Click on words to see what they mean.

वासुदेव उवाच ।शृणु कौन्तेय रामस्य मया यावत्परिश्रुतम् ।महर्षीणां कथयतां कारणं तस्य जन्म च ॥ १ ॥
यथा च जामदग्न्येन कोटिशः क्षत्रिया हताः ।उद्भूता राजवंशेषु ये भूयो भारते हताः ॥ २ ॥
जह्नोरजह्नुस्तनयो बल्लवस्तस्य चात्मजः ।कुशिको नाम धर्मज्ञस्तस्य पुत्रो महीपतिः ॥ ३ ॥
उग्रं तपः समातिष्ठत्सहस्राक्षसमो भुवि ।पुत्रं लभेयमजितं त्रिलोकेश्वरमित्युत ॥ ४ ॥
तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः ।समर्थः पुत्रजनने स्वयमेवैत्य भारत ॥ ५ ॥
पुत्रत्वमगमद्राजंस्तस्य लोकेश्वरेश्वरः ।गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः ॥ ६ ॥
तस्य कन्याभवद्राजन्नाम्ना सत्यवती प्रभो ।तां गाधिः कविपुत्राय सोर्चीकाय ददौ प्रभुः ॥ ७ ॥
ततः प्रीतस्तु कौन्तेय भार्गवः कुरुनन्दन ।पुत्रार्थे श्रपयामास चरुं गाधेस्तथैव च ॥ ८ ॥
आहूय चाह तां भार्यामृचीको भार्गवस्तदा ।उपयोज्यश्चरुरयं त्वया मात्राप्ययं तव ॥ ९ ॥
तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः ।अजय्यः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः ॥ १० ॥
तवापि पुत्रं कल्याणि धृतिमन्तं तपोन्वितम् ।शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ॥ ११ ॥
इत्येवमुक्त्वा तां भार्यामृचीको भृगुनन्दनः ।तपस्यभिरतो धीमाञ्जगामारण्यमेव ह ॥ १२ ॥
एतस्मिन्नेव काले तु तीर्थयात्रापरो नृपः ।गाधिः सदारः संप्राप्त ऋचीकस्याश्रमं प्रति ॥ १३ ॥
चरुद्वयं गृहीत्वा तु राजन्सत्यवती तदा ।भर्तुर्वाक्यादथाव्यग्रा मात्रे हृष्टा न्यवेदयत् ॥ १४ ॥
माता तु तस्याः कौन्तेय दुहित्रे स्वं चरुं ददौ ।तस्याश्चरुमथाज्ञातमात्मसंस्थं चकार ह ॥ १५ ॥
अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा ।धारयामास दीप्तेन वपुषा घोरदर्शनम् ॥ १६ ॥
तामृचीकस्तदा दृष्ट्वा ध्यानयोगेन वै ततः ।अब्रवीद्राजशार्दूल स्वां भार्यां वरवर्णिनीम् ॥ १७ ॥
मात्रासि व्यंसिता भद्रे चरुव्यत्यासहेतुना ।जनिष्यते हि ते पुत्रः क्रूरकर्मा महाबलः ॥ १८ ॥
जनिष्यते हि ते भ्राता ब्रह्मभूतस्तपोधनः ।विश्वं हि ब्रह्म तपसा मया तत्र समर्पितम् ॥ १९ ॥
सैवमुक्ता महाभागा भर्त्रा सत्यवती तदा ।पपात शिरसा तस्मै वेपन्ती चाब्रवीदिदम् ॥ २० ॥
नार्होऽसि भगवन्नद्य वक्तुमेवंविधं वचः ।ब्राह्मणापसदं पुत्रं प्राप्स्यसीति महामुने ॥ २१ ॥
ऋचीक उवाच ।नैष संकल्पितः कामो मया भद्रे तथा त्वयि ।उग्रकर्मा भवेत्पुत्रश्चरुर्माता च कारणम् ॥ २२ ॥
सत्यवत्युवाच ।इच्छँल्लोकानपि मुने सृजेथाः किं पुनर्मम ।शमात्मकमृजुं पुत्रं लभेयं जपतां वर ॥ २३ ॥
ऋचीक उवाच ।नोक्तपूर्वं मया भद्रे स्वैरेष्वप्यनृतं वचः ।किमुताग्निं समाधाय मन्त्रवच्चरुसाधने ॥ २४ ॥
सत्यवत्युवाच ।काममेवं भवेत्पौत्रो ममेह तव चैव ह ।शमात्मकमृजुं पुत्रं लभेयं जपतां वर ॥ २५ ॥
ऋचीक उवाच ।पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि ।यथा त्वयोक्तं तु वचस्तथा भद्रे भविष्यति ॥ २६ ॥
वासुदेव उवाच ।ततः सत्यवती पुत्रं जनयामास भार्गवम् ।तपस्यभिरतं शान्तं जमदग्निं शमात्मकम् ॥ २७ ॥
विश्वामित्रं च दायादं गाधिः कुशिकनन्दनः ।प्राप ब्रह्मर्षिसमितं विश्वेन ब्रह्मणा युतम् ॥ २८ ॥
आर्चीको जनयामास जमदग्निः सुदारुणम् ।सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदे च पारगम् ।रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् ॥ २९ ॥
एतस्मिन्नेव काले तु कृतवीर्यात्मजो बली ।अर्जुनो नाम तेजस्वी क्षत्रियो हैहयान्वयः ॥ ३० ॥
ददाह पृथिवीं सर्वां सप्तद्वीपां सपत्तनाम् ।स्वबाह्वस्त्रबलेनाजौ धर्मेण परमेण च ॥ ३१ ॥
तृषितेन स कौरव्य भिक्षितश्चित्रभानुना ।सहस्रबाहुर्विक्रान्तः प्रादाद्भिक्षामथाग्नये ॥ ३२ ॥
ग्रामान्पुराणि घोषांश्च पत्तनानि च वीर्यवान् ।जज्वाल तस्य बाणैस्तु चित्रभानुर्दिधक्षया ॥ ३३ ॥
स तस्य पुरुषेन्द्रस्य प्रभावेन महातपाः ।ददाह कार्तवीर्यस्य शैलानथ वनानि च ॥ ३४ ॥
स शून्यमाश्रमारण्यं वरुणस्यात्मजस्य तत् ।ददाह पवनेनेद्धश्चित्रभानुः सहैहयः ॥ ३५ ॥
आपवस्तं ततो रोषाच्छशापार्जुनमच्युत ।दग्धेऽऽश्रमे महाराज कार्तवीर्येण वीर्यवान् ॥ ३६ ॥
त्वया न वर्जितं मोहाद्यस्माद्वनमिदं मम ।दग्धं तस्माद्रणे रामो बाहूंस्ते छेत्स्यतेऽर्जुन ॥ ३७ ॥
अर्जुनस्तु महाराज बली नित्यं शमात्मकः ।ब्रह्मण्यश्च शरण्यश्च दाता शूरश्च भारत ॥ ३८ ॥
तस्य पुत्राः सुबलिनः शापेनासन्पितुर्वधे ।निमित्तमवलिप्ता वै नृशंसाश्चैव नित्यदा ॥ ३९ ॥
जमदग्निधेन्वास्ते वत्समानिन्युर्भरतर्षभ ।अज्ञातं कार्तवीर्यस्य हैहयेन्द्रस्य धीमतः ॥ ४० ॥
ततोऽर्जुनस्य बाहूंस्तु छित्त्वा वै पौरुषान्वितः ।तं रुवन्तं ततो वत्सं जामदग्न्यः स्वमाश्रमम् ।प्रत्यानयत राजेन्द्र तेषामन्तःपुरात्प्रभुः ॥ ४१ ॥
अर्जुनस्य सुतास्ते तु संभूयाबुद्धयस्तदा ।गत्वाश्रममसंबुद्धं जमदग्नेर्महात्मनः ॥ ४२ ॥
अपातयन्त भल्लाग्रैः शिरः कायान्नराधिप ।समित्कुशार्थं रामस्य निर्गतस्य महात्मनः ॥ ४३ ॥
ततः पितृवधामर्षाद्रामः परममन्युमान् ।निःक्षत्रियां प्रतिश्रुत्य महीं शस्त्रमगृह्णत ॥ ४४ ॥
ततः स भृगुशार्दूलः कार्तवीर्यस्य वीर्यवान् ।विक्रम्य निजघानाशु पुत्रान्पौत्रांश्च सर्वशः ॥ ४५ ॥
स हैहयसहस्राणि हत्वा परममन्युमान् ।चकार भार्गवो राजन्महीं शोणितकर्दमाम् ॥ ४६ ॥
स तथा सुमहातेजाः कृत्वा निःक्षत्रियां महीम् ।कृपया परयाविष्टो वनमेव जगाम ह ॥ ४७ ॥
ततो वर्षसहस्रेषु समतीतेषु केषुचित् ।क्षोभं संप्राप्तवांस्तीव्रं प्रकृत्या कोपनः प्रभुः ॥ ४८ ॥
विश्वामित्रस्य पौत्रस्तु रैभ्यपुत्रो महातपाः ।परावसुर्महाराज क्षिप्त्वाह जनसंसदि ॥ ४९ ॥
ये ते ययातिपतने यज्ञे सन्तः समागताः ।प्रतर्दनप्रभृतयो राम किं क्षत्रिया न ते ॥ ५० ॥
मिथ्याप्रतिज्ञो राम त्वं कत्थसे जनसंसदि ।भयात्क्षत्रियवीराणां पर्वतं समुपाश्रितः ॥ ५१ ॥
स पुनः क्षत्रियशतैः पृथिवीमनुसंतताम् ।परावसोस्तदा श्रुत्वा शस्त्रं जग्राह भार्गवः ॥ ५२ ॥
ततो ये क्षत्रिया राजञ्शतशस्तेन जीविताः ।ते विवृद्धा महावीर्याः पृथिवीपतयोऽभवन् ॥ ५३ ॥
स पुनस्ताञ्जघानाशु बालानपि नराधिप ।गर्भस्थैस्तु मही व्याप्ता पुनरेवाभवत्तदा ॥ ५४ ॥
जातं जातं स गर्भं तु पुनरेव जघान ह ।अरक्षंश्च सुतान्कांश्चित्तदा क्षत्रिययोषितः ॥ ५५ ॥
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः ।दक्षिणामश्वमेधान्ते कश्यपायाददत्ततः ॥ ५६ ॥
क्षत्रियाणां तु शेषार्थं करेणोद्दिश्य कश्यपः ।स्रुक्प्रग्रहवता राजञ्श्रीमान्वाक्यमथाब्रवीत् ॥ ५७ ॥
गच्छ पारं समुद्रस्य दक्षिणस्य महामुने ।न ते मद्विषये राम वस्तव्यमिह कर्हिचित् ॥ ५८ ॥
ततः शूर्पारकं देशं सागरस्तस्य निर्ममे ।संत्रासाज्जामदग्न्यस्य सोऽपरान्तं महीतलम् ॥ ५९ ॥
कश्यपस्तु महाराज प्रतिगृह्य महीमिमाम् ।कृत्वा ब्राह्मणसंस्थां वै प्रविवेश महावनम् ॥ ६० ॥
ततः शूद्राश्च वैश्याश्च यथास्वैरप्रचारिणः ।अवर्तन्त द्विजाग्र्याणां दारेषु भरतर्षभ ॥ ६१ ॥
अराजके जीवलोके दुर्बला बलवत्तरैः ।बाध्यन्ते न च वित्तेषु प्रभुत्वमिह कस्यचित् ॥ ६२ ॥
ततः कालेन पृथिवी प्रविवेश रसातलम् ।अरक्ष्यमाणा विधिवत्क्षत्रियैर्धर्मरक्षिभिः ॥ ६३ ॥
ऊरुणा धारयामास कश्यपः पृथिवीं ततः ।निमज्जन्तीं तदा राजंस्तेनोर्वीति मही स्मृता ॥ ६४ ॥
रक्षिणश्च समुद्दिश्य प्रायाचत्पृथिवी तदा ।प्रसाद्य कश्यपं देवी क्षत्रियान्बाहुशालिनः ॥ ६५ ॥
सन्ति ब्रह्मन्मया गुप्ता नृषु क्षत्रियपुंगवाः ।हैहयानां कुले जातास्ते संरक्षन्तु मां मुने ॥ ६६ ॥
अस्ति पौरवदायादो विडूरथसुतः प्रभो ।ऋक्षैः संवर्धितो विप्र ऋक्षवत्येव पर्वते ॥ ६७ ॥
तथानुकम्पमानेन यज्वनाथामितौजसा ।पराशरेण दायादः सौदासस्याभिरक्षितः ॥ ६८ ॥
सर्वकर्माणि कुरुते तस्यर्षेः शूद्रवद्धि सः ।सर्वकर्मेत्यभिख्यातः स मां रक्षतु पार्थिवः ॥ ६९ ॥
शिबेः पुत्रो महातेजा गोपतिर्नाम नामतः ।वने संरक्षितो गोभिः सोऽभिरक्षतु मां मुने ॥ ७० ॥
प्रतर्दनस्य पुत्रस्तु वत्सो नाम महायशाः ।वत्सैः संवर्धितो गोष्ठे स मां रक्षतु पार्थिवः ॥ ७१ ॥
दधिवाहनपौत्रस्तु पुत्रो दिविरथस्य ह ।अङ्गः स गौतमेनापि गङ्गाकूलेऽभिरक्षितः ॥ ७२ ॥
बृहद्रथो महाबाहुर्भुवि भूतिपुरस्कृतः ।गोलाङ्गूलैर्महाभागो गृध्रकूटेऽभिरक्षितः ॥ ७३ ॥
मरुत्तस्यान्ववाये तु क्षत्रियास्तुर्वसोस्त्रयः ।मरुत्पतिसमा वीर्ये समुद्रेणाभिरक्षिताः ॥ ७४ ॥
एते क्षत्रियदायादास्तत्र तत्र परिश्रुताः ।सम्यङ्मामभिरक्षन्तु ततः स्थास्यामि निश्चला ॥ ७५ ॥
एतेषां पितरश्चैव तथैव च पितामहाः ।मदर्थं निहता युद्धे रामेणाक्लिष्टकर्मणा ॥ ७६ ॥
तेषामपचितिश्चैव मया कार्या न संशयः ।न ह्यहं कामये नित्यमविक्रान्तेन रक्षणम् ॥ ७७ ॥
ततः पृथिव्या निर्दिष्टांस्तान्समानीय कश्यपः ।अभ्यषिञ्चन्महीपालान्क्षत्रियान्वीर्यसंमतान् ॥ ७८ ॥
तेषां पुत्राश्च पौत्राश्च येषां वंशाः प्रतिष्ठिताः ।एवमेतत्पुरा वृत्तं यन्मां पृच्छसि पाण्डव ॥ ७९ ॥
वैशंपायन उवाच ।एवं ब्रुवन्नेव यदुप्रवीरो युधिष्ठिरं धर्मभृतां वरिष्ठम् ।रथेन तेनाशु ययौ यथार्को विशन्प्रभाभिर्भगवांस्त्रिलोकम् ॥ ८० ॥
« »