Click on words to see what they mean.

युधिष्ठिर उवाच ।क्षत्रधर्मान्न पापीयान्धर्मोऽस्ति भरतर्षभ ।अभियाने च युद्धे च राजा हन्ति महाजनम् ॥ १ ॥
अथ स्म कर्मणा येन लोकाञ्जयति पार्थिवः ।विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥ २ ॥
भीष्म उवाच ।निग्रहेण च पापानां साधूनां प्रग्रहेण च ।यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः ॥ ३ ॥
उपरुन्धन्ति राजानो भूतानि विजयार्थिनः ।त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः ॥ ४ ॥
अपविध्यन्ति पापानि दानयज्ञतपोबलैः ।अनुग्रहेण भूतानां पुण्यमेषां प्रवर्धते ॥ ५ ॥
यथैव क्षेत्रनिर्दाता निर्दन्वै क्षेत्रमेकदा ।हिनस्ति कक्षं धान्यं च न च धान्यं विनश्यति ॥ ६ ॥
एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्यानथैकदा ।तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः ॥ ७ ॥
यो भूतानि धनज्यानाद्वधात्क्लेशाच्च रक्षति ।दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट् ॥ ८ ॥
स सर्वयज्ञैरीजानो राजाथाभयदक्षिणैः ।अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ॥ ९ ॥
ब्राह्मणार्थे समुत्पन्ने योऽभिनिःसृत्य युध्यते ।आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ॥ १० ॥
अभीतो विकिरञ्शत्रून्प्रतिगृह्णञ्शरांस्तथा ।न तस्मात्त्रिदशाः श्रेयो भुवि पश्यन्ति किंचन ॥ ११ ॥
तस्य यावन्ति शस्त्राणि त्वचं भिन्दन्ति संयुगे ।तावतः सोऽश्नुते लोकान्सर्वकामदुहोऽक्षयान् ॥ १२ ॥
न तस्य रुधिरं गात्रादावेधेभ्यः प्रवर्तते ।स ह तेनैव रक्तेन सर्वपापैः प्रमुच्यते ॥ १३ ॥
यानि दुःखानि सहते व्रणानामभितापने ।न ततोऽस्ति तपो भूय इति धर्मविदो विदुः ॥ १४ ॥
पृष्ठतो भीरवः संख्ये वर्तन्तेऽधमपूरुषाः ।शूराच्छरणमिच्छन्तः पर्जन्यादिव जीवनम् ॥ १५ ॥
यदि शूरस्तथा क्षेमे प्रतिरक्षेत्तथा भये ।प्रतिरूपं जनाः कुर्युर्न च तद्वर्तते तथा ॥ १६ ॥
यदि ते कृतमाज्ञाय नमस्कुर्युः सदैव तम् ।युक्तं न्याय्यं च कुर्युस्ते न च तद्वर्तते तथा ॥ १७ ॥
पुरुषाणां समानानां दृश्यते महदन्तरम् ।संग्रामेऽनीकवेलायामुत्क्रुष्टेऽभिपतत्सु च ॥ १८ ॥
पतत्यभिमुखः शूरः परान्भीरुः पलायते ।आस्थायास्वर्ग्यमध्वानं सहायान्विषमे त्यजन् ॥ १९ ॥
मा स्म तांस्तादृशांस्तात जनिष्ठाः पुरुषाधमान् ।ये सहायान्रणे हित्वा स्वस्तिमन्तो गृहान्ययुः ॥ २० ॥
अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः ।त्यागेन यः सहायानां स्वान्प्राणांस्त्रातुमिच्छति ॥ २१ ॥
तं हन्युः काष्ठलोष्टैर्वा दहेयुर्वा कटाग्निना ।पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः ॥ २२ ॥
अधर्मः क्षत्रियस्यैष यच्छय्यामरणं भवेत् ।विसृजञ्श्लेष्मपित्तानि कृपणं परिदेवयन् ॥ २३ ॥
अविक्षतेन देहेन प्रलयं योऽधिगच्छति ।क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ॥ २४ ॥
न गृहे मरणं तात क्षत्रियाणां प्रशस्यते ।शौटीराणामशौटीरमधर्म्यं कृपणं च तत् ॥ २५ ॥
इदं दुःखमहो कष्टं पापीय इति निष्टनन् ।प्रतिध्वस्तमुखः पूतिरमात्यान्बहु शोचयन् ॥ २६ ॥
अरोगाणां स्पृहयते मुहुर्मृत्युमपीच्छति ।वीरो दृप्तोऽभिमानी च नेदृशं मृत्युमर्हति ॥ २७ ॥
रणेषु कदनं कृत्वा ज्ञातिभिः परिवारितः ।तीक्ष्णैः शस्त्रैः सुविक्लिष्टः क्षत्रियो मृत्युमर्हति ॥ २८ ॥
शूरो हि सत्यमन्युभ्यामाविष्टो युध्यते भृशम् ।कृत्यमानानि गात्राणि परैर्नैवावबुध्यते ॥ २९ ॥
स संख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम् ।स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम् ॥ ३० ॥
सर्वो योधः परं त्यक्तुमाविष्टस्त्यक्तजीवितः ।प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शयन् ॥ ३१ ॥
« »