Click on words to see what they mean.

युधिष्ठिर उवाच ।पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।आगमैर्बहुभिः स्फीतो भवान्नः प्रथितः कुले ॥ १ ॥
त्वत्तो धर्मार्थसंयुक्तमायत्यां च सुखोदयम् ।आश्चर्यभूतं लोकस्य श्रोतुमिच्छाम्यरिंदम ॥ २ ॥
अयं च कालः संप्राप्तो दुर्लभज्ञातिबान्धवः ।शास्ता च न हि नः कश्चित्त्वामृते भरतर्षभ ॥ ३ ॥
यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ ।वक्तुमर्हसि नः प्रश्नं यत्त्वां पृच्छामि पार्थिव ॥ ४ ॥
अयं नारायणः श्रीमान्सर्वपार्थिवसंमतः ।भवन्तं बहुमानेन प्रश्रयेण च सेवते ॥ ५ ॥
अस्य चैव समक्षं त्वं पार्थिवानां च सर्वशः ।भ्रातॄणां च प्रियार्थं मे स्नेहाद्भाषितुमर्हसि ॥ ६ ॥
वैशंपायन उवाच ।तस्य तद्वचनं श्रुत्वा स्नेहादागतसंभ्रमः ।भीष्मो भागीरथीपुत्र इदं वचनमब्रवीत् ॥ ७ ॥
हन्त ते कथयिष्यामि कथामतिमनोरमाम् ।अस्य विष्णोः पुरा राजन्प्रभावोऽयं मया श्रुतः ॥ ८ ॥
यश्च गोवृषभाङ्कस्य प्रभावस्तं च मे शृणु ।रुद्राण्याः संशयो यश्च दंपत्योस्तं च मे शृणु ॥ ९ ॥
व्रतं चचार धर्मात्मा कृष्णो द्वादशवार्षिकम् ।दीक्षितं चागतौ द्रष्टुमुभौ नारदपर्वतौ ॥ १० ॥
कृष्णद्वैपायनश्चैव धौम्यश्च जपतां वरः ।देवलः काश्यपश्चैव हस्तिकाश्यप एव च ॥ ११ ॥
अपरे ऋषयः सन्तो दीक्षादमसमन्विताः ।शिष्यैरनुगताः सर्वे देवकल्पैस्तपोधनैः ॥ १२ ॥
तेषामतिथिसत्कारमर्चनीयं कुलोचितम् ।देवकीतनयः प्रीतो देवकल्पमकल्पयत् ॥ १३ ॥
हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च ।उपोपविविशुः प्रीता विष्टरेषु महर्षयः ॥ १४ ॥
कथाश्चक्रुस्ततस्ते तु मधुरा धर्मसंहिताः ।राजर्षीणां सुराणां च ये वसन्ति तपोधनाः ॥ १५ ॥
ततो नारायणं तेजो व्रतचर्येन्धनोत्थितम् ।वक्त्रान्निःसृत्य कृष्णस्य वह्निरद्भुतकर्मणः ॥ १६ ॥
सोऽग्निर्ददाह तं शैलं सद्रुमं सलताक्षुपम् ।सपक्षिमृगसंघातं सश्वापदसरीसृपम् ॥ १७ ॥
मृगैश्च विविधाकारैर्हाहाभूतमचेतनम् ।शिखरं तस्य शैलस्य मथितं दीप्तदर्शनम् ॥ १८ ॥
स तु वह्निर्महाज्वालो दग्ध्वा सर्वमशेषतः ।विष्णोः समीपमागम्य पादौ शिष्यवदस्पृशत् ॥ १९ ॥
ततो विष्णुर्वनं दृष्ट्वा निर्दग्धमरिकर्शनः ।सौम्यैर्दृष्टिनिपातैस्तत्पुनः प्रकृतिमानयत् ॥ २० ॥
तथैव स गिरिर्भूयः प्रपुष्पितलताद्रुमः ।सपक्षिगणसंघुष्टः सश्वापदसरीसृपः ॥ २१ ॥
तदद्भुतमचिन्त्यं च दृष्ट्वा मुनिगणस्तदा ।विस्मितो हृष्टलोमा च बभूवास्राविलेक्षणः ॥ २२ ॥
ततो नारायणो दृष्ट्वा तानृषीन्विस्मयान्वितान् ।प्रश्रितं मधुरं स्निग्धं पप्रच्छ वदतां वरः ॥ २३ ॥
किमस्य ऋषिपूगस्य त्यक्तसङ्गस्य नित्यशः ।निर्ममस्यागमवतो विस्मयः समुपागतः ॥ २४ ॥
एतं मे संशयं सर्वं याथातथ्यमनिन्दिताः ।ऋषयो वक्तुमर्हन्ति निश्चितार्थं तपोधनाः ॥ २५ ॥
ऋषय ऊचुः ।भवान्विसृजते लोकान्भवान्संहरते पुनः ।भवाञ्शीतं भवानुष्णं भवानेव प्रवर्षति ॥ २६ ॥
पृथिव्यां यानि भूतानि स्थावराणि चराणि च ।तेषां पिता त्वं माता च प्रभुः प्रभव एव च ॥ २७ ॥
एतन्नो विस्मयकरं प्रशंस मधुसूदन ।त्वमेवार्हसि कल्याण वक्तुं वह्नेर्विनिर्गमम् ॥ २८ ॥
ततो विगतसंत्रासा वयमप्यरिकर्शन ।यच्छ्रुतं यच्च दृष्टं नस्तत्प्रवक्ष्यामहे हरे ॥ २९ ॥
वासुदेव उवाच ।एतत्तद्वैष्णवं तेजो मम वक्त्राद्विनिःसृतम् ।कृष्णवर्त्मा युगान्ताभो येनायं मथितो गिरिः ॥ ३० ॥
ऋषयश्चार्तिमापन्ना जितक्रोधा जितेन्द्रियाः ।भवन्तो व्यथिताश्चासन्देवकल्पास्तपोधनाः ॥ ३१ ॥
व्रतचर्यापरीतस्य तपस्विव्रतसेवया ।मम वह्निः समुद्भूतो न वै व्यथितुमर्हथ ॥ ३२ ॥
व्रतं चर्तुमिहायातस्त्वहं गिरिमिमं शुभम् ।पुत्रं चात्मसमं वीर्ये तपसा स्रष्टुमागतः ॥ ३३ ॥
ततो ममात्मा यो देहे सोऽग्निर्भूत्वा विनिःसृतः ।गतश्च वरदं द्रष्टुं सर्वलोकपितामहम् ॥ ३४ ॥
तेन चात्मानुशिष्टो मे पुत्रत्वे मुनिसत्तमाः ।तेजसोऽर्धेन पुत्रस्ते भवितेति वृषध्वजः ॥ ३५ ॥
सोऽयं वह्निरुपागम्य पादमूले ममान्तिकम् ।शिष्यवत्परिचर्याथ शान्तः प्रकृतिमागतः ॥ ३६ ॥
एतदस्य रहस्यं वः पद्मनाभस्य धीमतः ।मया प्रेम्णा समाख्यातं न भीः कार्या तपोधनाः ॥ ३७ ॥
सर्वत्र गतिरव्यग्रा भवतां दीर्घदर्शनाः ।तपस्विव्रतसंदीप्ता ज्ञानविज्ञानशोभिताः ॥ ३८ ॥
यच्छ्रुतं यच्च वो दृष्टं दिवि वा यदि वा भुवि ।आश्चर्यं परमं किंचित्तद्भवन्तो ब्रुवन्तु मे ॥ ३९ ॥
तस्यामृतनिकाशस्य वाङ्मधोरस्ति मे स्पृहा ।भवद्भिः कथितस्येह तपोवननिवासिभिः ॥ ४० ॥
यद्यप्यहमदृष्टं वा दिव्यमद्भुतदर्शनम् ।दिवि वा भुवि वा किंचित्पश्याम्यमलदर्शनाः ॥ ४१ ॥
प्रकृतिः सा मम परा न क्वचित्प्रतिहन्यते ।न चात्मगतमैश्वर्यमाश्चर्यं प्रतिभाति मे ॥ ४२ ॥
श्रद्धेयः कथितो ह्यर्थः सज्जनश्रवणं गतः ।चिरं तिष्ठति मेदिन्यां शैले लेख्यमिवार्पितम् ॥ ४३ ॥
तदहं सज्जनमुखान्निःसृतं तत्समागमे ।कथयिष्याम्यहरहर्बुद्धिदीपकरं नृणाम् ॥ ४४ ॥
ततो मुनिगणाः सर्वे प्रश्रिताः कृष्णसंनिधौ ।नेत्रैः पद्मदलप्रख्यैरपश्यन्त जनार्दनम् ॥ ४५ ॥
वर्धयन्तस्तथैवान्ये पूजयन्तस्तथापरे ।वाग्भिरृग्भूषितार्थाभिः स्तुवन्तो मधुसूदनम् ॥ ४६ ॥
ततो मुनिगणाः सर्वे नारदं देवदर्शनम् ।तदा नियोजयामासुर्वचने वाक्यकोविदम् ॥ ४७ ॥
यदाश्चर्यमचिन्त्यं च गिरौ हिमवति प्रभो ।अनुभूतं मुनिगणैस्तीर्थयात्रापरायणैः ॥ ४८ ॥
तद्भवानृषिसंघस्य हितार्थं सर्वचोदितः ।यथादृष्टं हृषीकेशे सर्वमाख्यातुमर्हति ॥ ४९ ॥
एवमुक्तः स मुनिभिर्नारदो भगवानृषिः ।कथयामास देवर्षिः पूर्ववृत्तां कथां शुभाम् ॥ ५० ॥
« »