Click on words to see what they mean.

जनमेजय उवाच ।अस्तौषीद्यैरिमं व्यासः सशिष्यो मधुसूदनम् ।नामभिर्विविधैरेषां निरुक्तं भगवन्मम ॥ १ ॥
वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरेः ।श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः ॥ २ ॥
वैशंपायन उवाच ।शृणु राजन्यथाचष्ट फल्गुनस्य हरिर्विभुः ।प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम् ॥ ३ ॥
नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः ।पृष्टवान्केशवं राजन्फल्गुनः परवीरहा ॥ ४ ॥
अर्जुन उवाच ।भगवन्भूतभव्येश सर्वभूतसृगव्यय ।लोकधाम जगन्नाथ लोकानामभयप्रद ॥ ५ ॥
यानि नामानि ते देव कीर्तितानि महर्षिभिः ।वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः ॥ ६ ॥
तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव ।न ह्यन्यो वर्तयेन्नाम्नां निरुक्तं त्वामृते प्रभो ॥ ७ ॥
श्रीभगवानुवाच ।ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु ।पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन ॥ ८ ॥
सांख्ये च योगशास्त्रे च आयुर्वेदे तथैव च ।बहूनि मम नामानि कीर्तितानि महर्षिभिः ॥ ९ ॥
गौणानि तत्र नामानि कर्मजानि च कानिचित् ।निरुक्तं कर्मजानां च शृणुष्व प्रयतोऽनघ ।कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा ॥ १० ॥
नमोऽतियशसे तस्मै देहिनां परमात्मने ।नारायणाय विश्वाय निर्गुणाय गुणात्मने ॥ ११ ॥
यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसंभवः ।योऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च ॥ १२ ॥
अष्टादशगुणं यत्तत्सत्त्वं सत्त्ववतां वर ।प्रकृतिः सा परा मह्यं रोदसी योगधारिणी ।ऋता सत्यामराजय्या लोकानामात्मसंज्ञिता ॥ १३ ॥
तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।ततो यज्ञश्च यष्टा च पुराणः पुरुषो विराट् ।अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः ॥ १४ ॥
ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः ।प्रसादात्प्रादुरभवत्पद्मं पद्मनिभेक्षण ।तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः ॥ १५ ॥
अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा ।क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः ॥ १६ ॥
एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ ।तदादेशितपन्थानौ सृष्टिसंहारकारकौ ।निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ ॥ १७ ॥
कपर्दी जटिलो मुण्डः श्मशानगृहसेवकः ।उग्रव्रतधरो रुद्रो योगी त्रिपुरदारुणः ॥ १८ ॥
दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा ।नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे ॥ १९ ॥
तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे ।संपूजितो भवेत्पार्थ देवो नारायणः प्रभुः ॥ २० ॥
अहमात्मा हि लोकानां विश्वानां पाण्डुनन्दन ।तस्मादात्मानमेवाग्रे रुद्रं संपूजयाम्यहम् ॥ २१ ॥
यद्यहं नार्चयेयं वै ईशानं वरदं शिवम् ।आत्मानं नार्चयेत्कश्चिदिति मे भावितं मनः ।मया प्रमाणं हि कृतं लोकः समनुवर्तते ॥ २२ ॥
प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम् ।यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु ॥ २३ ॥
रुद्रो नारायणश्चैव सत्त्वमेकं द्विधाकृतम् ।लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु ॥ २४ ॥
न हि मे केनचिद्देयो वरः पाण्डवनन्दन ।इति संचिन्त्य मनसा पुराणं विश्वमीश्वरम् ।पुत्रार्थमाराधितवानात्मानमहमात्मना ॥ २५ ॥
न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय तु ।ऋत आत्मानमेवेति ततो रुद्रं भजाम्यहम् ॥ २६ ॥
सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः ।अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् ॥ २७ ॥
भविष्यतां वर्ततां च भूतानां चैव भारत ।सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः ॥ २८ ॥
नमस्व हव्यदं विष्णुं तथा शरणदं नम ।वरदं नमस्व कौन्तेय हव्यकव्यभुजं नम ॥ २९ ॥
चतुर्विधा मम जना भक्ता एवं हि ते श्रुतम् ।तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः ।अहमेव गतिस्तेषां निराशीःकर्मकारिणाम् ॥ ३० ॥
ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः ।सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु श्रेष्ठभाक् ॥ ३१ ॥
ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः ।प्रबुद्धवर्याः सेवन्ते मामेवैष्यन्ति यत्परम् ।भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः ॥ ३२ ॥
त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ ।भारावतरणार्थं हि प्रविष्टौ मानुषीं तनुम् ॥ ३३ ॥
जानाम्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत ।निवृत्तिलक्षणो धर्मस्तथाभ्युदयिकोऽपि च ॥ ३४ ॥
नराणामयनं ख्यातमहमेकः सनातनः ।आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।अयनं मम तत्पूर्वमतो नारायणो ह्यहम् ॥ ३५ ॥
छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः ।सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम् ॥ ३६ ॥
गतिश्च सर्वभूतानां प्रजानां चापि भारत ।व्याप्ता मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम ॥ ३७ ॥
अधिभूतानि चान्तेऽहं तदिच्छंश्चास्मि भारत ।क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितः ॥ ३८ ॥
दमात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति हि ।दिवं चोर्वीं च मध्यं च तस्माद्दामोदरो ह्यहम् ॥ ३९ ॥
पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं तथा ।ममैतानि सदा गर्भे पृश्निगर्भस्ततो ह्यहम् ॥ ४० ॥
ऋषयः प्राहुरेवं मां त्रितकूपाभिपातितम् ।पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम् ॥ ४१ ॥
ततः स ब्रह्मणः पुत्र आद्यो ऋषिवरस्त्रितः ।उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात् ॥ ४२ ॥
सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत ।अंशवो ये प्रकाशन्ते मम ते केशसंज्ञिताः ।सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः ॥ ४३ ॥
स्वपत्न्यामाहितो गर्भ उतथ्येन महात्मना ।उतथ्येऽन्तर्हिते चैव कदाचिद्देवमायया ।बृहस्पतिरथाविन्दत्तां पत्नीं तस्य भारत ॥ ४४ ॥
ततो वै तमृषिश्रेष्ठं मैथुनोपगतं तथा ।उवाच गर्भः कौन्तेय पञ्चभूतसमन्वितः ॥ ४५ ॥
पूर्वागतोऽहं वरद नार्हस्यम्बां प्रबाधितुम् ।एतद्बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च ॥ ४६ ॥
मैथुनोपगतो यस्मात्त्वयाहं विनिवारितः ।तस्मादन्धो जास्यसि त्वं मच्छापान्नात्र संशयः ॥ ४७ ॥
स शापादृषिमुख्यस्य दीर्घं तम उपेयिवान् ।स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा ॥ ४८ ॥
वेदानवाप्य चतुरः साङ्गोपाङ्गान्सनातनान् ।प्रयोजयामास तदा नाम गुह्यमिदं मम ॥ ४९ ॥
आनुपूर्व्येण विधिना केशवेति पुनः पुनः ।स चक्षुष्मान्समभवद्गौतमश्चाभवत्पुनः ॥ ५० ॥
एवं हि वरदं नाम केशवेति ममार्जुन ।देवानामथ सर्वेषामृषीणां च महात्मनाम् ॥ ५१ ॥
अग्निः सोमेन संयुक्त एकयोनि मुखं कृतम् ।अग्नीषोमात्मकं तस्माज्जगत्कृत्स्नं चराचरम् ॥ ५२ ॥
अपि हि पुराणे भवति ।एकयोन्यात्मकावग्नीषोमौ ।देवाश्चाग्निमुखा इति ।एकयोनित्वाच्च परस्परं महयन्तो लोकान्धारयत इति ॥ ५३ ॥
« »