Click on words to see what they mean.

वैशंपायन उवाच ।युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः ।शुशोच दुःखसंतप्तः स्मृत्वा कर्णं महारथम् ॥ १ ॥
आविष्टो दुःखशोकाभ्यां निःश्वसंश्च पुनः पुनः ।दृष्ट्वार्जुनमुवाचेदं वचनं शोककर्शितः ॥ २ ॥
यद्भैक्षमाचरिष्याम वृष्ण्यन्धकपुरे वयम् ।ज्ञातीन्निष्पुरुषान्कृत्वा नेमां प्राप्स्याम दुर्गतिम् ॥ ३ ॥
अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल ।आत्मानमात्मना हत्वा किं धर्मफलमाप्नुमः ॥ ४ ॥
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् ।धिगस्त्वमर्षं येनेमामापदं गमिता वयम् ॥ ५ ॥
साधु क्षमा दमः शौचमवैरोध्यममत्सरः ।अहिंसा सत्यवचनं नित्यानि वनचारिणाम् ॥ ६ ॥
वयं तु लोभान्मोहाच्च स्तम्भं मानं च संश्रिताः ।इमामवस्थामापन्ना राज्यलेशबुभुक्षया ॥ ७ ॥
त्रैलोक्यस्यापि राज्येन नास्मान्कश्चित्प्रहर्षयेत् ।बान्धवान्निहतान्दृष्ट्वा पृथिव्यामामिषैषिणः ॥ ८ ॥
ते वयं पृथिवीहेतोरवध्यान्पृथिवीसमान् ।संपरित्यज्य जीवामो हीनार्था हतबान्धवाः ॥ ९ ॥
आमिषे गृध्यमानानामशुनां नः शुनामिव ।आमिषं चैव नो नष्टमामिषस्य च भोजिनः ॥ १० ॥
न पृथिव्या सकलया न सुवर्णस्य राशिभिः ।न गवाश्वेन सर्वेण ते त्याज्या य इमे हताः ॥ ११ ॥
संयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः ।मृत्युयानं समारुह्य गता वैवस्वतक्षयम् ॥ १२ ॥
बहु कल्याणमिच्छन्त ईहन्ते पितरः सुतान् ।तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया ॥ १३ ॥
उपवासैस्तथेज्याभिर्व्रतकौतुकमङ्गलैः ।लभन्ते मातरो गर्भांस्तान्मासान्दश बिभ्रति ॥ १४ ॥
यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि ।संभाविता जातबलास्ते दद्युर्यदि नः सुखम् ।इह चामुत्र चैवेति कृपणाः फलहेतुकाः ॥ १५ ॥
तासामयं समारम्भो निवृत्तः केवलोऽफलः ।यदासां निहताः पुत्रा युवानो मृष्टकुण्डलाः ॥ १६ ॥
अभुक्त्वा पार्थिवान्भोगानृणान्यनवदाय च ।पितृभ्यो देवताभ्यश्च गता वैवस्वतक्षयम् ॥ १७ ॥
यदैषामङ्ग पितरौ जातौ काममयाविव ।संजातबलरूपेषु तदैव निहता नृपाः ॥ १८ ॥
संयुक्ताः काममन्युभ्यां क्रोधहर्षासमञ्जसाः ।न ते जन्मफलं किंचिद्भोक्तारो जातु कर्हिचित् ॥ १९ ॥
पाञ्चालानां कुरूणां च हता एव हि येऽहताः ।ते वयं त्वधमाँल्लोकान्प्रपद्येम स्वकर्मभिः ॥ २० ॥
वयमेवास्य लोकस्य विनाशे कारणं स्मृताः ।धृतराष्ट्रस्य पुत्रेण निकृत्या प्रत्यपत्स्महि ॥ २१ ॥
सदैव निकृतिप्रज्ञो द्वेष्टा मायोपजीवनः ।मिथ्यावृत्तः स सततमस्मास्वनपकारिषु ॥ २२ ॥
अंशकामा वयं ते च न चास्माभिर्न तैर्जितम् ।न तैर्भुक्तेयमवनिर्न नार्यो गीतवादितम् ॥ २३ ॥
नामात्यसमितौ कथ्यं न च श्रुतवतां श्रुतम् ।न रत्नानि परार्ध्यानि न भूर्न द्रविणागमः ॥ २४ ॥
ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः ।धृतराष्ट्रस्य नृपतेः सौबलेन निवेदितः ॥ २५ ॥
तं पिता पुत्रगृद्धित्वादनुमेनेऽनये स्थितम् ।अनवेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा ।असंशयं धृतराष्ट्रो यथैवाहं तथा गतः ॥ २६ ॥
अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम् ।पतितो यशसो दीप्ताद्घातयित्वा सहोदरान् ॥ २७ ॥
इमौ वृद्धौ च शोकाग्नौ प्रक्षिप्य स सुयोधनः ।अस्मत्प्रद्वेषसंयुक्तः पापबुद्धिः सदैव हि ॥ २८ ॥
को हि बन्धुः कुलीनः संस्तथा ब्रूयात्सुहृज्जने ।यथासावुक्तवान्क्षुद्रो युयुत्सुर्वृष्णिसंनिधौ ॥ २९ ॥
आत्मनो हि वयं दोषाद्विनष्टाः शाश्वतीः समाः ।प्रदहन्तो दिशः सर्वास्तेजसा भास्करा इव ॥ ३० ॥
सोऽस्माकं वैरपुरुषो दुर्मन्त्रिप्रग्रहं गतः ।दुर्योधनकृते ह्येतत्कुलं नो विनिपातितम् ।अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यताम् ॥ ३१ ॥
कुलस्यास्यान्तकरणं दुर्मतिं पापकारिणम् ।राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रोऽद्य शोचति ॥ ३२ ॥
हताः शूराः कृतं पापं विषयः स्वो विनाशितः ।हत्वा नो विगतो मन्युः शोको मां रुन्धयत्ययम् ॥ ३३ ॥
धनंजय कृतं पापं कल्याणेनोपहन्यते ।त्यागवांश्च पुनः पापं नालं कर्तुमिति श्रुतिः ॥ ३४ ॥
त्यागवाञ्जन्ममरणे नाप्नोतीति श्रुतिर्यदा ।प्राप्तवर्त्मा कृतमतिर्ब्रह्म संपद्यते तदा ॥ ३५ ॥
स धनंजय निर्द्वंद्वो मुनिर्ज्ञानसमन्वितः ।वनमामन्त्र्य वः सर्वान्गमिष्यामि परंतप ॥ ३६ ॥
न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुमिति श्रुतिः ।परिग्रहवता तन्मे प्रत्यक्षमरिसूदन ॥ ३७ ॥
मया निसृष्टं पापं हि परिग्रहमभीप्सता ।जन्मक्षयनिमित्तं च शक्यं प्राप्तुमिति श्रुतिः ॥ ३८ ॥
स परिग्रहमुत्सृज्य कृत्स्नं राज्यं तथैव च ।गमिष्यामि विनिर्मुक्तो विशोको विज्वरस्तथा ॥ ३९ ॥
प्रशाधि त्वमिमामुर्वीं क्षेमां निहतकण्टकाम् ।न ममार्थोऽस्ति राज्येन न भोगैर्वा कुरूत्तम ॥ ४० ॥
एतावदुक्त्वा वचनं धर्मराजो युधिष्ठिरः ।व्युपारमत्ततः पार्थः कनीयान्प्रत्यभाषत ॥ ४१ ॥
« »