Click on words to see what they mean.

युधिष्ठिर उवाच ।ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन ।वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः ॥ १ ॥
वासुदेव उवाच ।शृणुष्वावहितो राजन्द्विजानां भरतर्षभ ।यथातत्त्वेन वदतो गुणान्मे कुरुसत्तम ॥ २ ॥
प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः ।किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन ।ईश्वरस्य सतस्तस्य इह चैव परत्र च ॥ ३ ॥
सदा द्विजातीन्संपूज्य किं फलं तत्र मानद ।एतद्ब्रूहि पितः सर्वं सुमहान्संशयोऽत्र मे ॥ ४ ॥
इत्युक्तवचनस्तेन प्रद्युम्नेन तदा त्वहम् ।प्रत्यब्रुवं महाराज यत्तच्छृणु समाहितः ॥ ५ ॥
व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे ।एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥ ६ ॥
अस्मिँल्लोके रौक्मिणेय तथामुष्मिंश्च पुत्रक ।ब्राह्मणप्रमुखं सौख्यं न मेऽत्रास्ति विचारणा ॥ ७ ॥
ब्राह्मणप्रमुखं वीर्यमायुः कीर्तिर्यशो बलम् ।लोका लोकेश्वराश्चैव सर्वे ब्राह्मणपूर्वकाः ॥ ८ ॥
तत्कथं नाद्रियेयं वै ईश्वरोऽस्मीति पुत्रक ।मा ते मन्युर्महाबाहो भवत्वत्र द्विजान्प्रति ॥ ९ ॥
ब्राह्मणो हि महद्भूतमस्मिँल्लोके परत्र च ।भस्म कुर्युर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः ॥ १० ॥
अन्यानपि सृजेयुश्च लोकाँल्लोकेश्वरांस्तथा ।कथं तेषु न वर्तेय सम्यग्ज्ञानात्सुतेजसः ॥ ११ ॥
अवसन्मद्गृहे तात ब्राह्मणो हरिपिङ्गलः ।चीरवासा बिल्वदण्डी दीर्घश्मश्रुनखादिमान् ।दीर्घेभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि ॥ १२ ॥
स स्म संचरते लोकान्ये दिव्या ये च मानुषाः ।इमा गाथा गायमानश्चत्वरेषु सभासु च ॥ १३ ॥
दुर्वाससं वासयेत्को ब्राह्मणं सत्कृतं गृहे ।परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रयम् ।यो मां कश्चिद्वासयेत न स मां कोपयेदिह ॥ १४ ॥
तं स्म नाद्रियते कश्चित्ततोऽहं तमवासयम् ॥ १५ ॥
स स्म भुङ्क्ते सहस्राणां बहूनामन्नमेकदा ।एकदा स्माल्पकं भुङ्क्ते न वैति च पुनर्गृहान् ॥ १६ ॥
अकस्माच्च प्रहसति तथाकस्मात्प्ररोदिति ।न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा ॥ १७ ॥
सोऽस्मदावसथं गत्वा शय्याश्चास्तरणानि च ।कन्याश्चालंकृता दग्ध्वा ततो व्यपगतः स्वयम् ॥ १८ ॥
अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः ।कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः ॥ १९ ॥
सदैव तु मया तस्य चित्तज्ञेन गृहे जनः ।सर्वाण्येवान्नपानानि भक्ष्याश्चोच्चावचास्तथा ।भवन्तु सत्कृतानीति पूर्वमेव प्रचोदितः ॥ २० ॥
ततोऽहं ज्वलमानं वै पायसं प्रत्यवेदयम् ।तद्भुक्त्वैव तु स क्षिप्रं ततो वचनमब्रवीत् ।क्षिप्रमङ्गानि लिम्पस्व पायसेनेति स स्म ह ॥ २१ ॥
अविमृश्यैव च ततः कृतवानस्मि तत्तथा ।तेनोच्छिष्टेन गात्राणि शिरश्चैवाभ्यमृक्षयम् ॥ २२ ॥
स ददर्श तदाभ्याशे मातरं ते शुभाननाम् ।तामपि स्मयमानः स पायसेनाभ्यलेपयत् ॥ २३ ॥
मुनिः पायसदिग्धाङ्गीं रथे तूर्णमयोजयत् ।तमारुह्य रथं चैव निर्ययौ स गृहान्मम ॥ २४ ॥
अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत् ।प्रतोदेनातुदद्बालां रुक्मिणीं मम पश्यतः ॥ २५ ॥
न च मे स्तोकमप्यासीद्दुःखमीर्ष्याकृतं तदा ।ततः स राजमार्गेण महता निर्ययौ बहिः ॥ २६ ॥
तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः ।तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम् ॥ २७ ॥
ब्राह्मणा एव जायेरन्नान्यो वर्णः कथंचन ।को ह्येनं रथमास्थाय जीवेदन्यः पुमानिह ॥ २८ ॥
आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरं विषम् ।ब्रह्माशीविषदग्धस्य नास्ति कश्चिच्चिकित्सकः ॥ २९ ॥
तस्मिन्व्रजति दुर्धर्षे प्रास्खलद्रुक्मिणी पथि ।तां नामर्षयत श्रीमांस्ततस्तूर्णमचोदयत् ॥ ३० ॥
ततः परमसंक्रुद्धो रथात्प्रस्कन्द्य स द्विजः ।पदातिरुत्पथेनैव प्राधावद्दक्षिणामुखः ॥ ३१ ॥
तमुत्पथेन धावन्तमन्वधावं द्विजोत्तमम् ।तथैव पायसादिग्धः प्रसीद भगवन्निति ॥ ३२ ॥
ततो विलोक्य तेजस्वी ब्राह्मणो मामुवाच ह ।जितः क्रोधस्त्वया कृष्ण प्रकृत्यैव महाभुज ॥ ३३ ॥
न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत ।प्रीतोऽस्मि तव गोविन्द वृणु कामान्यथेप्सितान् ।प्रसन्नस्य च मे तात पश्य व्युष्टिर्यथाविधा ॥ ३४ ॥
यावदेव मनुष्याणामन्ने भावो भविष्यति ।यथैवान्ने तथा तेषां त्वयि भावो भविष्यति ॥ ३५ ॥
यावच्च पुण्या लोकेषु त्वयि कीर्तिर्भविष्यति ।त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे ।सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन ॥ ३६ ॥
यत्ते भिन्नं च दग्धं च यच्च किंचिद्विनाशितम् ।सर्वं तथैव द्रष्टासि विशिष्टं वा जनार्दन ॥ ३७ ॥
यावदेतत्प्रलिप्तं ते गात्रेषु मधुसूदन ।अतो मृत्युभयं नास्ति यावदिच्छा तवाच्युत ॥ ३८ ॥
न तु पादतले लिप्ते कस्मात्ते पुत्रकाद्य वै ।नैतन्मे प्रियमित्येव स मां प्रीतोऽब्रवीत्तदा ।इत्युक्तोऽहं शरीरं स्वमपश्यं श्रीसमायुतम् ॥ ३९ ॥
रुक्मिणीं चाब्रवीत्प्रीतः सर्वस्त्रीणां वरं यशः ।कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने ॥ ४० ॥
न त्वां जरा वा रोगो वा वैवर्ण्यं चापि भामिनि ।स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णमाराधयिष्यसि ॥ ४१ ॥
षोडशानां सहस्राणां वधूनां केशवस्य ह ।वरिष्ठा सहलोक्या च केशवस्य भविष्यसि ॥ ४२ ॥
तव मातरमित्युक्त्वा ततो मां पुनरब्रवीत् ।प्रस्थितः सुमहातेजा दुर्वासा वह्निवज्ज्वलन् ॥ ४३ ॥
एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव ।इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत ॥ ४४ ॥
तस्मिन्नन्तर्हिते चाहमुपांशुव्रतमादिशम् ।यत्किंचिद्ब्राह्मणो ब्रूयात्सर्वं कुर्यामिति प्रभो ॥ ४५ ॥
एतद्व्रतमहं कृत्वा मात्रा ते सह पुत्रक ।ततः परमहृष्टात्मा प्राविशं गृहमेव च ॥ ४६ ॥
प्रविष्टमात्रश्च गृहे सर्वं पश्यामि तन्नवम् ।यद्भिन्नं यच्च वै दग्धं तेन विप्रेण पुत्रक ॥ ४७ ॥
ततोऽहं विस्मयं प्राप्तः सर्वं दृष्ट्वा नवं दृढम् ।अपूजयं च मनसा रौक्मिणेय द्विजं तदा ॥ ४८ ॥
इत्यहं रौक्मिणेयस्य पृच्छतो भरतर्षभ ।माहात्म्यं द्विजमुख्यस्य सर्वमाख्यातवांस्तदा ॥ ४९ ॥
तथा त्वमपि कौन्तेय ब्राह्मणान्सततं प्रभो ।पूजयस्व महाभागान्वाग्भिर्दानैश्च नित्यदा ॥ ५० ॥
एवं व्युष्टिमहं प्राप्तो ब्राह्मणानां प्रसादजाम् ।यच्च मामाह भीष्मोऽयं तत्सत्यं भरतर्षभ ॥ ५१ ॥
« »