Click on words to see what they mean.

युधिष्ठिर उवाच ।दुर्वाससः प्रसादात्ते यत्तदा मधुसूदन ।अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि ॥ १ ॥
महाभाग्यं च यत्तस्य नामानि च महात्मनः ।तत्त्वतो ज्ञातुमिच्छामि सर्वं मतिमतां वर ॥ २ ॥
वासुदेव उवाच ।हन्त ते कथयिष्यामि नमस्कृत्वा कपर्दिने ।यदवाप्तं महाराज श्रेयो यच्चार्जितं यशः ॥ ३ ॥
प्रयतः प्रातरुत्थाय यदधीये विशां पते ।प्राञ्जलिः शतरुद्रीयं तन्मे निगदतः शृणु ॥ ४ ॥
प्रजापतिस्तत्ससृजे तपसोऽन्ते महातपाः ।शंकरस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः ॥ ५ ॥
नास्ति किंचित्परं भूतं महादेवाद्विशां पते ।इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः ॥ ६ ॥
न चैवोत्सहते स्थातुं कश्चिदग्रे महात्मनः ।न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥ ७ ॥
गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः ।विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥ ८ ॥
घोरं च निनदं तस्य पर्जन्यनिनदोपमम् ।श्रुत्वा विदीर्येद्धृदयं देवानामपि संयुगे ॥ ९ ॥
यांश्च घोरेण रूपेण पश्येत्क्रुद्धः पिनाकधृक् ।न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः ।कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः ॥ १० ॥
प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ ।विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा ।धनुषा बाणमुत्सृज्य सघोषं विननाद च ॥ ११ ॥
ते न शर्म कुतः शान्तिं विषादं लेभिरे सुराः ।विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ॥ १२ ॥
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः ।बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः ॥ १३ ॥
आपश्चुक्षुभिरे चैव चकम्पे च वसुंधरा ।व्यद्रवन्गिरयश्चापि द्यौः पफाल च सर्वशः ॥ १४ ॥
अन्धेन तमसा लोकाः प्रावृता न चकाशिरे ।प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत ॥ १५ ॥
भृशं भीतास्ततः शान्तिं चक्रुः स्वस्त्ययनानि च ।ऋषयः सर्वभूतानामात्मनश्च हितैषिणः ॥ १६ ॥
ततः सोऽभ्यद्रवद्देवान्क्रुद्धो रौद्रपराक्रमः ।भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत् ॥ १७ ॥
पूषाणं चाभिदुद्राव परेण वपुषान्वितः ।पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ॥ १८ ॥
ततः प्रणेमुर्देवास्ते वेपमानाः स्म शंकरम् ।पुनश्च संदधे रुद्रो दीप्तं सुनिशितं शरम् ॥ १९ ॥
रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः ।ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः ॥ २० ॥
जेपुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं ततः ।संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः ॥ २१ ॥
रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन् ।भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे ॥ २२ ॥
तेन चैवातिकोपेन स यज्ञः संधितोऽभवत् ।यद्यच्चापि हतं तत्र तत्तथैव प्रदीयते ॥ २३ ॥
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि ।आयसं राजतं चैव सौवर्णमपरं तथा ॥ २४ ॥
नाशकत्तानि मघवा भेत्तुं सर्वायुधैरपि ।अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ॥ २५ ॥
तत ऊचुर्महात्मानो देवाः सर्वे समागताः ।रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ।जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद ॥ २६ ॥
स तथोक्तस्तथेत्युक्त्वा विष्णुं कृत्वा शरोत्तमम् ।शल्यमग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम् ।वेदान्कृत्वा धनुः सर्वाञ्ज्यां च सावित्रिमुत्तमाम् ॥ २७ ॥
देवान्रथवरं कृत्वा विनियुज्य च सर्वशः ।त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ॥ २८ ॥
शरेणादित्यवर्णेन कालाग्निसमतेजसा ।तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत ॥ २९ ॥
तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः ।उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्तदा ॥ ३० ॥
असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः ।सवज्रं स्तम्भयामास तं बाहुं परिघोपमम् ॥ ३१ ॥
न संबुबुधिरे चैनं देवास्तं भुवनेश्वरम् ।सप्रजापतयः सर्वे तस्मिन्मुमुहुरीश्वरे ॥ ३२ ॥
ततो ध्यात्वाथ भगवान्ब्रह्मा तममितौजसम् ।अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम् ॥ ३३ ॥
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः ।बभूव स तदा बाहुर्बलहन्तुर्यथा पुरा ॥ ३४ ॥
स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान् ।द्वारवत्यां मम गृहे चिरं कालमुपावसत् ॥ ३५ ॥
विप्रकारान्प्रयुङ्क्ते स्म सुबहून्मम वेश्मनि ।तानुदारतया चाहमक्षमं तस्य दुःसहम् ॥ ३६ ॥
स देवेन्द्रश्च वायुश्च सोऽश्विनौ स च विद्युतः ।स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ॥ ३७ ॥
स कालः सोऽन्तको मृत्युः स तमो रात्र्यहानि च ।मासार्धमासा ऋतवः संध्ये संवत्सरश्च सः ॥ ३८ ॥
स धाता स विधाता च विश्वकर्मा स सर्ववित् ।नक्षत्राणि दिशश्चैव प्रदिशोऽथ ग्रहास्तथा ।विश्वमूर्तिरमेयात्मा भगवानमितद्युतिः ॥ ३९ ॥
एकधा च द्विधा चैव बहुधा च स एव च ।शतधा सहस्रधा चैव तथा शतसहस्रधा ॥ ४० ॥
ईदृशः स महादेवो भूयश्च भगवानतः ।न हि शक्या गुणा वक्तुमपि वर्षशतैरपि ॥ ४१ ॥
« »