Click on words to see what they mean.

युधिष्ठिर उवाच ।शमो बहुविधाकारः सूक्ष्म उक्तः पितामह ।न च मे हृदये शान्तिरस्ति कृत्वेदमीदृशम् ॥ १ ॥
अस्मिन्नर्थे बहुविधा शान्तिरुक्ता त्वयानघ ।स्वकृते का नु शान्तिः स्याच्छमाद्बहुविधादपि ॥ २ ॥
शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च ।शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन् ॥ ३ ॥
रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् ।त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम् ॥ ४ ॥
अतः कष्टतरं किं नु मत्कृते यत्पितामहः ।इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे ।तथैवान्ये नृपतयः सहपुत्राः सबान्धवाः ॥ ५ ॥
वयं हि धार्तराष्ट्राश्च कालमन्युवशानुगाः ।कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप ॥ ६ ॥
अहं तव ह्यन्तकरः सुहृद्वधकरस्तथा ।न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ ॥ ७ ॥
भीष्म उवाच ।परतन्त्रं कथं हेतुमात्मानमनुपश्यसि ।कर्मण्यस्मिन्महाभाग सूक्ष्मं ह्येतदतीन्द्रियम् ॥ ८ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः ॥ ९ ॥
गौतमी नाम कौन्तेय स्थविरा शमसंयुता ।सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम् ॥ १० ॥
अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः ।लुब्धकोऽर्जुनको नाम गौतम्याः समुपानयत् ॥ ११ ॥
तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः ।ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना ॥ १२ ॥
अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा ।न ह्ययं बालहा पापश्चिरं जीवितुमर्हति ॥ १३ ॥
गौतम्युवाच ।विसृजैनमबुद्धिस्त्वं न वध्योऽर्जुनक त्वया ।को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन् ॥ १४ ॥
प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः ।मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके ॥ १५ ॥
न चामृत्युर्भविता वै हतेऽस्मिन्को वात्ययः स्यादहतेऽस्मिञ्जनस्य ।अस्योत्सर्गे प्राणयुक्तस्य जन्तोर्मृत्योर्लोकं को नु गच्छेदनन्तम् ॥ १६ ॥
लुब्धक उवाच ।जानाम्येवं नेह गुणागुणज्ञाः सर्वे नियुक्ता गुरवो वै भवन्ति ।स्वस्थस्यैते तूपदेशा भवन्ति तस्मात्क्षुद्रं सर्पमेनं हनिष्ये ॥ १७ ॥
समीप्सन्तः कालयोगं त्यजन्ति सद्यः शुचं त्वर्थविदस्त्यजन्ति ।श्रेयः क्षयः शोचतां नित्यशो हि तस्मात्त्याज्यं जहि शोकं हतेऽस्मिन् ॥ १८ ॥
गौतम्युवाच ।न चैवार्तिर्विद्यतेऽस्मद्विधानां धर्मारामः सततं सज्जनो हि ।नित्यायस्तो बालजनो न चास्ति धर्मो ह्येष प्रभवाम्यस्य नाहम् ॥ १९ ॥
न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातना ।मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः ॥ २० ॥
लुब्धक उवाच ।हत्वा लाभः श्रेय एवाव्ययं स्यात्सद्यो लाभो बलवद्भिः प्रशस्तः ।कालाल्लाभो यस्तु सद्यो भवेत हते श्रेयः कुत्सिते त्वीदृशे स्यात् ॥ २१ ॥
गौतम्युवाच ।कार्थप्राप्तिर्गृह्य शत्रुं निहत्य का वा शान्तिः प्राप्य शत्रुं नमुक्त्वा ।कस्मात्सौम्य भुजगे न क्षमेयं मोक्षं वा किं कारणं नास्य कुर्याम् ॥ २२ ॥
लुब्धक उवाच ।अस्मादेकस्माद्बहवो रक्षितव्या नैको बहुभ्यो गौतमि रक्षितव्यः ।कृतागसं धर्मविदस्त्यजन्ति सरीसृपं पापमिमं जहि त्वम् ॥ २३ ॥
गौतम्युवाच ।नास्मिन्हते पन्नगे पुत्रको मे संप्राप्स्यते लुब्धक जीवितं वै ।गुणं चान्यं नास्य वधे प्रपश्ये तस्मात्सर्पं लुब्धक मुञ्च जीवम् ॥ २४ ॥
लुब्धक उवाच ।वृत्रं हत्वा देवराट्श्रेष्ठभाग्वै यज्ञं हत्वा भागमवाप चैव ।शूली देवो देववृत्तं कुरु त्वं क्षिप्रं सर्पं जहि मा भूद्विशङ्का ॥ २५ ॥
भीष्म उवाच ।असकृत्प्रोच्यमानापि गौतमी भुजगं प्रति ।लुब्धकेन महाभागा पापे नैवाकरोन्मतिम् ॥ २६ ॥
ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः ।उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः ॥ २७ ॥
को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश ।अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत् ॥ २८ ॥
तस्यायं वचनाद्दष्टो न कोपेन न काम्यया ।तस्य तत्किल्बिषं लुब्ध विद्यते यदि किल्बिषम् ॥ २९ ॥
लुब्धक उवाच ।यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम् ।कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी ॥ ३० ॥
मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा ।कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग ॥ ३१ ॥
किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग ।आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजंगम ॥ ३२ ॥
सर्प उवाच ।सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा ।तथाहमपि तस्मान्मे नैष हेतुर्मतस्तव ॥ ३३ ॥
अथ वा मतमेतत्ते तेऽप्यन्योन्यप्रयोजकाः ।कार्यकारणसंदेहो भवत्यन्योन्यचोदनात् ॥ ३४ ॥
एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी ।किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम् ॥ ३५ ॥
लुब्धक उवाच ।कारणं यदि न स्याद्वै न कर्ता स्यास्त्वमप्युत ।विनाशे कारणं त्वं च तस्माद्वध्योऽसि मे मतः ॥ ३६ ॥
असत्यपि कृते कार्ये नेह पन्नग लिप्यते ।तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु भाषसे ॥ ३७ ॥
सर्प उवाच ।कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे ।तस्मात्त्वमस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः ॥ ३८ ॥
यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः ।अन्यः प्रयोगे स्यादत्र किल्बिषी जन्तुनाशने ॥ ३९ ॥
लुब्धक उवाच ।वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत् ।भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम ॥ ४० ॥
सर्प उवाच ।यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः ।न फलं प्राप्नुवन्त्यत्र परलोके तथा ह्यहम् ॥ ४१ ॥
भीष्म उवाच ।तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते ।आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम् ॥ ४२ ॥
कालेनाहं प्रणुदितः पन्नग त्वामचूचुदम् ।विनाशहेतुर्नास्य त्वमहं वा प्राणिनः शिशोः ॥ ४३ ॥
यथा वायुर्जलधरान्विकर्षति ततस्ततः ।तद्वज्जलदवत्सर्प कालस्याहं वशानुगः ॥ ४४ ॥
सात्त्विका राजसाश्चैव तामसा ये च केचन ।भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु ॥ ४५ ॥
जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि ।सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत् ॥ ४६ ॥
प्रवृत्तयश्च या लोके तथैव च निवृत्तयः ।तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम् ॥ ४७ ॥
आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः ।अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा ॥ ४८ ॥
सरितः सागराश्चैव भावाभावौ च पन्नग ।सर्वे कालेन सृज्यन्ते ह्रियन्ते च तथा पुनः ॥ ४९ ॥
एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे ।अथ चैवंगते दोषो मयि त्वमपि दोषवान् ॥ ५० ॥
सर्प उवाच ।निर्दोषं दोषवन्तं वा न त्वा मृत्यो ब्रवीम्यहम् ।त्वयाहं चोदित इति ब्रवीम्येतावदेव तु ॥ ५१ ॥
यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते ।दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम् ॥ ५२ ॥
निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा ।मृत्यो विदोषः स्यामेव यथा तन्मे प्रयोजनम् ॥ ५३ ॥
भीष्म उवाच ।सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम् ।नानागसं मां पाशेन संतापयितुमर्हसि ॥ ५४ ॥
लुब्धक उवाच ।मृत्योः श्रुतं मे वचनं तव चैव भुजंगम ।नैव तावद्विदोषत्वं भवति त्वयि पन्नग ॥ ५५ ॥
मृत्युस्त्वं चैव हेतुर्हि जन्तोरस्य विनाशने ।उभयं कारणं मन्ये न कारणमकारणम् ॥ ५६ ॥
धिङ्मृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम् ।त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम् ॥ ५७ ॥
मृत्युरुवाच ।विवशौ कालवशगावावां तद्दिष्टकारिणौ ।नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि ॥ ५८ ॥
लुब्धक उवाच ।युवामुभौ कालवशौ यदि वै मृत्युपन्नगौ ।हर्षक्रोधौ कथं स्यातामेतदिच्छामि वेदितुम् ॥ ५९ ॥
मृत्युरुवाच ।याः काश्चिदिह चेष्टाः स्युः सर्वाः कालप्रचोदिताः ।पूर्वमेवैतदुक्तं हि मया लुब्धक कालतः ॥ ६० ॥
तस्मादुभौ कालवशावावां तद्दिष्टकारिणौ ।नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हिचित् ॥ ६१ ॥
भीष्म उवाच ।अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये ।अब्रवीत्पन्नगं मृत्युं लुब्धमर्जुनकं च तम् ॥ ६२ ॥
काल उवाच ।नैवाहं नाप्ययं मृत्युर्नायं लुब्धक पन्नगः ।किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः ॥ ६३ ॥
अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम् ।प्रणाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा ॥ ६४ ॥
यदनेन कृतं कर्म तेनायं निधनं गतः ।विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् ॥ ६५ ॥
कर्मदायादवाँल्लोकः कर्मसंबन्धलक्षणः ।कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम् ॥ ६६ ॥
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति ।एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥ ६७ ॥
यथा छायातपौ नित्यं सुसंबद्धौ निरन्तरम् ।तथा कर्म च कर्ता च संबद्धावात्मकर्मभिः ॥ ६८ ॥
एवं नाहं न वै मृत्युर्न सर्पो न तथा भवान् ।न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम् ॥ ६९ ॥
तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप ।स्वकर्मप्रत्ययाँल्लोकान्मत्वार्जुनकमब्रवीत् ॥ ७० ॥
नैव कालो न भुजगो न मृत्युरिह कारणम् ।स्वकर्मभिरयं बालः कालेन निधनं गतः ॥ ७१ ॥
मया च तत्कृतं कर्म येनायं मे मृतः सुतः ।यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम् ॥ ७२ ॥
भीष्म उवाच ।ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः ।अभूद्विरोषोऽर्जुनको विशोका चैव गौतमी ॥ ७३ ॥
एतच्छ्रुत्वा शमं गच्छ मा भूश्चिन्तापरो नृप ।स्वकर्मप्रत्ययाँल्लोकांस्त्रीन्विद्धि मनुजर्षभ ॥ ७४ ॥
न तु त्वया कृतं पार्थ नापि दुर्योधनेन वै ।कालेन तत्कृतं विद्धि विहता येन पार्थिवाः ॥ ७५ ॥
वैशंपायन उवाच ।इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः ।युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित् ॥ ७६ ॥
« »