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान् ॥ ३० ॥
प्रायाचत नृपः शुल्कं भगवन्तं विभावसुम् ।नित्यं सांनिध्यमिह ते चित्रभानो भवेदिति ।तमाह भगवानग्निरेवमस्त्विति पार्थिवम् ॥ ३१ ॥
ततः सांनिध्यमध्यापि माहिष्मत्यां विभावसोः ।दृष्टं हि सहदेवेन दिशो विजयता तदा ॥ ३२ ॥
ततस्तां समलंकृत्य कन्यामहतवाससम् ।ददौ दुर्योधनो राजा पावकाय महात्मने ॥ ३३ ॥
प्रतिजग्राह चाग्निस्तां राजपुत्रीं सुदर्शनाम् ।विधिना वेददृष्टेन वसोर्धारामिवाध्वरे ॥ ३४ ॥
तस्या रूपेण शीलेन कुलेन वपुषा श्रिया ।अभवत्प्रीतिमानग्निर्गर्भं तस्यां समादधे ॥ ३५ ॥
तस्यां समभवत्पुत्रो नाम्नाग्नेयः सुदर्शनः ।शिशुरेवाध्यगात्सर्वं स च ब्रह्म सनातनम् ॥ ३६ ॥
अथौघवान्नाम नृपो नृगस्यासीत्पितामहः ।तस्याप्योघवती कन्या पुत्रश्चौघरथोऽभवत् ॥ ३७ ॥
तामोघवान्ददौ तस्मै स्वयमोघवतीं सुताम् ।सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम् ॥ ३८ ॥
स गृहस्थाश्रमरतस्तया सह सुदर्शनः ।कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः ॥ ३९ ॥
गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो ।प्रतिज्ञामकरोद्धीमान्दीप्ततेजा विशां पते ॥ ४० ॥
तामथौघवतीं राजन्स पावकसुतोऽब्रवीत् ।अतिथेः प्रतिकूलं ते न कर्तव्यं कथंचन ॥ ४१ ॥
येन येन च तुष्येत नित्यमेव त्वयातिथिः ।अप्यात्मनः प्रदानेन न ते कार्या विचारणा ॥ ४२ ॥
एतद्व्रतं मम सदा हृदि संपरिवर्तते ।गृहस्थानां हि सुश्रोणि नातिथेर्विद्यते परम् ॥ ४३ ॥
प्रमाणं यदि वामोरु वचस्ते मम शोभने ।इदं वचनमव्यग्रा हृदि त्वं धारयेः सदा ॥ ४४ ॥
निष्क्रान्ते मयि कल्याणि तथा संनिहितेऽनघे ।नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव ॥ ४५ ॥
तमब्रवीदोघवती यता मूर्ध्नि कृताञ्जलिः ।न मे त्वद्वचनात्किंचिदकर्तव्यं कथंचन ॥ ४६ ॥
जिगीषमाणं तु गृहे तदा मृत्युः सुदर्शनम् ।पृष्ठतोऽन्वगमद्राजन्रन्ध्रान्वेषी तदा सदा ॥ ४७ ॥
इध्मार्थं तु गते तस्मिन्नग्निपुत्रे सुदर्शने ।अतिथिर्ब्राह्मणः श्रीमांस्तामाहौघवतीं तदा ॥ ४८ ॥
आतिथ्यं दत्तमिच्छामि त्वयाद्य वरवर्णिनि ।प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसंमतः ॥ ४९ ॥
इत्युक्ता तेन विप्रेण राजपुत्री यशस्विनी ।विधिना प्रतिजग्राह वेदोक्तेन विशां पते ॥ ५० ॥
आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये ।प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते ॥ ५१ ॥
तामब्रवीत्ततो विप्रो राजपुत्रीं सुदर्शनाम् ।त्वया ममार्थः कल्याणि निर्विशङ्के तदाचर ॥ ५२ ॥
यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसंमतः ।प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम् ॥ ५३ ॥
तथा संछन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया ।नान्यमात्मप्रदानात्स तस्या वव्रे वरं द्विजः ॥ ५४ ॥
सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः ।तथेति लज्जमाना सा तमुवाच द्विजर्षभम् ॥ ५५ ॥
ततो रहः स विप्रर्षिः सा चैवोपविवेश ह ।संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः ॥ ५६ ॥
अथेध्मान्समुपादाय स पावकिरुपागमत् ।मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः ॥ ५७ ॥
ततस्त्वाश्रममागम्य स पावकसुतस्तदा ।तामाजुहावौघवतीं क्वासि यातेति चासकृत् ॥ ५८ ॥
तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा ।कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती ॥ ५९ ॥
उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुरेव च ।तूष्णींभूताभवत्साध्वी न चोवाचाथ किंचन ॥ ६० ॥
अथ तां पुनरेवेदं प्रोवाच स सुदर्शनः ।क्व सा साध्वी क्व सा याता गरीयः किमतो मम ॥ ६१ ॥
पतिव्रता सत्यशीला नित्यं चैवार्जवे रता ।कथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा ॥ ६२ ॥
उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम् ।अतिथिं विद्धि संप्राप्तं पावके ब्राह्मणं च माम् ॥ ६३ ॥
अनया छन्द्यमानोऽहं भार्यया तव सत्तम ।तैस्तैरतिथिसत्कारैरार्जवेऽस्या दृढं मनः ॥ ६४ ॥
अनेन विधिना सेयं मामर्चति शुभानना ।अनुरूपं यदत्राद्य तद्भवान्वक्तुमर्हति ॥ ६५ ॥
कूटमुद्गरहस्तस्तु मृत्युस्तं वै समन्वयात् ।हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन् ॥ ६६ ॥
सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा ।त्यक्तेर्ष्यस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम् ॥ ६७ ॥
सुरतं तेऽस्तु विप्राग्र्य प्रीतिर्हि परमा मम ।गृहस्थस्य हि धर्मोऽग्र्यः संप्राप्तातिथिपूजनम् ॥ ६८ ॥
अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति ।नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः ॥ ६९ ॥
प्राणा हि मम दाराश्च यच्चान्यद्विद्यते वसु ।अतिथिभ्यो मया देयमिति मे व्रतमाहितम् ॥ ७० ॥
निःसंदिग्धं मया वाक्यमेतत्ते समुदाहृतम् ।तेनाहं विप्र सत्येन स्वयमात्मानमालभे ॥ ७१ ॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश ॥ ७२ ॥
नित्यमेते हि पश्यन्ति देहिनां देहसंश्रिताः ।सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर ॥ ७३ ॥
यथैषा नानृता वाणी मयाद्य समुदाहृता ।तेन सत्येन मां देवाः पालयन्तु दहन्तु वा ॥ ७४ ॥
ततो नादः समभवद्दिक्षु सर्वासु भारत ।असकृत्सत्यमित्येव नैतन्मिथ्येति सर्वशः ॥ ७५ ॥
उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजः ।वपुषा खं च भूमिं च व्याप्य वायुरिवोद्यतः ॥ ७६ ॥
स्वरेण विप्रः शैक्षेण त्रीँल्लोकाननुनादयन् ।उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः ॥ ७७ ॥
धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ ।प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि ॥ ७८ ॥
विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति ।रन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः ॥ ७९ ॥
न चास्ति शक्तिस्त्रैलोक्ये कस्यचित्पुरुषोत्तम ।पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत ॥ ८० ॥
रक्षिता त्वद्गुणैरेषा पतिव्रतगुणैस्तथा ।अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत् ॥ ८१ ॥
एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी ।पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति ॥ ८२ ॥
अर्धेनौघवती नाम त्वामर्धेनानुयास्यति ।शरीरेण महाभागा योगो ह्यस्या वशे स्थितः ॥ ८३ ॥
अनया सह लोकांश्च गन्तासि तपसार्जितान् ।यत्र नावृत्तिमभ्येति शाश्वतांस्तान्सनातनान् ॥ ८४ ॥
अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे ।निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम् ॥ ८५ ॥
पञ्च भूतान्यतिक्रान्तः स्ववीर्याच्च मनोभवः ।गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ ॥ ८६ ॥
स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलः ।तव शुश्रूषया राजन्राजपुत्र्या विनिर्जिताः ॥ ८७ ॥
भीष्म उवाच ।शुक्लानां तु सहस्रेण वाजिनां रथमुत्तमम् ।युक्तं प्रगृह्य भगवान्व्यवसायो जगाम तम् ॥ ८८ ॥
मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च ।बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च ॥ ८९ ॥
तस्माद्गृहाश्रमस्थस्य नान्यद्दैवतमस्ति वै ।ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय ॥ ९० ॥
अतिथिः पूजितो यस्य ध्यायते मनसा शुभम् ।न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः ॥ ९१ ॥
पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत् ।स दत्त्वा सुकृतं तस्य क्षपयेत ह्यनर्चितः ॥ ९२ ॥
एतत्ते कथितं पुत्र मयाख्यानमनुत्तमम् ।यथा हि विजितो मृत्युर्गृहस्थेन पुराभवत् ॥ ९३ ॥
धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम् ।बुभूषताभिमन्तव्यं सर्वदुश्चरितापहम् ॥ ९४ ॥
य इदं कथयेद्विद्वानहन्यहनि भारत ।सुदर्शनस्य चरितं पुण्याँल्लोकानवाप्नुयात् ॥ ९५ ॥
« »