Click on words to see what they mean.

युधिष्ठिर उवाच ।शतायुरुक्तः पुरुषः शतवीर्यश्च वैदिके ।कस्मान्म्रियन्ते पुरुषा बाला अपि पितामह ॥ १ ॥
आयुष्मान्केन भवति स्वल्पायुर्वापि मानवः ।केन वा लभते कीर्तिं केन वा लभते श्रियम् ॥ २ ॥
तपसा ब्रह्मचर्येण जपैर्होमैस्तथौषधैः ।जन्मना यदि वाचारात्तन्मे ब्रूहि पितामह ॥ ३ ॥
भीष्म उवाच ।अत्र ते वर्तयिष्यामि यन्मां त्वमनुपृच्छसि ।अल्पायुर्येन भवति दीर्घायुर्वापि मानवः ॥ ४ ॥
येन वा लभते कीर्तिं येन वा लभते श्रियम् ।यथा च वर्तन्पुरुषः श्रेयसा संप्रयुज्यते ॥ ५ ॥
आचाराल्लभते ह्यायुराचाराल्लभते श्रियम् ।आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च ॥ ६ ॥
दुराचारो हि पुरुषो नेहायुर्विन्दते महत् ।त्रसन्ति यस्माद्भूतानि तथा परिभवन्ति च ॥ ७ ॥
तस्मात्कुर्यादिहाचारं य इच्छेद्भूतिमात्मनः ।अपि पापशरीरस्य आचारो हन्त्यलक्षणम् ॥ ८ ॥
आचारलक्षणो धर्मः सन्तश्चाचारलक्षणाः ।साधूनां च यथा वृत्तमेतदाचारलक्षणम् ॥ ९ ॥
अप्यदृष्टं श्रुतं वापि पुरुषं धर्मचारिणम् ।भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् ॥ १० ॥
ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः ।अधर्मज्ञा दुराचारास्ते भवन्ति गतायुषः ॥ ११ ॥
विशीला भिन्नमर्यादा नित्यं संकीर्णमैथुनाः ।अल्पायुषो भवन्तीह नरा निरयगामिनः ॥ १२ ॥
सर्वलक्षणहीनोऽपि समुदाचारवान्नरः ।श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ १३ ॥
अक्रोधनः सत्यवादी भूतानामविहिंसकः ।अनसूयुरजिह्मश्च शतं वर्षाणि जीवति ॥ १४ ॥
लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः ।नित्योच्छिष्टः संकुसुको नेहायुर्विन्दते महत् ॥ १५ ॥
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् ।उत्थायाचम्य तिष्ठेत पूर्वां संध्यां कृताञ्जलिः ॥ १६ ॥
एवमेवापरां संध्यां समुपासीत वाग्यतः ।नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन ॥ १७ ॥
ऋषयो दीर्घसंध्यत्वाद्दीर्घमायुरवाप्नुवन् ।तस्मात्तिष्ठेत्सदा पूर्वां पश्चिमां चैव वाग्यतः ॥ १८ ॥
ये च पूर्वामुपासन्ते द्विजाः संध्यां न पश्चिमाम् ।सर्वांस्तान्धार्मिको राजा शूद्रकर्माणि कारयेत् ॥ १९ ॥
परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् ।न हीदृशमनायुष्यं लोके किंचन विद्यते ।यादृशं पुरुषस्येह परदारोपसेवनम् ॥ २० ॥
प्रसाधनं च केशानामञ्जनं दन्तधावनम् ।पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ॥ २१ ॥
पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत्कदाचन ।उदक्यया च संभाषां न कुर्वीत कदाचन ॥ २२ ॥
नोत्सृजेत पुरीषं च क्षेत्रे ग्रामस्य चान्तिके ।उभे मूत्रपुरीषे तु नाप्सु कुर्यात्कदाचन ॥ २३ ॥
प्राङ्मुखो नित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन् ।प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत् ॥ २४ ॥
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।धन्यं पश्चान्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः ॥ २५ ॥
नाधितिष्ठेत्तुषाञ्जातु केशभस्मकपालिकाः ।अन्यस्य चाप्युपस्थानं दूरतः परिवर्जयेत् ॥ २६ ॥
शान्तिहोमांश्च कुर्वीत सावित्राणि च कारयेत् ।निषण्णश्चापि खादेत न तु गच्छन्कथंचन ॥ २७ ॥
मूत्रं न तिष्ठता कार्यं न भस्मनि न गोव्रजे ॥ २८ ॥
आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् ।आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम् ॥ २९ ॥
त्रीणि तेजांसि नोच्छिष्ट आलभेत कदाचन ।अग्निं गां ब्राह्मणं चैव तथास्यायुर्न रिष्यते ॥ ३० ॥
त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन ।सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः ॥ ३१ ॥
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ ३२ ॥
अभिवादयेत वृद्धांश्च आसनं चैव दापयेत् ।कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात् ॥ ३३ ॥
न चासीतासने भिन्ने भिन्नं कांस्यं च वर्जयेत् ।नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुमर्हति ।स्वप्तव्यं नैव नग्नेन न चोच्छिष्टोऽपि संविशेत् ॥ ३४ ॥
उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः ।केशग्रहान्प्रहारांश्च शिरस्येतान्विवर्जयेत् ॥ ३५ ॥
न पाणिभ्यामुभाभ्यां च कण्डूयेज्जातु वै शिरः ।न चाभीक्ष्णं शिरः स्नायात्तथास्यायुर्न रिष्यते ॥ ३६ ॥
शिरःस्नातश्च तैलेन नाङ्गं किंचिदुपस्पृशेत् ।तिलपिष्टं न चाश्नीयात्तथायुर्विन्दते महत् ॥ ३७ ॥
नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन ।वाते च पूतिगन्धे च मनसापि न चिन्तयेत् ॥ ३८ ॥
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः ।आयुरस्य निकृन्तामि प्रजामस्याददे तथा ॥ ३९ ॥
य उच्छिष्टः प्रवदति स्वाध्यायं चाधिगच्छति ।यश्चानध्यायकालेऽपि मोहादभ्यस्यति द्विजः ।तस्माद्युक्तोऽप्यनध्याये नाधीयीत कदाचन ॥ ४० ॥
प्रत्यादित्यं प्रत्यनिलं प्रति गां च प्रति द्विजान् ।ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः ॥ ४१ ॥
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः ।दक्षिणाभिमुखो रात्रौ तथास्यायुर्न रिष्यते ॥ ४२ ॥
त्रीन्कृशान्नावजानीयाद्दीर्घमायुर्जिजीविषुः ।ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः ॥ ४३ ॥
दहत्याशीविषः क्रुद्धो यावत्पश्यति चक्षुषा ।क्षत्रियोऽपि दहेत्क्रुद्धो यावत्स्पृशति तेजसा ॥ ४४ ॥
ब्राह्मणस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च ।तस्मादेतत्त्रयं यत्नादुपसेवेत पण्डितः ॥ ४५ ॥
गुरुणा वैरनिर्बन्धो न कर्तव्यः कदाचन ।अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर ॥ ४६ ॥
सम्यङ्मिथ्याप्रवृत्तेऽपि वर्तितव्यं गुराविह ।गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः ॥ ४७ ॥
दूरादावसथान्मूत्रं दूरात्पादावसेचनम् ।उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा ॥ ४८ ॥
नातिकल्पं नातिसायं न च मध्यंदिने स्थिते ।नाज्ञातैः सह गच्छेत नैको न वृषलैः सह ॥ ४९ ॥
पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च ।वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ॥ ५० ॥
प्रदक्षिणं च कुर्वीत परिज्ञातान्वनस्पतीन् ।चतुष्पथान्प्रकुर्वीत सर्वानेव प्रदक्षिणान् ॥ ५१ ॥
मध्यंदिने निशाकाले मध्यरात्रे च सर्वदा ।चतुष्पथान्न सेवेत उभे संध्ये तथैव च ॥ ५२ ॥
उपानहौ च वस्त्रं च धृतमन्यैर्न धारयेत् ।ब्रह्मचारी च नित्यं स्यात्पादं पादेन नाक्रमेत् ॥ ५३ ॥
अमावास्यां पौर्णमास्यां चतुर्दश्यां च सर्वशः ।अष्टम्यां सर्वपक्षाणां ब्रह्मचारी सदा भवेत् ॥ ५४ ॥
वृथा मांसं न खादेत पृष्ठमांसं तथैव च ।आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत् ॥ ५५ ॥
नारुंतुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत ।ययास्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलोक्याम् ॥ ५६ ॥
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि ।परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥ ५७ ॥
रोहते सायकैर्विद्धं वनं परशुना हतम् ।वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ ५८ ॥
हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् ।रूपद्रविणहीनांश्च सत्त्वहीनांश्च नाक्षिपेत् ॥ ५९ ॥
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् ।द्वेषस्तम्भाभिमानांश्च तैक्ष्ण्यं च परिवर्जयेत् ॥ ६० ॥
परस्य दण्डं नोद्यच्छेत्क्रोद्धो नैनं निपातयेत् ।अन्यत्र पुत्राच्छिष्याद्वा शिक्षार्थं ताडनं स्मृतम् ॥ ६१ ॥
न ब्राह्मणान्परिवदेन्नक्षत्राणि न निर्दिशेत् ।तिथिं पक्षस्य न ब्रूयात्तथास्यायुर्न रिष्यते ॥ ६२ ॥
कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः ।पादप्रक्षालनं कुर्यात्स्वाध्याये भोजने तथा ॥ ६३ ॥
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् ।अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ ६४ ॥
संयावं कृसरं मांसं शष्कुली पायसं तथा ।आत्मार्थं न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत् ॥ ६५ ॥
नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा ।वाग्यतो दन्तकाष्ठं च नित्यमेव समाचरेत् ।न चाभ्युदितशायी स्यात्प्रायश्चित्ती तथा भवेत् ॥ ६६ ॥
मातापितरमुत्थाय पूर्वमेवाभिवादयेत् ।आचार्यमथ वाप्येनं तथायुर्विन्दते महत् ॥ ६७ ॥
वर्जयेद्दन्तकाष्ठानि वर्जनीयानि नित्यशः ।भक्षयेच्छास्त्रदृष्टानि पर्वस्वपि च वर्जयेत् ॥ ६८ ॥
उदङ्मुखश्च सततं शौचं कुर्यात्समाहितः ॥ ६९ ॥
अकृत्वा देवतापूजां नान्यं गच्छेत्कदाचन ।अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम् ॥ ७० ॥
अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः ।न चाज्ञातां स्त्रियं गच्छेद्गर्भिणीं वा कदाचन ॥ ७१ ॥
उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न च ।प्राक्शिरास्तु स्वपेद्विद्वानथ वा दक्षिणाशिराः ॥ ७२ ॥
न भग्ने नावदीर्णे वा शयने प्रस्वपेत च ।नान्तर्धाने न संयुक्ते न च तिर्यक्कदाचन ॥ ७३ ॥
न नग्नः कर्हिचित्स्नायान्न निशायां कदाचन ।स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः ॥ ७४ ॥
न चानुलिम्पेदस्नात्वा स्नात्वा वासो न निर्धुनेत् ।आर्द्र एव तु वासांसि नित्यं सेवेत मानवः ।स्रजश्च नावकर्षेत न बहिर्धारयेत च ॥ ७५ ॥
रक्तमाल्यं न धार्यं स्याच्छुक्लं धार्यं तु पण्डितैः ।वर्जयित्वा तु कमलं तथा कुवलयं विभो ॥ ७६ ॥
रक्तं शिरसि धार्यं तु तथा वानेयमित्यपि ।काञ्चनी चैव या माला न सा दुष्यति कर्हिचित् ।स्नातस्य वर्णकं नित्यमार्द्रं दद्याद्विशां पते ॥ ७७ ॥
विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः ।तथा नान्यधृतं धार्यं न चापदशमेव च ॥ ७८ ॥
अन्यदेव भवेद्वासः शयनीये नरोत्तम ।अन्यद्रथ्यासु देवानामर्चायामन्यदेव हि ॥ ७९ ॥
प्रियङ्गुचन्दनाभ्यां च बिल्वेन तगरेण च ।पृथगेवानुलिम्पेत केसरेण च बुद्धिमान् ॥ ८० ॥
उपवासं च कुर्वीत स्नातः शुचिरलंकृतः ।पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत् ॥ ८१ ॥
नालीढया परिहतं भक्षयीत कदाचन ।तथा नोद्धृतसाराणि प्रेक्षतां नाप्रदाय च ॥ ८२ ॥
न संनिकृष्टो मेधावी नाशुचिर्न च सत्सु च ।प्रतिषिद्धान्न धर्मेषु भक्षान्भुञ्जीत पृष्ठतः ॥ ८३ ॥
पिप्पलं च वटं चैव शणशाकं तथैव च ।उदुम्बरं न खादेच्च भवार्थी पुरुषोत्तमः ॥ ८४ ॥
आजं गव्यं च यन्मांसं मायूरं चैव वर्जयेत् ।वर्जयेच्छुष्कमांसं च तथा पर्युषितं च यत् ॥ ८५ ॥
न पाणौ लवणं विद्वान्प्राश्नीयान्न च रात्रिषु ।दधिसक्तून्न भुञ्जीत वृथामांसं च वर्जयेत् ॥ ८६ ॥
वालेन तु न भुञ्जीत परश्राद्धं तथैव च ।सायं प्रातश्च भुञ्जीत नान्तराले समाहितः ॥ ८७ ॥
वाग्यतो नैकवस्त्रश्च नासंविष्टः कदाचन ।भूमौ सदैव नाश्नीयान्नानासीनो न शब्दवत् ॥ ८८ ॥
तोयपूर्वं प्रदायान्नमतिथिभ्यो विशां पते ।पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः ॥ ८९ ॥
समानमेकपङ्क्त्यां तु भोज्यमन्नं नरेश्वर ।विषं हालाहलं भुङ्क्ते योऽप्रदाय सुहृज्जने ॥ ९० ॥
पानीयं पायसं सर्पिर्दधिसक्तुमधून्यपि ।निरस्य शेषमेतेषां न प्रदेयं तु कस्यचित् ॥ ९१ ॥
भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत् ।दधि चाप्यनुपानं वै न कर्तव्यं भवार्थिना ॥ ९२ ॥
आचम्य चैव हस्तेन परिस्राव्य तथोदकम् ।अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत् ॥ ९३ ॥
पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः ।ज्ञातिश्रैष्ठ्यमवाप्नोति प्रयोगकुशलो नरः ॥ ९४ ॥
अद्भिः प्राणान्समालभ्य नाभिं पाणितलेन च ।स्पृशंश्चैव प्रतिष्ठेत न चाप्यार्द्रेण पाणिना ॥ ९५ ॥
अङ्गुष्ठस्यान्तराले च ब्राह्मं तीर्थमुदाहृतम् ।कनिष्ठिकायाः पश्चात्तु देवतीर्थमिहोच्यते ॥ ९६ ॥
अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत ।तेन पित्र्याणि कुर्वीत स्पृष्ट्वापो न्यायतस्तथा ॥ ९७ ॥
परापवादं न ब्रूयान्नाप्रियं च कदाचन ।न मन्युः कश्चिदुत्पाद्यः पुरुषेण भवार्थिना ॥ ९८ ॥
पतितैस्तु कथां नेच्छेद्दर्शनं चापि वर्जयेत् ।संसर्गं च न गच्छेत तथायुर्विन्दते महत् ॥ ९९ ॥
न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम् ।न चास्नातां स्त्रियं गच्छेत्तथायुर्विन्दते महत् ॥ १०० ॥
स्वे स्वे तीर्थे समाचम्य कार्ये समुपकल्पिते ।त्रिः पीत्वापो द्विः प्रमृज्य कृतशौचो भवेन्नरः ॥ १०१ ॥
इन्द्रियाणि सकृत्स्पृश्य त्रिरभ्युक्ष्य च मानवः ।कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा ॥ १०२ ॥
ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव ।प्रवृत्तं च हितं चोक्त्वा भोजनाद्यन्तयोस्तथा ॥ १०३ ॥
सर्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत् ।निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत् ॥ १०४ ॥
वृद्धो ज्ञातिस्तथा मित्रं दरिद्रो यो भवेदपि ।गृहे वासयितव्यास्ते धन्यमायुष्यमेव च ॥ १०५ ॥
गृहे पारावता धन्याः शुकाश्च सहसारिकाः ।गृहेष्वेते न पापाय तथा वै तैलपायिकाः ॥ १०६ ॥
उद्दीपकाश्च गृध्राश्च कपोता भ्रमरास्तथा ।निविशेयुर्यदा तत्र शान्तिमेव तदाचरेत् ॥ १०७ ॥
अमङ्गल्यानि चैतानि तथाक्रोशो महात्मनाम् ।महात्मनां च गुह्यानि न वक्तव्यानि कर्हिचित् ॥ १०८ ॥
अगम्याश्च न गच्छेत राजपत्नीः सखीस्तथा ।वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर ॥ १०९ ॥
बन्धूनां ब्राह्मणानां च तथा शारणिकस्य च ।संबन्धिनां च राजेन्द्र तथायुर्विन्दते महत् ॥ ११० ॥
ब्राह्मणस्थपतिभ्यां च निर्मितं यन्निवेशनम् ।तदावसेत्सदा प्राज्ञो भवार्थी मनुजेश्वर ॥ १११ ॥
संध्यायां न स्वपेद्राजन्विद्यां न च समाचरेत् ।न भुञ्जीत च मेधावी तथायुर्विन्दते महत् ॥ ११२ ॥
नक्तं न कुर्यात्पित्र्याणि भुक्त्वा चैव प्रसाधनम् ।पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता ॥ ११३ ॥
वर्जनीयाश्च वै नित्यं सक्तवो निशि भारत ।शेषाणि चावदातानि पानीयं चैव भोजने ॥ ११४ ॥
सौहित्यं च न कर्तव्यं रात्रौ नैव समाचरेत् ।द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत् ॥ ११५ ॥
महाकुलप्रसूतां च प्रशस्तां लक्षणैस्तथा ।वयःस्थां च महाप्राज्ञ कन्यामावोढुमर्हति ॥ ११६ ॥
अपत्यमुत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा ।पुत्राः प्रदेया ज्ञानेषु कुलधर्मेषु भारत ॥ ११७ ॥
कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते ।पुत्रा निवेश्याश्च कुलाद्भृत्या लभ्याश्च भारत ॥ ११८ ॥
शिरःस्नातोऽथ कुर्वीत दैवं पित्र्यमथापि च ।नक्षत्रे न च कुर्वीत यस्मिञ्जातो भवेन्नरः ।न प्रोष्ठपदयोः कार्यं तथाग्नेये च भारत ॥ ११९ ॥
दारुणेषु च सर्वेषु प्रत्यहं च विवर्जयेत् ।ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत् ॥ १२० ॥
प्राङ्मुखः श्मश्रुकर्माणि कारयेत समाहितः ।उदङ्मुखो वा राजेन्द्र तथायुर्विन्दते महत् ॥ १२१ ॥
परिवादं न च ब्रूयात्परेषामात्मनस्तथा ।परिवादो न धर्माय प्रोच्यते भरतर्षभ ॥ १२२ ॥
वर्जयेद्व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम ।समार्षां व्यङ्गितां चैव मातुः स्वकुलजां तथा ॥ १२३ ॥
वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम् ।तथातिकृष्णवर्णां च वर्णोत्कृष्टां च वर्जयेत् ॥ १२४ ॥
अयोनिं च वियोनिं च न गच्छेत विचक्षणः ।पिङ्गलां कुष्ठिनीं नारीं न त्वमावोढुमर्हसि ॥ १२५ ॥
अपस्मारिकुले जातां निहीनां चैव वर्जयेत् ।श्वित्रिणां च कुले जातां त्रयाणां मनुजेश्वर ॥ १२६ ॥
लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः ।मनोज्ञा दर्शनीया च तां भवान्वोढुमर्हति ॥ १२७ ॥
महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर ।अवरा पतिता चैव न ग्राह्या भूतिमिच्छता ॥ १२८ ॥
अग्नीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः ।वेदेषु ब्राह्मणैः प्रोक्तास्ताश्च सर्वाः समाचरेत् ॥ १२९ ॥
न चेर्ष्या स्त्रीषु कर्तव्या दारा रक्ष्याश्च सर्वशः ।अनायुष्या भवेदीर्ष्या तस्मादीर्ष्यां विवर्जयेत् ॥ १३० ॥
अनायुष्यो दिवास्वप्नस्तथाभ्युदितशायिता ।प्रातर्निशायां च तथा ये चोच्छिष्टाः स्वपन्ति वै ॥ १३१ ॥
पारदार्यमनायुष्यं नापितोच्छिष्टता तथा ।यत्नतो वै न कर्तव्यमभ्यासश्चैव भारत ॥ १३२ ॥
संध्यां न भुञ्जेन्न स्नायान्न पुरीषं समुत्सृजेत् ।प्रयतश्च भवेत्तस्यां न च किंचित्समाचरेत् ॥ १३३ ॥
ब्राह्मणान्पूजयेच्चापि तथा स्नात्वा नराधिप ।देवांश्च प्रणमेत्स्नातो गुरूंश्चाप्यभिवादयेत् ॥ १३४ ॥
अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत्तु दर्शकः ।अनिमन्त्रिते ह्यनायुष्यं गमनं तत्र भारत ॥ १३५ ॥
न चैकेन परिव्राज्यं न गन्तव्यं तथा निशि ।अनागतायां संध्यायां पश्चिमायां गृहे वसेत् ॥ १३६ ॥
मातुः पितुर्गुरूणां च कार्यमेवानुशासनम् ।हितं वाप्यहितं वापि न विचार्यं नरर्षभ ॥ १३७ ॥
धनुर्वेदे च वेदे च यत्नः कार्यो नराधिप ।हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव ह ।यत्नवान्भव राजेन्द्र यत्नवान्सुखमेधते ॥ १३८ ॥
अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च ।प्रजापालनयुक्तश्च न क्षतिं लभते क्वचित् ॥ १३९ ॥
युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत ।गन्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप ॥ १४० ॥
पुराणमितिहासाश्च तथाख्यानानि यानि च ।महात्मनां च चरितं श्रोतव्यं नित्यमेव ते ॥ १४१ ॥
पत्नीं रजस्वलां चैव नाभिगच्छेन्न चाह्वयेत् ।स्नातां चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः ॥ १४२ ॥
पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान्भवेत् ।एतेन विधिना पत्नीमुपगच्छेत पण्डितः ॥ १४३ ॥
ज्ञातिसंबन्धिमित्राणि पूजनीयानि नित्यशः ।यष्टव्यं च यथाशक्ति यज्ञैर्विविधदक्षिणैः ।अतऊर्ध्वमरण्यं च सेवितव्यं नराधिप ॥ १४४ ॥
एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः ।शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर ॥ १४५ ॥
आचारो भूतिजनन आचारः कीर्तिवर्धनः ।आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् ॥ १४६ ॥
आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते ।आचारप्रभवो धर्मो धर्मादायुर्विवर्धते ॥ १४७ ॥
एतद्यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ।अनुकम्पता सर्ववर्णान्ब्रह्मणा समुदाहृतम् ॥ १४८ ॥
« »