Click on words to see what they mean.

युधिष्ठिर उवाच ।के पूज्याः के नमस्कार्याः कथं वर्तेत केषु च ।किमाचारः कीदृशेषु पितामह न रिष्यते ॥ १ ॥
भीष्म उवाच ।ब्राह्मणानां परिभवः सादयेदपि देवताः ।ब्राह्मणानां नमस्कर्ता युधिष्ठिर न रिष्यते ॥ २ ॥
ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत् ।ते हि लोकानिमान्सर्वान्धारयन्ति मनीषिणः ॥ ३ ॥
ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः ।धनत्यागाभिरामाश्च वाक्संयमरताश्च ये ॥ ४ ॥
रमणीयाश्च भूतानां निधानं च धृतव्रताः ।प्रणेतारश्च लोकानां शास्त्राणां च यशस्विनः ॥ ५ ॥
तपो येषां धनं नित्यं वाक्चैव विपुलं बलम् ।प्रभवश्चापि धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः ॥ ६ ॥
धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेतवः ।यानुपाश्रित्य जीवन्ति प्रजाः सर्वाश्चतुर्विधाः ॥ ७ ॥
पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः ।पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा ॥ ८ ॥
धुरि ये नावसीदन्ति विषमे सद्गवा इव ।पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः ॥ ९ ॥
भोजनादेव ये लोकांस्त्रायन्ते महतो भयात् ।दीपाः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि ॥ १० ॥
सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः ।गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तकाः ॥ ११ ॥
आदिमध्यावसानानां ज्ञातारश्छिन्नसंशयाः ।परावरविशेषज्ञा गन्तारः परमां गतिम् ॥ १२ ॥
विमुक्ता धुतपाप्मानो निर्द्वंद्वा निष्परिग्रहाः ।मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः ॥ १३ ॥
चन्दने मलपङ्के च भोजनेऽभोजने समाः ।समं येषां दुकूलं च शाणक्षौमाजिनानि च ॥ १४ ॥
तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि ।शोषयेयुश्च गात्राणि स्वाध्यायैः संयतेन्द्रियाः ॥ १५ ॥
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् ।लोकानन्यान्सृजेयुश्च लोकपालांश्च कोपिताः ॥ १६ ॥
अपेयः सागरो येषामभिशापान्महात्मनाम् ।येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति ॥ १७ ॥
देवानामपि ये देवाः कारणं कारणस्य च ।प्रमाणस्य प्रमाणं च कस्तानभिभवेद्बुधः ॥ १८ ॥
येषां वृद्धश्च बालश्च सर्वः संमानमर्हति ।तपोविद्याविशेषात्तु मानयन्ति परस्परम् ॥ १९ ॥
अविद्वान्ब्राह्मणो देवः पात्रं वै पावनं महत् ।विद्वान्भूयस्तरो देवः पूर्णसागरसंनिभः ॥ २० ॥
अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् ।प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥ २१ ॥
श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति ।हविर्यज्ञेषु च वहन्भूय एवाभिशोभते ॥ २२ ॥
एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु ।सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम् ॥ २३ ॥
« »