Click on words to see what they mean.

जनमेजय उवाच ।शरतल्पे शयानस्तु भरतानां पितामहः ।कथमुत्सृष्टवान्देहं कं च योगमधारयत् ॥ १ ॥
वैशंपायन उवाच ।शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः ।भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः ॥ २ ॥
निवृत्तमात्रे त्वयन उत्तरे वै दिवाकरे ।समावेशयदात्मानमात्मन्येव समाहितः ॥ ३ ॥
विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः ।शिश्ये परमया लक्ष्म्या वृतो ब्राह्मणसत्तमैः ॥ ४ ॥
व्यासेन वेदश्रवसा नारदेन सुरर्षिणा ।देवस्थानेन वात्स्येन तथाश्मकसुमन्तुना ॥ ५ ॥
एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः ।श्रद्धादमपुरस्कारैर्वृतश्चन्द्र इव ग्रहैः ॥ ६ ॥
भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा ।शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः स्थितः ॥ ७ ॥
स्वरेण पुष्टनादेन तुष्टाव मधुसूदनम् ।योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ॥ ८ ॥
कृताञ्जलिः शुचिर्भूत्वा वाग्विदां प्रवरः प्रभुम् ।भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत् ॥ ९ ॥
आरिराधयिषुः कृष्णं वाचं जिगमिषामि याम् ।तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः ॥ १० ॥
शुचिः शुचिषदं हंसं तत्परः परमेष्ठिनम् ।युक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम् ॥ ११ ॥
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च ।गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥ १२ ॥
यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति ।सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ॥ १३ ॥
हरिं सहस्रशिरसं सहस्रचरणेक्षणम् ।प्राहुर्नारायणं देवं यं विश्वस्य परायणम् ॥ १४ ॥
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ।गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥ १५ ॥
यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च ।गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥ १६ ॥
चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्वतां पतिम् ।यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः ॥ १७ ॥
यं देवं देवकी देवी वसुदेवादजीजनत् ।भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः ॥ १८ ॥
यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् ।इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् ॥ १९ ॥
पुराणे पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु ।क्षये संकर्षणः प्रोक्तस्तमुपास्यमुपास्महे ॥ २० ॥
अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम् ।अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् ॥ २१ ॥
यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् ।वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् ॥ २२ ॥
हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम् ।एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः ॥ २३ ॥
शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः ।यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ॥ २४ ॥
महतस्तमसः पारे पुरुषं ज्वलनद्युतिम् ।यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः ॥ २५ ॥
यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे ।यं विप्रसंघा गायन्ति तस्मै वेदात्मने नमः ॥ २६ ॥
ऋग्यजुःसामधामानं दशार्धहविराकृतिम् ।यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः ॥ २७ ॥
यः सुपर्णो यजुर्नाम छन्दोगात्रस्त्रिवृच्छिराः ।रथंतरबृहत्यक्षस्तस्मै स्तोत्रात्मने नमः ॥ २८ ॥
यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः ।हिरण्यवर्णः शकुनिस्तस्मै हंसात्मने नमः ॥ २९ ॥
पदाङ्गं संधिपर्वाणं स्वरव्यञ्जनलक्षणम् ।यमाहुरक्षरं नित्यं तस्मै वागात्मने नमः ॥ ३० ॥
यश्चिनोति सतां सेतुमृतेनामृतयोनिना ।धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः ॥ ३१ ॥
यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः ।पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः ॥ ३२ ॥
यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः ।क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः ॥ ३३ ॥
यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः ।प्राहुः सप्तदशं सांख्यास्तस्मै सांख्यात्मने नमः ॥ ३४ ॥
यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः ।ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ ३५ ॥
अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः ।शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ॥ ३६ ॥
योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः ।संभक्षयति भूतानि तस्मै घोरात्मने नमः ॥ ३७ ॥
संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् ।बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ॥ ३८ ॥
सहस्रशिरसे तस्मै पुरुषायामितात्मने ।चतुःसमुद्रपर्याययोगनिद्रात्मने नमः ॥ ३९ ॥
अजस्य नाभावध्येकं यस्मिन्विश्वं प्रतिष्ठितम् ।पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः ॥ ४० ॥
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु ।कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥ ४१ ॥
युगेष्वावर्तते योंऽशैर्दिनर्त्वयनहायनैः ।सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः ॥ ४२ ॥
ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः ।पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः ॥ ४३ ॥
यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ।सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः ॥ ४४ ॥
विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः ।प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः ॥ ४५ ॥
अन्नपानेन्धनमयो रसप्राणविवर्धनः ।यो धारयति भूतानि तस्मै प्राणात्मने नमः ॥ ४६ ॥
परः कालात्परो यज्ञात्परः सदसतोश्च यः ।अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः ॥ ४७ ॥
यो मोहयति भूतानि स्नेहरागानुबन्धनैः ।सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः ॥ ४८ ॥
आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम् ।यं ज्ञानिनोऽधिगच्छन्ति तस्मै ज्ञानात्मने नमः ॥ ४९ ॥
अप्रमेयशरीराय सर्वतोऽनन्तचक्षुषे ।अपारपरिमेयाय तस्मै चिन्त्यात्मने नमः ॥ ५० ॥
जटिने दण्डिने नित्यं लम्बोदरशरीरिणे ।कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ॥ ५१ ॥
शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने ।भस्मदिग्धोर्ध्वलिङ्गाय तस्मै रुद्रात्मने नमः ॥ ५२ ॥
पञ्चभूतात्मभूताय भूतादिनिधनात्मने ।अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः ॥ ५३ ॥
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ॥ ५४ ॥
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव ।अपवर्गोऽसि भूतानां पञ्चानां परतः स्थितः ॥ ५५ ॥
नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु ।नमस्ते दिक्षु सर्वासु त्वं हि सर्वपरायणम् ॥ ५६ ॥
नमस्ते भगवन्विष्णो लोकानां प्रभवाप्यय ।त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः ॥ ५७ ॥
तेन पश्यामि ते दिव्यान्भावान्हि त्रिषु वर्त्मसु ।तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम् ॥ ५८ ॥
दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुंधरा ।विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः ॥ ५९ ॥
अतसीपुष्पसंकाशं पीतवाससमच्युतम् ।ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ॥ ६० ॥
यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः ।यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा ॥ ६१ ॥
त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे ।यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम ॥ ६२ ॥
इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः ।वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥ ६३ ॥
एतावदुक्त्वा वचनं भीष्मस्तद्गतमानसः ।नम इत्येव कृष्णाय प्रणाममकरोत्तदा ॥ ६४ ॥
अभिगम्य तु योगेन भक्तिं भीष्मस्य माधवः ।त्रैकाल्यदर्शनं ज्ञानं दिव्यं दातुं ययौ हरिः ॥ ६५ ॥
तस्मिन्नुपरते शब्दे ततस्ते ब्रह्मवादिनः ।भीष्मं वाग्भिर्बाष्पकण्ठास्तमानर्चुर्महामतिम् ॥ ६६ ॥
ते स्तुवन्तश्च विप्राग्र्याः केशवं पुरुषोत्तमम् ।भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः ॥ ६७ ॥
विदित्वा भक्तियोगं तु भीष्मस्य पुरुषोत्तमः ।सहसोत्थाय संहृष्टो यानमेवान्वपद्यत ॥ ६८ ॥
केशवः सात्यकिश्चैव रथेनैकेन जग्मतुः ।अपरेण महात्मानौ युधिष्ठिरधनंजयौ ॥ ६९ ॥
भीमसेनो यमौ चोभौ रथमेकं समास्थितौ ।कृपो युयुत्सुः सूतश्च संजयश्चापरं रथम् ॥ ७० ॥
ते रथैर्नगराकारैः प्रयाताः पुरुषर्षभाः ।नेमिघोषेण महता कम्पयन्तो वसुंधराम् ॥ ७१ ॥
ततो गिरः पुरुषवरस्तवान्विता द्विजेरिताः पथि सुमनाः स शुश्रुवे ।कृताञ्जलिं प्रणतमथापरं जनं स केशिहा मुदितमनाभ्यनन्दत ॥ ७२ ॥
« »