Click on words to see what they mean.

युधिष्ठिर उवाच ।यया वृत्त्या महीपालो विवर्धयति मानवान् ।पुण्यांश्च लोकाञ्जयति तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।दानशीलो भवेद्राजा यज्ञशीलश्च भारत ।उपवासतपःशीलः प्रजानां पालने रतः ॥ २ ॥
सर्वाश्चैव प्रजा नित्यं राजा धर्मेण पालयेत् ।उत्थानेनाप्रमादेन पूजयेच्चैव धार्मिकान् ॥ ३ ॥
राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते ।यद्यदाचरते राजा तत्प्रजानां हि रोचते ॥ ४ ॥
नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु ।निहन्यात्सर्वतो दस्यून्न कामात्कस्यचित्क्षमेत् ॥ ५ ॥
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः ।चतुर्थं तस्य धर्मस्य राजा भारत विन्दति ॥ ६ ॥
यदधीते यद्यजते यद्ददाति यदर्चति ।राजा चतुर्थभाक्तस्य प्रजा धर्मेण पालयन् ॥ ७ ॥
यद्राष्ट्रेऽकुशलं किंचिद्राज्ञोऽरक्षयतः प्रजाः ।चतुर्थं तस्य पापस्य राजा भारत विन्दति ॥ ८ ॥
अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः ।कर्मणः पृथिवीपाल नृशंसोऽनृतवागपि ।तादृशात्किल्बिषाद्राजा शृणु येन प्रमुच्यते ॥ ९ ॥
प्रत्याहर्तुमशक्यं स्याद्धनं चोरैर्हृतं यदि ।स्वकोशात्तत्प्रदेयं स्यादशक्तेनोपजीवता ॥ १० ॥
सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणास्तथा ।न स्थेयं विषये तेषु योऽपकुर्याद्द्विजातिषु ॥ ११ ॥
ब्रह्मस्वे रक्ष्यमाणे हि सर्वं भवति रक्षितम् ।तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन्नृपः ॥ १२ ॥
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ।नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम् ॥ १३ ॥
न हि कामात्मना राज्ञा सततं शठबुद्धिना ।नृशंसेनातिलुब्धेन शक्याः पालयितुं प्रजाः ॥ १४ ॥
युधिष्ठिर उवाच ।नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम् ।धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते ॥ १५ ॥
तदलं मम राज्येन यत्र धर्मो न विद्यते ।वनमेव गमिष्यामि तस्माद्धर्मचिकीर्षया ॥ १६ ॥
तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः ।धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः ॥ १७ ॥
भीष्म उवाच ।वेदाहं तव या बुद्धिरानृशंस्यगुणैव सा ।न च शुद्धानृशंस्येन शक्यं महदुपासितुम् ॥ १८ ॥
अपि तु त्वा मृदुं दान्तमत्यार्यमतिधार्मिकम् ।क्लीबं धर्मघृणायुक्तं न लोको बहु मन्यते ॥ १९ ॥
राजधर्मानवेक्षस्व पितृपैतामहोचितान् ।नैतद्राज्ञामथो वृत्तं यथा त्वं स्थातुमिच्छसि ॥ २० ॥
न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः ।प्रजापालनसंभूतं प्राप्ता धर्मफलं ह्यसि ॥ २१ ॥
न ह्येतामाशिषं पाण्डुर्न च कुन्त्यन्वयाचत ।न चैतां प्राज्ञतां तात यया चरसि मेधया ॥ २२ ॥
शौर्यं बलं च सत्त्वं च पिता तव सदाब्रवीत् ।माहात्म्यं बलमौदार्यं तव कुन्त्यन्वयाचत ॥ २३ ॥
नित्यं स्वाहा स्वधा नित्यमुभे मानुषदैवते ।पुत्रेष्वाशासते नित्यं पितरो दैवतानि च ॥ २४ ॥
दानमध्ययनं यज्ञः प्रजानां परिपालनम् ।धर्ममेतमधर्मं वा जन्मनैवाभ्यजायिथाः ॥ २५ ॥
काले धुरि नियुक्तानां वहतां भार आहिते ।सीदतामपि कौन्तेय न कीर्तिरवसीदति ॥ २६ ॥
समन्ततो विनियतो वहत्यस्खलितो हि यः ।निर्दोषकर्मवचनात्सिद्धिः कर्मण एव सा ॥ २७ ॥
नैकान्तविनिपातेन विचचारेह कश्चन ।धर्मी गृही वा राजा वा ब्रह्मचार्यथ वा पुनः ॥ २८ ॥
अल्पं तु साधुभूयिष्ठं यत्कर्मोदारमेव तत् ।कृतमेवाकृताच्छ्रेयो न पापीयोऽस्त्यकर्मणः ॥ २९ ॥
यदा कुलीनो धर्मज्ञः प्राप्नोत्यैश्वर्यमुत्तमम् ।योगक्षेमस्तदा राजन्कुशलायैव कल्पते ॥ ३० ॥
दानेनान्यं बलेनान्यमन्यं सूनृतया गिरा ।सर्वतः परिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः ॥ ३१ ॥
यं हि वैद्याः कुले जाता अवृत्तिभयपीडिताः ।प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः कोऽभ्यधिकस्ततः ॥ ३२ ॥
युधिष्ठिर उवाच ।किं न्वतः परमं स्वर्ग्यं का न्वतः प्रीतिरुत्तमा ।किं न्वतः परमैश्वर्यं ब्रूहि मे यदि मन्यसे ॥ ३३ ॥
भीष्म उवाच ।यस्मिन्प्रतिष्ठिताः सम्यक्क्षेमं विन्दन्ति तत्क्षणम् ।स स्वर्गजित्तमोऽस्माकं सत्यमेतद्ब्रवीमि ते ॥ ३४ ॥
त्वमेव प्रीतिमांस्तस्मात्कुरूणां कुरुसत्तम ।भव राजा जय स्वर्गं सतो रक्षासतो जहि ॥ ३५ ॥
अनु त्वा तात जीवन्तु सुहृदः साधुभिः सह ।पर्जन्यमिव भूतानि स्वादुद्रुममिवाण्डजाः ॥ ३६ ॥
धृष्टं शूरं प्रहर्तारमनृशंसं जितेन्द्रियम् ।वत्सलं संविभक्तारमनु जीवन्तु त्वां जनाः ॥ ३७ ॥
« »