Click on words to see what they mean.

जनमेजय उवाच ।कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः ।यज्ञधारी च सततं वेदवेदाङ्गवित्तथा ॥ १ ॥
निवृत्तं चास्थितो धर्मं क्षेमी भागवतप्रियः ।प्रवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः ॥ २ ॥
कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः ।कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः ॥ ३ ॥
एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम् ।त्वया नारायणकथा श्रुता वै धर्मसंहिता ॥ ४ ॥
इमे सब्रह्मका लोकाः ससुरासुरमानवाः ।क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः ।मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम् ॥ ५ ॥
ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः ।ते सहस्रार्चिषं देवं प्रविशन्तीति शुश्रुमः ॥ ६ ॥
अहो हि दुरनुष्ठेयो मोक्षधर्मः सनातनः ।यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन् ॥ ७ ॥
किं नु ब्रह्मा च रुद्रश्च शक्रश्च बलभित्प्रभुः ।सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च ।आकाशं जगती चैव ये च शेषा दिवौकसः ॥ ८ ॥
प्रलयं न विजानन्ति आत्मनः परिनिर्मितम् ।ततस्ते नास्थिता मार्गं ध्रुवमक्षयमव्ययम् ॥ ९ ॥
स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः ।दोषः कालपरीमाणे महानेष क्रियावताम् ॥ १० ॥
एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम् ।छिन्धीतिहासकथनात्परं कौतूहलं हि मे ॥ ११ ॥
कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज ।किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः ॥ १२ ॥
ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम ।ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै ॥ १३ ॥
वैशंपायन उवाच ।अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर ।नातप्ततपसा ह्येष नावेदविदुषा तथा ।नापुराणविदा चापि शक्यो व्याहर्तुमञ्जसा ॥ १४ ॥
हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः ।कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः ॥ १५ ॥
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः ।अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः ॥ १६ ॥
एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान् ।शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान् ॥ १७ ॥
वेदानध्यापयामास महाभारतपञ्चमान् ।मेरौ गिरिवरे रम्ये सिद्धचारणसेविते ॥ १८ ॥
तेषामभ्यस्यतां वेदान्कदाचित्संशयोऽभवत् ।एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः ।ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत ॥ १९ ॥
शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः ।पराशरसुतः श्रीमान्व्यासो वाक्यमुवाच ह ॥ २० ॥
मया हि सुमहत्तप्तं तपः परमदारुणम् ।भूतं भव्यं भविष्यच्च जानीयामिति सत्तमाः ॥ २१ ॥
तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च ।नारायणप्रसादेन क्षीरोदस्यानुकूलतः ॥ २२ ॥
त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम् ।तच्छृणुध्वं यथाज्ञानं वक्ष्ये संशयमुत्तमम् ।यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा ॥ २३ ॥
परमात्मेति यं प्राहुः सांख्ययोगविदो जनाः ।महापुरुषसंज्ञां स लभते स्वेन कर्मणा ॥ २४ ॥
तस्मात्प्रसूतमव्यक्तं प्रधानं तद्विदुर्बुधाः ।अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात् ॥ २५ ॥
अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते ।योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् ।सोऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः ॥ २६ ॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।अहंकारप्रसूतानि महाभूतानि भारत ॥ २७ ॥
महाभूतानि सृष्ट्वाथ तद्गुणान्निर्ममे पुनः ।भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तोऽष्ट ताञ्शृणु ॥ २८ ॥
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः ।वसिष्ठश्च महात्मा वै मनुः स्वायंभुवस्तथा ।ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः ॥ २९ ॥
वेदान्वेदाङ्गसंयुक्तान्यज्ञान्यज्ञाङ्गसंयुतान् ।निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः ।अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत् ॥ ३० ॥
रुद्रो रोषात्मको जातो दशान्यान्सोऽसृजत्स्वयम् ।एकादशैते रुद्रास्तु विकाराः पुरुषाः स्मृताः ॥ ३१ ॥
ते रुद्राः प्रकृतिश्चैव सर्वे चैव सुरर्षयः ।उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः ॥ ३२ ॥
वयं हि सृष्टा भगवंस्त्वया वै प्रभविष्णुना ।येन यस्मिन्नधीकारे वर्तितव्यं पितामह ॥ ३३ ॥
योऽसौ त्वया विनिर्दिष्टो अधिकारोऽर्थचिन्तकः ।परिपाल्यः कथं तेन सोऽधिकारोऽधिकारिणा ॥ ३४ ॥
प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः ।एवमुक्तो महादेवो देवांस्तानिदमब्रवीत् ॥ ३५ ॥
साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः ।ममाप्येषा समुत्पन्ना चिन्ता या भवतां मता ॥ ३६ ॥
लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः ।कथं बलक्षयो न स्याद्युष्माकं ह्यात्मनश्च मे ॥ ३७ ॥
इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम् ।महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम् ॥ ३८ ॥
ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा ।क्षीरोदस्योत्तरं कूलं जग्मुर्लोकहितार्थिनः ॥ ३९ ॥
ते तपः समुपातिष्ठन्ब्रह्मोक्तं वेदकल्पितम् ।स महानियमो नाम तपश्चर्या सुदारुणा ॥ ४० ॥
ऊर्ध्वं दृष्टिर्बाहवश्च एकाग्रं च मनोऽभवत् ।एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः ॥ ४१ ॥
दिव्यं वर्षसहस्रं ते तपस्तप्त्वा तदुत्तमम् ।शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम् ॥ ४२ ॥
भो भोः सब्रह्मका देवा ऋषयश्च तपोधनाः ।स्वागतेनार्च्य वः सर्वाञ्श्रावये वाक्यमुत्तमम् ॥ ४३ ॥
विज्ञातं वो मया कार्यं तच्च लोकहितं महत् ।प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम् ॥ ४४ ॥
सुतप्तं वस्तपो देवा ममाराधनकाम्यया ।भोक्ष्यथास्य महासत्त्वास्तपसः फलमुत्तमम् ॥ ४५ ॥
एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः ।यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः ॥ ४६ ॥
सर्वे भागान्कल्पयध्वं यज्ञेषु मम नित्यशः ।तथा श्रेयो विधास्यामि यथाधीकारमीश्वराः ॥ ४७ ॥
श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः ।ततस्ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः ॥ ४८ ॥
वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन् ।तस्मिन्सत्रे तदा ब्रह्मा स्वयं भागमकल्पयत् ।देवा देवर्षयश्चैव सर्वे भागानकल्पयन् ॥ ४९ ॥
ते कार्तयुगधर्माणो भागाः परमसत्कृताः ।प्रापुरादित्यवर्णं तं पुरुषं तमसः परम् ।बृहन्तं सर्वगं देवमीशानं वरदं प्रभुम् ॥ ५० ॥
ततोऽथ वरदो देवस्तान्सर्वानमरान्स्थितान् ।अशरीरो बभाषेदं वाक्यं खस्थो महेश्वरः ॥ ५१ ॥
येन यः कल्पितो भागः स तथा समुपागतः ।प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम् ॥ ५२ ॥
एतद्वो लक्षणं देवा मत्प्रसादसमुद्भवम् ।यूयं यज्ञैरिज्यमानाः समाप्तवरदक्षिणैः ।युगे युगे भविष्यध्वं प्रवृत्तिफलभोगिनः ॥ ५३ ॥
यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः ।कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान् ॥ ५४ ॥
यो मे यथा कल्पितवान्भागमस्मिन्महाक्रतौ ।स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः ॥ ५५ ॥
यूयं लोकान्धारयध्वं यज्ञभागफलोदिताः ।सर्वार्थचिन्तका लोके यथाधीकारनिर्मिताः ॥ ५६ ॥
याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः ।ताभिराप्यायितबला लोकान्वै धारयिष्यथ ॥ ५७ ॥
यूयं हि भाविता लोके सर्वयज्ञेषु मानवैः ।मां ततो भावयिष्यध्वमेषा वो भावना मम ॥ ५८ ॥
इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह ।एभिः सम्यक्प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ ॥ ५९ ॥
निर्माणमेतद्युष्माकं प्रवृत्तिगुणकल्पितम् ।मया कृतं सुरश्रेष्ठा यावत्कल्पक्षयादिति ।चिन्तयध्वं लोकहितं यथाधीकारमीश्वराः ॥ ६० ॥
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः ।वसिष्ठ इति सप्तैते मानसा निर्मिता हि वै ॥ ६१ ॥
एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः ।प्रवृत्तिधर्मिणश्चैव प्राजापत्येन कल्पिताः ॥ ६२ ॥
अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः ।अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः ॥ ६३ ॥
सनः सनत्सुजातश्च सनकः ससनन्दनः ।सनत्कुमारः कपिलः सप्तमश्च सनातनः ॥ ६४ ॥
सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः ।स्वयमागतविज्ञाना निवृत्तं धर्ममास्थिताः ॥ ६५ ॥
एते योगविदो मुख्याः सांख्यधर्मविदस्तथा ।आचार्या मोक्षशास्त्रे च मोक्षधर्मप्रवर्तकाः ॥ ६६ ॥
यतोऽहं प्रसृतः पूर्वमव्यक्तात्त्रिगुणो महान् ।तस्मात्परतरो योऽसौ क्षेत्रज्ञ इति कल्पितः ।सोऽहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः ॥ ६७ ॥
यो यथा निर्मितो जन्तुर्यस्मिन्यस्मिंश्च कर्मणि ।प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोऽश्नुतेऽवशः ॥ ६८ ॥
एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः ।एष माता पिता चैव युष्माकं च पितामहः ।मयानुशिष्टो भविता सर्वभूतवरप्रदः ॥ ६९ ॥
अस्य चैवानुजो रुद्रो ललाटाद्यः समुत्थितः ।ब्रह्मानुशिष्टो भविता सर्वत्रसवरप्रदः ॥ ७० ॥
गच्छध्वं स्वानधीकारांश्चिन्तयध्वं यथाविधि ।प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम् ॥ ७१ ॥
प्रदृश्यन्तां च कर्माणि प्राणिनां गतयस्तथा ।परिनिर्मितकालानि आयूंषि च सुरोत्तमाः ॥ ७२ ॥
इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते ।अहिंस्या यज्ञपशवो युगेऽस्मिन्नैतदन्यथा ।चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः ॥ ७३ ॥
ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति ।प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे ।तत्र पादचतुर्थो वै धर्मस्य न भविष्यति ॥ ७४ ॥
ततो वै द्वापरं नाम मिश्रः कालो भविष्यति ।द्विपादहीनो धर्मश्च युगे तस्मिन्भविष्यति ॥ ७५ ॥
ततस्तिष्येऽथ संप्राप्ते युगे कलिपुरस्कृते ।एकपादस्थितो धर्मो यत्र तत्र भविष्यति ॥ ७६ ॥
देवा ऊचुः ।एकपादस्थिते धर्मे यत्रक्वचनगामिनि ।कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः ॥ ७७ ॥
श्रीभगवानुवाच ।यत्र वेदाश्च यज्ञाश्च तपः सत्यं दमस्तथा ।अहिंसाधर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः ।स वै देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत् ॥ ७८ ॥
व्यास उवाच ।तेऽनुशिष्टा भगवता देवाः सर्षिगणास्तथा ।नमस्कृत्वा भगवते जग्मुर्देशान्यथेप्सितान् ॥ ७९ ॥
गतेषु त्रिदिवौकःसु ब्रह्मैकः पर्यवस्थितः ।दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम् ॥ ८० ॥
तं देवो दर्शयामास कृत्वा हयशिरो महत् ।साङ्गानावर्तयन्वेदान्कमण्डलुगणित्रधृक् ॥ ८१ ॥
ततोऽश्वशिरसं दृष्ट्वा तं देवममितौजसम् ।लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया ॥ ८२ ॥
मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः ।स परिष्वज्य देवेन वचनं श्रावितस्तदा ॥ ८३ ॥
लोककार्यगतीः सर्वास्त्वं चिन्तय यथाविधि ।धाता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः ।त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा ॥ ८४ ॥
यदा च सुरकार्यं ते अविषह्यं भविष्यति ।प्रादुर्भावं गमिष्यामि तदात्मज्ञानदेशिकः ॥ ८५ ॥
एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत ।तेनानुशिष्टो ब्रह्मापि स्वं लोकमचिराद्गतः ॥ ८६ ॥
एवमेष महाभागः पद्मनाभः सनातनः ।यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा ॥ ८७ ॥
निवृत्तिं चास्थितो धर्मं गतिमक्षयधर्मिणाम् ।प्रवृत्तिधर्मान्विदधे कृत्वा लोकस्य चित्रताम् ॥ ८८ ॥
स आदिः स मध्यः स चान्तः प्रजानां स धाता स धेयः स कर्ता स कार्यम् ।युगान्ते स सुप्तः सुसंक्षिप्य लोकान्युगादौ प्रबुद्धो जगद्ध्युत्ससर्ज ॥ ८९ ॥
तस्मै नमध्वं देवाय निर्गुणाय गुणात्मने ।अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम् ॥ ९० ॥
महाभूताधिपतये रुद्राणां पतये तथा ।आदित्यपतये चैव वसूनां पतये तथा ॥ ९१ ॥
अश्विभ्यां पतये चैव मरुतां पतये तथा ।वेदयज्ञाधिपतये वेदाङ्गपतयेऽपि च ॥ ९२ ॥
समुद्रवासिने नित्यं हरये मुञ्जकेशिने ।शान्तये सर्वभूतानां मोक्षधर्मानुभाषिणे ॥ ९३ ॥
तपसां तेजसां चैव पतये यशसोऽपि च ।वाचश्च पतये नित्यं सरितां पतये तथा ॥ ९४ ॥
कपर्दिने वराहाय एकशृङ्गाय धीमते ।विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा ॥ ९५ ॥
गुह्याय ज्ञानदृश्याय अक्षराय क्षराय च ।एष देवः संचरति सर्वत्रगतिरव्ययः ॥ ९६ ॥
एवमेतत्पुरा दृष्टं मया वै ज्ञानचक्षुषा ।कथितं तच्च वः सर्वं मया पृष्टेन तत्त्वतः ॥ ९७ ॥
क्रियतां मद्वचः शिष्याः सेव्यतां हरिरीश्वरः ।गीयतां वेदशब्दैश्च पूज्यतां च यथाविधि ॥ ९८ ॥
वैशंपायन उवाच ।इत्युक्तास्तु वयं तेन वेदव्यासेन धीमता ।सर्वे शिष्याः सुतश्चास्य शुकः परमधर्मवित् ॥ ९९ ॥
स चास्माकमुपाध्यायः सहास्माभिर्विशां पते ।चतुर्वेदोद्गताभिश्च ऋग्भिस्तमभितुष्टुवे ॥ १०० ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।एवं मेऽकथयद्राजन्पुरा द्वैपायनो गुरुः ॥ १०१ ॥
यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत् ।नमो भगवते कृत्वा समाहितमना नरः ॥ १०२ ॥
भवत्यरोगो द्युतिमान्बलरूपसमन्वितः ।आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ १०३ ॥
कामकामी लभेत्कामं दीर्घमायुरवाप्नुयात् ।ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत् ।वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात् ॥ १०४ ॥
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् ।लग्नगर्भा विमुच्येत गर्भिणी जनयेत्सुतम् ।वन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत् ॥ १०५ ॥
क्षेमेण गच्छेदध्वानमिदं यः पठते पथि ।यो यं कामं कामयते स तमाप्नोति च ध्रुवम् ॥ १०६ ॥
इदं महर्षेर्वचनं विनिश्चितं महात्मनः पुरुषवरस्य कीर्तनम् ।समागमं चर्षिदिवौकसामिमं निशम्य भक्ताः सुसुखं लभन्ते ॥ १०७ ॥
« »