Click on words to see what they mean.

वैशंपायन उवाच ।ततो रामस्य तत्कर्म श्रुत्वा राजा युधिष्ठिरः ।विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम् ॥ १ ॥
अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः ।विक्रमो येन वसुधा क्रोधान्निःक्षत्रिया कृता ॥ २ ॥
गोभिः समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः ।गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः ॥ ३ ॥
अहो धन्यो हि लोकोऽयं सभाग्याश्च नरा भुवि ।यत्र कर्मेदृशं धर्म्यं द्विजेन कृतमच्युत ॥ ४ ॥
तथा यान्तौ तदा तात तावच्युतयुधिष्ठिरौ ।जग्मतुर्यत्र गाङ्गेयः शरतल्पगतः प्रभुः ॥ ५ ॥
ततस्ते ददृशुर्भीष्मं शरप्रस्तरशायिनम् ।स्वरश्मिजालसंवीतं सायंसूर्यमिवानलम् ॥ ६ ॥
उपास्यमानं मुनिभिर्देवैरिव शतक्रतुम् ।देशे परमधर्मिष्ठे नदीमोघवतीमनु ॥ ७ ॥
दूरादेव तमालोक्य कृष्णो राजा च धर्मराट् ।चत्वारः पाण्डवाश्चैव ते च शारद्वतादयः ॥ ८ ॥
अवस्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः ।एकीकृत्येन्द्रियग्राममुपतस्थुर्महामुनीन् ॥ ९ ॥
अभिवाद्य च गोविन्दः सात्यकिस्ते च कौरवाः ।व्यासादींस्तानृषीन्पश्चाद्गाङ्गेयमुपतस्थिरे ॥ १० ॥
तपोवृद्धिं ततः पृष्ट्वा गाङ्गेयं यदुकौरवाः ।परिवार्य ततः सर्वे निषेदुः पुरुषर्षभाः ॥ ११ ॥
ततो निशम्य गाङ्गेयं शाम्यमानमिवानलम् ।किंचिद्दीनमना भीष्ममिति होवाच केशवः ॥ १२ ॥
कच्चिज्ज्ञानानि ते राजन्प्रसन्नानि यथा पुरा ।कच्चिदव्याकुला चैव बुद्धिस्ते वदतां वर ॥ १३ ॥
शराभिघातदुःखात्ते कच्चिद्गात्रं न दूयते ।मानसादपि दुःखाद्धि शारीरं बलवत्तरम् ॥ १४ ॥
वरदानात्पितुः कामं छन्दमृत्युरसि प्रभो ।शंतनोर्धर्मशीलस्य न त्वेतच्छमकारणम् ॥ १५ ॥
सुसूक्ष्मोऽपीह देहे वै शल्यो जनयते रुजम् ।किं पुनः शरसंघातैश्चितस्य तव भारत ॥ १६ ॥
कामं नैतत्तवाख्येयं प्राणिनां प्रभवाप्ययौ ।भवान्ह्युपदिशेच्छ्रेयो देवानामपि भारत ॥ १७ ॥
यद्धि भूतं भविष्यच्च भवच्च पुरुषर्षभ ।सर्वं तज्ज्ञानवृद्धस्य तव पाणाविवाहितम् ॥ १८ ॥
संसारश्चैव भूतानां धर्मस्य च फलोदयः ।विदितस्ते महाप्राज्ञ त्वं हि ब्रह्ममयो निधिः ॥ १९ ॥
त्वां हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम् ।स्त्रीसहस्रैः परिवृतं पश्यामीहोर्ध्वरेतसम् ॥ २० ॥
ऋते शांतनवाद्भीष्मात्त्रिषु लोकेषु पार्थिव ।सत्यसंधान्महावीर्याच्छूराद्धर्मैकतत्परात् ॥ २१ ॥
मृत्युमावार्य तरसा शरप्रस्तरशायिनः ।निसर्गप्रभवं किंचिन्न च तातानुशुश्रुम ॥ २२ ॥
सत्ये तपसि दाने च यज्ञाधिकरणे तथा ।धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे ॥ २३ ॥
अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम् ।महारथं त्वत्सदृशं न कंचिदनुशुश्रुम ॥ २४ ॥
त्वं हि देवान्सगन्धर्वान्ससुरासुरराक्षसान् ।शक्त एकरथेनैव विजेतुं नात्र संशयः ॥ २५ ॥
त्वं हि भीष्म महाबाहो वसूनां वासवोपमः ।नित्यं विप्रैः समाख्यातो नवमोऽनवमो गुणैः ॥ २६ ॥
अहं हि त्वाभिजानामि यस्त्वं पुरुषसत्तम ।त्रिदशेष्वपि विख्यातः स्वशक्त्या सुमहाबलः ॥ २७ ॥
मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः ।भवतो यो गुणैस्तुल्यः पृथिव्यां पुरुषः क्वचित् ॥ २८ ॥
त्वं हि सर्वैर्गुणै राजन्देवानप्यतिरिच्यसे ।तपसा हि भवाञ्शक्तः स्रष्टुं लोकांश्चराचरान् ॥ २९ ॥
तदस्य तप्यमानस्य ज्ञातीनां संक्षयेण वै ।ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद ॥ ३० ॥
ये हि धर्माः समाख्याताश्चातुर्वर्ण्यस्य भारत ।चातुराश्रम्यसंसृष्टास्ते सर्वे विदितास्तव ॥ ३१ ॥
चातुर्वेद्ये च ये प्रोक्ताश्चातुर्होत्रे च भारत ।सांख्ये योगे च नियता ये च धर्माः सनातनाः ॥ ३२ ॥
चातुर्वर्ण्येन यश्चैको धर्मो न स्म विरुध्यते ।सेव्यमानः स चैवाद्यो गाङ्गेय विदितस्तव ॥ ३३ ॥
इतिहासपुराणं च कार्त्स्न्येन विदितं तव ।धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम् ॥ ३४ ॥
ये च केचन लोकेऽस्मिन्नर्थाः संशयकारकाः ।तेषां छेत्ता नास्ति लोके त्वदन्यः पुरुषर्षभ ॥ ३५ ॥
स पाण्डवेयस्य मनःसमुत्थितं नरेन्द्र शोकं व्यपकर्ष मेधया ।भवद्विधा ह्युत्तमबुद्धिविस्तरा विमुह्यमानस्य जनस्य शान्तये ॥ ३६ ॥
« »