Click on words to see what they mean.

भीष्म उवाच ।योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते ।योगक्षेमश्च राज्ञोऽपि समायत्तः पुरोहिते ॥ १ ॥
यतादृष्टं भयं ब्रह्म प्रजानां शमयत्युत ।दृष्टं च राजा बाहुभ्यां तद्राष्ट्रं सुखमेधते ॥ २ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च ॥ ३ ॥
मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः ।जिज्ञासमानः स्वबलमभ्ययादलकाधिपम् ॥ ४ ॥
ततो वैश्रवणो राजा रक्षांसि समवासृजत् ।ते बलान्यवमृद्नन्तः प्राचरंस्तस्य नैरृताः ॥ ५ ॥
स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः ।गर्हयामास विद्वांसं पुरोहितमरिंदमः ॥ ६ ॥
तत उग्रं तपस्तप्त्वा वसिष्ठो ब्रह्मवित्तमः ।रक्षांस्यपावधीत्तत्र पन्थानं चाप्यविन्दत ॥ ७ ॥
ततो वैश्रवणो राजा मुचुकुन्दमदर्शयत् ।वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत् ॥ ८ ॥
त्वत्तो हि बलिनः पूर्वे राजानः सपुरोहिताः ।न चैवं समवर्तंस्ते यथा त्वमिह वर्तसे ॥ ९ ॥
ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः ।आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः ॥ १० ॥
यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसि ।किं ब्राह्मणबलेन त्वमतिमात्रं प्रवर्तसे ॥ ११ ॥
मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम् ।न्यायपूर्वमसंरब्धमसंभ्रान्तमिदं वचः ॥ १२ ॥
ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयंभुवा ।पृथग्बलविधानं च तल्लोकं परिरक्षति ॥ १३ ॥
तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम् ।अस्त्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम् ॥ १४ ॥
ताभ्यां संभूय कर्तव्यं प्रजानां परिपालनम् ।तथा च मां प्रवर्तन्तं गर्हयस्यलकाधिप ॥ १५ ॥
ततोऽब्रवीद्वैश्रवणो राजानं सपुरोहितम् ।नाहं राज्यमनिर्दिष्टं कस्मैचिद्विदधाम्युत ॥ १६ ॥
नाच्छिन्दे चापि निर्दिष्टमिति जानीहि पार्थिव ।प्रशाधि पृथिवीं वीर मद्दत्तामखिलामिमाम् ॥ १७ ॥
मुचुकुन्द उवाच ।नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव ।बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये ॥ १८ ॥
भीष्म उवाच ।ततो वैश्रवणो राजा विस्मयं परमं ययौ ।क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमसंभ्रमम् ॥ १९ ॥
ततो राजा मुचुकुन्दः सोऽन्वशासद्वसुंधराम् ।बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः ॥ २० ॥
एवं यो ब्रह्मविद्राजा ब्रह्मपूर्वं प्रवर्तते ।जयत्यविजितामुर्वीं यशश्च महदश्नुते ॥ २१ ॥
नित्योदको ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः ।तयोर्हि सर्वमायत्तं यत्किंचिज्जगतीगतम् ॥ २२ ॥
« »