Click on words to see what they mean.

युधिष्ठिर उवाच ।कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप ।कं वा कर्मोदयं मत्वा तानर्चसि महामते ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।पवनस्य च संवादमर्जुनस्य च भारत ॥ २ ॥
सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः ।अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः ॥ ३ ॥
स तु रत्नाकरवतीं सद्वीपां सागराम्बराम् ।शशास सर्वां पृथिवीं हैहयः सत्यविक्रमः ॥ ४ ॥
स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कारणे ।क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च ॥ ५ ॥
आराधयामास च तं कृतवीर्यात्मजो मुनिम् ।न्यमन्त्रयत संहृष्टः स द्विजश्च वरैस्त्रिभिः ॥ ६ ॥
स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत् ।सहस्रबाहुर्भूयां वै चमूमध्ये गृहेऽन्यथा ॥ ७ ॥
मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे ।विक्रमेण महीं कृत्स्नां जयेयं विपुलव्रत ।तां च धर्मेण संप्राप्य पालयेयमतन्द्रितः ॥ ८ ॥
चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम ।तं ममानुग्रहकृते दातुमर्हस्यनिन्दित ।अनुशासन्तु मां सन्तो मिथ्यावृत्तं तदाश्रयम् ॥ ९ ॥
इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम् ।एवं समभवंस्तस्य वरास्ते दीप्ततेजसः ॥ १० ॥
ततः स रथमास्थाय ज्वलनार्कसमद्युतिः ।अब्रवीद्वीर्यसंमोहात्को न्वस्ति सदृशो मया ।वीर्यधैर्ययशःशौचैर्विक्रमेणौजसापि वा ॥ ११ ॥
तद्वाक्यान्ते चान्तरिक्षे वागुवाचाशरीरिणी ।न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम् ।सहितो ब्राह्मणेनेह क्षत्रियो रक्षति प्रजाः ॥ १२ ॥
अर्जुन उवाच ।कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये ।कर्मणा मनसा वाचा न मत्तोऽस्ति वरो द्विजः ॥ १३ ॥
पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः ।त्वयोक्तौ यौ तु तौ हेतू विशेषस्त्वत्र दृश्यते ॥ १४ ॥
ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम् ।श्रितान्ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि ॥ १५ ॥
क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम् ।क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः ॥ १६ ॥
सर्वभूतप्रधानांस्तान्भैक्षवृत्तीनहं सदा ।आत्मसंभावितान्विप्रान्स्थापयाम्यात्मनो वशे ॥ १७ ॥
कथितं ह्यनया सत्यं गायत्र्या कन्यया दिवि ।विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः ॥ १८ ॥
न च मां च्यावयेद्राष्ट्रात्त्रिषु लोकेषु कश्चन ।देवो वा मानुषो वापि तस्माज्ज्येष्ठो द्विजादहम् ॥ १९ ॥
अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम् ।न हि मे संयुगे कश्चित्सोढुमुत्सहते बलम् ॥ २० ॥
अर्जुनस्य वचः श्रुत्वा वित्रस्ताभून्निशाचरी ।अथैनमन्तरिक्षस्थस्ततो वायुरभाषत ॥ २१ ॥
त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु ।एतेषां कुर्वतः पापं राष्ट्रक्षोभो हि ते भवेत् ॥ २२ ॥
अथ वा त्वां महीपाल शमयिष्यन्ति वै द्विजाः ।निरसिष्यन्ति वा राष्ट्राद्धतोत्साहं महाबलाः ॥ २३ ॥
तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः ।वायुर्वै देवदूतोऽस्मि हितं त्वां प्रब्रवीम्यहम् ॥ २४ ॥
अर्जुन उवाच ।अहो त्वयाद्य विप्रेषु भक्तिरागः प्रदर्शितः ।यादृशं पृथिवी भूतं तादृशं ब्रूहि वै द्विजम् ॥ २५ ॥
वायोर्वा सदृशं किंचिद्ब्रूहि त्वं ब्राह्मणोत्तमम् ।अपां वै सदृशं ब्रूहि सूर्यस्य नभसोऽपि वा ॥ २६ ॥
« »