Click on words to see what they mean.

भीष्म उवाच ।ततो नारायणसुहृन्नारदो भगवानृषिः ।शंकरस्योमया सार्धं संवादं प्रत्यभाषत ॥ १ ॥
तपश्चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः ।पुण्ये गिरौ हिमवति सिद्धचारणसेविते ॥ २ ॥
नानौषधियुते रम्ये नानापुष्पसमाकुले ।अप्सरोगणसंकीर्णे भूतसंघनिषेविते ॥ ३ ॥
तत्र देवो मुदा युक्तो भूतसंघशतैर्वृतः ।नानारूपैर्विरूपैश्च दिव्यैरद्भुतदर्शनैः ॥ ४ ॥
सिंहव्याघ्रगजप्रख्यैः सर्वजातिसमन्वितैः ।क्रोष्टुकद्वीपिवदनैरृक्षर्षभमुखैस्तथा ॥ ५ ॥
उलूकवदनैर्भीमैः श्येनभासमुखैस्तथा ।नानावर्णमृगप्रख्यैः सर्वजातिसमन्वयैः ।किंनरैर्देवगन्धर्वैर्यक्षभूतगणैस्तथा ॥ ६ ॥
दिव्यपुष्पसमाकीर्णं दिव्यमालाविभूषितम् ।दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् ।तत्सदो वृषभाङ्कस्य दिव्यवादित्रनादितम् ॥ ७ ॥
मृदङ्गपणवोद्घुष्टं शङ्खभेरीनिनादितम् ।नृत्यद्भिर्भूतसंघैश्च बर्हिणैश्च समन्ततः ॥ ८ ॥
प्रनृत्ताप्सरसं दिव्यं दिव्यस्त्रीगणसेवितम् ।दृष्टिकान्तमनिर्देश्यं दिव्यमद्भुतदर्शनम् ॥ ९ ॥
स गिरिस्तपसा तस्य भूतेशस्य व्यरोचत ॥ १० ॥
स्वाध्यायपरमैर्विप्रैर्ब्रह्मघोषैर्विनादितः ।षट्पदैरुपगीतैश्च माधवाप्रतिमो गिरिः ॥ ११ ॥
तं महोत्सवसंकाशं भीमरूपधरं पुनः ।दृष्ट्वा मुनिगणस्यासीत्परा प्रीतिर्जनार्दन ॥ १२ ॥
मुनयश्च महाभागाः सिद्धाश्चैवोर्ध्वरेतसः ।मरुतो वसवः साध्या विश्वेदेवाः सनातनाः ॥ १३ ॥
यक्षा नागाः पिशाचाश्च लोकपाला हुताशनाः ।भावाश्च सर्वे न्यग्भूतास्तत्रैवासन्समागताः ॥ १४ ॥
ऋतवः सर्वपुष्पैश्च व्यकिरन्त महाद्भुतैः ।ओषध्यो ज्वलमानाश्च द्योतयन्ति स्म तद्वनम् ॥ १५ ॥
विहगाश्च मुदा युक्ताः प्रानृत्यन्व्यनदंश्च ह ।गिरिपृष्ठेषु रम्येषु व्याहरन्तो जनप्रियाः ॥ १६ ॥
तत्र देवो गिरितटे दिव्यधातुविभूषिते ।पर्यङ्क इव विभ्राजन्नुपविष्टो महामनाः ॥ १७ ॥
व्याघ्रचर्माम्बरधरः सिंहचर्मोत्तरच्छदः ।व्यालयज्ञोपवीती च लोहिताङ्गदभूषणः ॥ १८ ॥
हरिश्मश्रुर्जटी भीमो भयकर्ता सुरद्विषाम् ।अभयः सर्वभूतानां भक्तानां वृषभध्वजः ॥ १९ ॥
दृष्ट्वा तमृषयः सर्वे शिरोभिरवनीं गताः ।विमुक्ताः सर्वपापेभ्यः क्षान्ता विगतकल्मषाः ॥ २० ॥
तस्य भूतपतेः स्थानं भीमरूपधरं बभौ ।अप्रधृष्यतरं चैव महोरगसमाकुलम् ॥ २१ ॥
क्षणेनैवाभवत्सर्वमद्भुतं मधुसूदन ।तत्सदो वृषभाङ्कस्य भीमरूपधरं बभौ ॥ २२ ॥
तमभ्ययाच्छैलसुता भूतस्त्रीगणसंवृता ।हरतुल्याम्बरधरा समानव्रतचारिणी ॥ २३ ॥
बिभ्रती कलशं रौक्मं सर्वतीर्थजलोद्भवम् ।गिरिस्रवाभिः पुण्याभिः सर्वतोऽनुगता शुभा ॥ २४ ॥
पुष्पवृष्ट्याभिवर्षन्ती गन्धैर्बहुविधैस्तथा ।सेवन्ती हिमवत्पार्श्वं हरपार्श्वमुपागमत् ॥ २५ ॥
ततः स्मयन्ती पाणिभ्यां नर्मार्थं चारुदर्शना ।हरनेत्रे शुभे देवी सहसा सा समावृणोत् ॥ २६ ॥
संवृताभ्यां तु नेत्राभ्यां तमोभूतमचेतनम् ।निर्होमं निर्वषट्कारं तत्सदः सहसाभवत् ॥ २७ ॥
जनश्च विमनाः सर्वो भयत्राससमन्वितः ।निमीलिते भूतपतौ नष्टसूर्य इवाभवत् ॥ २८ ॥
ततो वितिमिरो लोकः क्षणेन समपद्यत ।ज्वाला च महती दीप्ता ललाटात्तस्य निःसृता ॥ २९ ॥
तृतीयं चास्य संभूतं नेत्रमादित्यसंनिभम् ।युगान्तसदृशं दीप्तं येनासौ मथितो गिरिः ॥ ३० ॥
ततो गिरिसुता दृष्ट्वा दीप्ताग्निसदृशेक्षणम् ।हरं प्रणम्य शिरसा ददर्शायतलोचना ॥ ३१ ॥
दह्यमाने वने तस्मिन्सशालसरलद्रुमे ।सचन्दनवने रम्ये दिव्यौषधिविदीपिते ॥ ३२ ॥
मृगयूथैर्द्रुतैर्भीतैर्हरपार्श्वमुपागतैः ।शरणं चाप्यविन्दद्भिस्तत्सदः संकुलं बभौ ॥ ३३ ॥
ततो नभःस्पृशज्वालो विद्युल्लोलार्चिरुज्ज्वलः ।द्वादशादित्यसदृशो युगान्ताग्निरिवापरः ॥ ३४ ॥
क्षणेन तेन दग्धः स हिमवानभवन्नगः ।सधातुशिखराभोगो दीनदग्धवनौषधिः ॥ ३५ ॥
तं दृष्ट्वा मथितं शैलं शैलराजसुता ततः ।भगवन्तं प्रपन्ना सा साञ्जलिप्रग्रहा स्थिता ॥ ३६ ॥
उमां शर्वस्तदा दृष्ट्वा स्त्रीभावागतमार्दवाम् ।पितुर्दैन्यमनिच्छन्तीं प्रीत्यापश्यत्ततो गिरिम् ॥ ३७ ॥
ततोऽभवत्पुनः सर्वः प्रकृतिस्थः सुदर्शनः ।प्रहृष्टविहगश्चैव प्रपुष्पितवनद्रुमः ॥ ३८ ॥
प्रकृतिस्थं गिरिं दृष्ट्वा प्रीता देवी महेश्वरम् ।उवाच सर्वभूतानां पतिं पतिमनिन्दिता ॥ ३९ ॥
भगवन्सर्वभूतेश शूलपाणे महाव्रत ।संशयो मे महाञ्जातस्तं मे व्याख्यातुमर्हसि ॥ ४० ॥
किमर्थं ते ललाटे वै तृतीयं नेत्रमुत्थितम् ।किमर्थं च गिरिर्दग्धः सपक्षिगणकाननः ॥ ४१ ॥
किमर्थं च पुनर्देव प्रकृतिस्थः क्षणात्कृतः ।तथैव द्रुमसंछन्नः कृतोऽयं ते महेश्वर ॥ ४२ ॥
महेश्वर उवाच ।नेत्रे मे संवृते देवि त्वया बाल्यादनिन्दिते ।नष्टालोकस्ततो लोकः क्षणेन समपद्यत ॥ ४३ ॥
नष्टादित्ये तथा लोके तमोभूते नगात्मजे ।तृतीयं लोचनं दीप्तं सृष्टं ते रक्षता प्रजाः ॥ ४४ ॥
तस्य चाक्ष्णो महत्तेजो येनायं मथितो गिरिः ।त्वत्प्रियार्थं च मे देवि प्रकृतिस्थः क्षणात्कृतः ॥ ४५ ॥
उमोवाच ।भगवन्केन ते वक्त्रं चन्द्रवत्प्रियदर्शनम् ।पूर्वं तथैव श्रीकान्तमुत्तरं पश्चिमं तथा ॥ ४६ ॥
दक्षिणं च मुखं रौद्रं केनोर्ध्वं कपिला जटाः ।केन कण्ठश्च ते नीलो बर्हिबर्हनिभः कृतः ॥ ४७ ॥
हस्ते चैतत्पिनाकं ते सततं केन तिष्ठति ।जटिलो ब्रह्मचारी च किमर्थमसि नित्यदा ॥ ४८ ॥
एतं मे संशयं सर्वं वद भूतपतेऽनघ ।सधर्मचारिणी चाहं भक्ता चेति वृषध्वज ॥ ४९ ॥
एवमुक्तः स भगवाञ्शैलपुत्र्या पिनाकधृक् ।तस्या वृत्त्या च बुद्ध्या च प्रीतिमानभवत्प्रभुः ॥ ५० ॥
ततस्तामब्रवीद्देवः सुभगे श्रूयतामिति ।हेतुभिर्यैर्ममैतानि रूपाणि रुचिरानने ॥ ५१ ॥
« »