Click on words to see what they mean.

वैशंपायन उवाच ।अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी ।अभिनीततरं वाक्यं दृढवादपराक्रमः ॥ १ ॥
दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः ।स्मयमानो महातेजाः सृक्किणी संलिहन्मुहुः ॥ २ ॥
अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम् ।यत्कृत्वामानुषं कर्म त्यजेथाः श्रियमुत्तमाम् ॥ ३ ॥
शत्रून्हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम् ।हतामित्रः कथं सर्वं त्यजेथा बुद्धिलाघवात् ॥ ४ ॥
क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः ।किमर्थं च महीपालानवधीः क्रोधमूर्छितः ॥ ५ ॥
यो ह्याजिजीविषेद्भैक्ष्यं कर्मणा नैव केनचित् ।समारम्भान्बुभूषेत हतस्वस्तिरकिंचनः ।सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः ॥ ६ ॥
कापालीं नृप पापिष्ठां वृत्तिमास्थाय जीवतः ।संत्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति ॥ ७ ॥
सर्वारम्भान्समुत्सृज्य हतस्वस्तिरकिंचनः ।कस्मादाशंससे भैक्ष्यं चर्तुं प्राकृतवत्प्रभो ॥ ८ ॥
अस्मिन्राजकुले जातो जित्वा कृत्स्नां वसुंधराम् ।धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे ॥ ९ ॥
यदीमानि हवींषीह विमथिष्यन्त्यसाधवः ।भवता विप्रहीणानि प्राप्तं त्वामेव किल्बिषम् ॥ १० ॥
आकिंचन्यमनाशास्यमिति वै नहुषोऽब्रवीत् ।कृत्या नृशंसा ह्यधने धिगस्त्वधनतामिह ॥ ११ ॥
अश्वस्तनमृषीणां हि विद्यते वेद तद्भवान् ।यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते ॥ १२ ॥
धर्मं संहरते तस्य धनं हरति यस्य यः ।ह्रियमाणे धने राजन्वयं कस्य क्षमेमहि ॥ १३ ॥
अभिशस्तवत्प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम् ।दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति ॥ १४ ॥
पतितः शोच्यते राजन्निर्धनश्चापि शोच्यते ।विशेषं नाधिगच्छामि पतितस्याधनस्य च ॥ १५ ॥
अर्थेभ्यो हि विवृद्धेभ्यः संभृतेभ्यस्ततस्ततः ।क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ १६ ॥
अर्थाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप ।प्राणयात्रा हि लोकस्य विनार्थं न प्रसिध्यति ॥ १७ ॥
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ।व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ १८ ॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥ १९ ॥
अधनेनार्थकामेन नार्थः शक्यो विवित्सता ।अर्थैरर्था निबध्यन्ते गजैरिव महागजाः ॥ २० ॥
धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः ।अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥ २१ ॥
धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्तते ।नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम ॥ २२ ॥
नाधनो धर्मकृत्यानि यथावदनुतिष्ठति ।धनाद्धि धर्मः स्रवति शैलाद्गिरिनदी यथा ॥ २३ ॥
यः कृशाश्वः कृशगवः कृशभृत्यः कृशातिथिः ।स वै राजन्कृशो नाम न शरीरकृशः कृशः ॥ २४ ॥
अवेक्षस्व यथान्यायं पश्य देवासुरं यथा ।राजन्किमन्यज्ज्ञातीनां वधादृध्यन्ति देवताः ॥ २५ ॥
न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत् ।एतावानेव वेदेषु निश्चयः कविभिः कृतः ॥ २६ ॥
अध्येतव्या त्रयी विद्या भवितव्यं विपश्चिता ।सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः ॥ २७ ॥
द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः ।इति देवा व्यवसिता वेदवादाश्च शाश्वताः ॥ २८ ॥
अधीयन्ते तपस्यन्ति यजन्ते याजयन्ति च ।कृत्स्नं तदेव च श्रेयो यदप्याददतेऽन्यतः ॥ २९ ॥
न पश्यामोऽनपहृतं धनं किंचित्क्वचिद्वयम् ।एवमेव हि राजानो जयन्ति पृथिवीमिमाम् ॥ ३० ॥
जित्वा ममत्वं ब्रुवते पुत्रा इव पितुर्धने ।राजर्षयो जितस्वर्गा धर्मो ह्येषां निगद्यते ॥ ३१ ॥
यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश ।एवं राजकुलाद्वित्तं पृथिवीं प्रतितिष्ठति ॥ ३२ ॥
आसीदियं दिलीपस्य नृगस्य नहुषस्य च ।अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता ॥ ३३ ॥
स त्वां द्रव्यमयो यज्ञः संप्राप्तः सर्वदक्षिणः ।तं चेन्न यजसे राजन्प्राप्तस्त्वं देवकिल्बिषम् ॥ ३४ ॥
येषां राजाश्वमेधेन यजते दक्षिणावता ।उपेत्य तस्यावभृथं पूताः सर्वे भवन्ति ते ॥ ३५ ॥
विश्वरूपो महादेवः सर्वमेधे महामखे ।जुहाव सर्वभूतानि तथैवात्मानमात्मना ॥ ३६ ॥
शाश्वतोऽयं भूतिपथो नास्यान्तमनुशुश्रुम ।महान्दाशरथः पन्था मा राजन्कापथं गमः ॥ ३७ ॥
« »