Click on words to see what they mean.

युधिष्ठिर उवाच ।के लोका युध्यमानानां शूराणामनिवर्तिनाम् ।भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।अम्बरीषस्य संवादमिन्द्रस्य च युधिष्ठिर ॥ २ ॥
अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम् ।ददर्श सुरलोकस्थं शक्रेण सचिवं सह ॥ ३ ॥
सर्वतेजोमयं दिव्यं विमानवरमास्थितम् ।उपर्युपरि गच्छन्तं स्वं वै सेनापतिं प्रभुम् ॥ ४ ॥
स दृष्ट्वोपरि गच्छन्तं सेनापतिमुदारधीः ।ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम् ॥ ५ ॥
सागरान्तां महीं कृत्स्नामनुशिष्य यथाविधि ।चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया ॥ ६ ॥
ब्रह्मचर्येण घोरेण आचार्यकुलसेवया ।वेदानधीत्य धर्मेण राजशास्त्रं च केवलम् ॥ ७ ॥
अतिथीनन्नपानेन पितॄंश्च स्वधया तथा ।ऋषीन्स्वाध्यायदीक्षाभिर्देवान्यज्ञैरनुत्तमैः ॥ ८ ॥
क्षत्रधर्मे स्थितो भूत्वा यथाशास्त्रं यथाविधि ।उदीक्षमाणः पृतनां जयामि युधि वासव ॥ ९ ॥
देवराज सुदेवोऽयं मम सेनापतिः पुरा ।आसीद्योधः प्रशान्तात्मा सोऽयं कस्मादतीव माम् ॥ १० ॥
नानेन क्रतुभिर्मुख्यैरिष्टं नैव द्विजातयः ।तर्पिता विधिवच्छक्र सोऽयं कस्मादतीव माम् ॥ ११ ॥
इन्द्र उवाच ।एतस्य विततस्तात सुदेवस्य बभूव ह ।संग्रामयज्ञः सुमहान्यश्चान्यो युध्यते नरः ॥ १२ ॥
संनद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम् ।युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः ॥ १३ ॥
अम्बरीष उवाच ।कानि यज्ञे हवींष्यत्र किमाज्यं का च दक्षिणा ।ऋत्विजश्चात्र के प्रोक्तास्तन्मे ब्रूहि शतक्रतो ॥ १४ ॥
इन्द्र उवाच ।ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा ।हवींषि परमांसानि रुधिरं त्वाज्यमेव च ॥ १५ ॥
सृगालगृध्रकाकोलाः सदस्यास्तत्र सत्रिणः ।आज्यशेषं पिबन्त्येते हविः प्राश्नन्ति चाध्वरे ॥ १६ ॥
प्रासतोमरसंघाताः खड्गशक्तिपरश्वधाः ।ज्वलन्तो निशिताः पीताः स्रुचस्तस्याथ सत्रिणः ॥ १७ ॥
चापवेगायतस्तीक्ष्णः परकायावदारणः ।ऋजुः सुनिशितः पीतः सायकोऽस्य स्रुवो महान् ॥ १८ ॥
द्वीपिचर्मावनद्धश्च नागदन्तकृतत्सरुः ।हस्तिहस्तगतः खड्गः स्फ्यो भवेत्तस्य संयुगे ॥ १९ ॥
ज्वलितैर्निशितैः पीतैः प्रासशक्तिपरश्वधैः ।शैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद्वसु ॥ २० ॥
आवेगाद्यत्तु रुधिरं संग्रामे स्यन्दते भुवि ।सास्य पूर्णाहुतिर्होत्रे समृद्धा सर्वकामधुक् ॥ २१ ॥
छिन्धि भिन्धीति यस्यैतच्छ्रूयते वाहिनीमुखे ।सामानि सामगास्तस्य गायन्ति यमसादने ॥ २२ ॥
हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम् ।कुञ्जराणां हयानां च वर्मिणां च समुच्चयः ।अग्निः श्येनचितो नाम तस्य यज्ञे विधीयते ॥ २३ ॥
उत्तिष्ठति कबन्धोऽत्र सहस्रे निहते तु यः ।स यूपस्तस्य शूरस्य खादिरोऽष्टाश्रिरुच्यते ॥ २४ ॥
इडोपहूतं क्रोशन्ति कुञ्जरा अङ्कुशेरिताः ।व्याघुष्टतलनादेन वषट्कारेण पार्थिव ।उद्गाता तत्र संग्रामे त्रिसामा दुन्दुभिः स्मृतः ॥ २५ ॥
ब्रह्मस्वे ह्रियमाणे यः प्रियां युद्धे तनुं त्यजेत् ।आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ॥ २६ ॥
भर्तुरर्थे तु यः शूरो विक्रमेद्वाहिनीमुखे ।भयान्न च निवर्तेत तस्य लोका यथा मम ॥ २७ ॥
नीलचन्द्राकृतैः खड्गैर्बाहुभिः परिघोपमैः ।यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम ॥ २८ ॥
यस्तु नावेक्षते कंचित्सहायं विजये स्थितः ।विगाह्य वाहिनीमध्यं तस्य लोका यथा मम ॥ २९ ॥
यस्य तोमरसंघाटा भेरीमण्डूककच्छपा ।वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा ॥ ३० ॥
असिचर्मप्लवा सिन्धुः केशशैवलशाद्वला ।अश्वनागरथैश्चैव संभिन्नैः कृतसंक्रमा ॥ ३१ ॥
पताकाध्वजवानीरा हतवाहनवाहिनी ।शोणितोदा सुसंपूर्णा दुस्तरा पारगैर्नरैः ॥ ३२ ॥
हतनागमहानक्रा परलोकवहाशिवा ।ऋष्टिखड्गध्वजानूका गृध्रकङ्कवडप्लवा ॥ ३३ ॥
पुरुषादानुचरिता भीरूणां कश्मलावहा ।नदी योधमहायज्ञे तदस्यावभृथं स्मृतम् ॥ ३४ ॥
वेदी यस्य त्वमित्राणां शिरोभिरवकीर्यते ।अश्वस्कन्धैर्गजस्कन्धैस्तस्य लोका यथा मम ॥ ३५ ॥
पत्नीशाला कृता यस्य परेषां वाहिनीमुखम् ।हविर्धानं स्ववाहिन्यस्तदस्याहुर्मनीषिणः ॥ ३६ ॥
सदश्चान्तरयोधाग्निराग्नीध्रश्चोत्तरां दिशम् ।शत्रुसेनाकलत्रस्य सर्वलोकानदूरतः ॥ ३७ ॥
यदा तूभयतो व्यूहो भवत्याकाशमग्रतः ।सास्य वेदी तथा यज्ञे नित्यं वेदास्त्रयोऽग्नयः ॥ ३८ ॥
यस्तु योधः परावृत्तः संत्रस्तो हन्यते परैः ।अप्रतिष्ठं स नरकं याति नास्त्यत्र संशयः ॥ ३९ ॥
यस्य शोणितवेगेन नदी स्यात्समभिप्लुता ।केशमांसास्थिसंकीर्णा स गच्छेत्परमां गतिम् ॥ ४० ॥
यस्तु सेनापतिं हत्वा तद्यानमधिरोहति ।स विष्णुविक्रमक्रामी बृहस्पतिसमः क्रतुः ॥ ४१ ॥
नायकं वा प्रमाणं वा यो वा स्यात्तत्र पूजितः ।जीवग्राहं निगृह्णाति तस्य लोका यथा मम ॥ ४२ ॥
आहवे निहतं शूरं न शोचेत कदाचन ।अशोच्यो हि हतः शूरः स्वर्गलोके महीयते ॥ ४३ ॥
न ह्यन्नं नोदकं तस्य न स्नानं नाप्यशौचकम् ।हतस्य कर्तुमिच्छन्ति तस्य लोकाञ्शृणुष्व मे ॥ ४४ ॥
वराप्सरःसहस्राणि शूरमायोधने हतम् ।त्वरमाणा हि धावन्ति मम भर्ता भवेदिति ॥ ४५ ॥
एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः ।चत्वारश्चाश्रमास्तस्य यो युद्धे न पलायते ॥ ४६ ॥
वृद्धं बलं न हन्तव्यं नैव स्त्री न च वै द्विजः ।तृणपूर्णमुखश्चैव तवास्मीति च यो वदेत् ॥ ४७ ॥
अहं वृत्रं बलं पाकं शतमायं विरोचनम् ।दुरावार्यं च नमुचिं नैकमायं च शम्बरम् ॥ ४८ ॥
विप्रचित्तिं च दैतेयं दनोः पुत्रांश्च सर्वशः ।प्रह्रादं च निहत्याजौ ततो देवाधिपोऽभवम् ॥ ४९ ॥
भीष्म उवाच ।इत्येतच्छक्रवचनं निशम्य प्रतिगृह्य च ।योधानामात्मनः सिद्धिमम्बरीषोऽभिपन्नवान् ॥ ५० ॥
« »