Click on words to see what they mean.

युधिष्ठिर उवाच ।अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम ।कः प्राप्तो विनयं बुद्ध्या मोक्षतत्त्वं वदस्व मे ॥ १ ॥
संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः ।परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह ॥ २ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।जनकस्य च संवादं सुलभायाश्च भारत ॥ ३ ॥
संन्यासफलिकः कश्चिद्बभूव नृपतिः पुरा ।मैथिलो जनको नाम धर्मध्वज इति श्रुतः ॥ ४ ॥
स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतागमः ।इन्द्रियाणि समाधाय शशास वसुधामिमाम् ॥ ५ ॥
तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम् ।लोकेषु स्पृहयन्त्यन्ये पुरुषाः पुरुषेश्वर ॥ ६ ॥
अथ धर्मयुगे तस्मिन्योगधर्ममनुष्ठिता ।महीमनुचचारैका सुलभा नाम भिक्षुकी ॥ ७ ॥
तया जगदिदं सर्वमटन्त्या मिथिलेश्वरः ।तत्र तत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः ॥ ८ ॥
सा सुसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया ।दर्शने जातसंकल्पा जनकस्य बभूव ह ॥ ९ ॥
ततः सा विप्रहायाथ पूर्वरूपं हि योगतः ।अबिभ्रदनवद्याङ्गी रूपमन्यदनुत्तमम् ॥ १० ॥
चक्षुर्निमेषमात्रेण लघ्वस्त्रगतिगामिनी ।विदेहानां पुरीं सुभ्रूर्जगाम कमलेक्षणा ॥ ११ ॥
सा प्राप्य मिथिलां रम्यां समृद्धजनसंकुलाम् ।भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम् ॥ १२ ॥
राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस्तथा ।केयं कस्य कुतो वेति बभूवागतविस्मयः ॥ १३ ॥
ततोऽस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम् ।पूजितां पादशौचेन वरान्नेनाप्यतर्पयत् ॥ १४ ॥
अथ भुक्तवती प्रीता राजानं मन्त्रिभिर्वृतम् ।सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकी ॥ १५ ॥
सुलभा त्वस्य धर्मेषु मुक्तो नेति ससंशया ।सत्त्वं सत्त्वेन योगज्ञा प्रविवेश महीपते ॥ १६ ॥
नेत्राभ्यां नेत्रयोरस्य रश्मीन्संयोज्य रश्मिभिः ।सा स्म संचोदयिष्यन्तं योगबन्धैर्बबन्ध ह ॥ १७ ॥
जनकोऽप्युत्स्मयन्राजा भावमस्या विशेषयन् ।प्रतिजग्राह भावेन भावमस्या नृपोत्तमः ॥ १८ ॥
तदेकस्मिन्नधिष्ठाने संवादः श्रूयतामयम् ।छत्रादिषु विमुक्तस्य मुक्तायाश्च त्रिदण्डके ॥ १९ ॥
भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि ।कस्य च त्वं कुतो वेति पप्रच्छैनां महीपतिः ॥ २० ॥
श्रुते वयसि जातौ च सद्भावो नाधिगम्यते ।एष्वर्थेषूत्तरं तस्मात्प्रवेद्यं सत्समागमे ॥ २१ ॥
छत्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः ।स त्वां संमन्तुमिच्छामि मानार्हासि मता हि मे ॥ २२ ॥
यस्माच्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा ।यस्य नान्यः प्रवक्तास्ति मोक्षे तमपि मे शृणु ॥ २३ ॥
पाराशर्यसगोत्रस्य वृद्धस्य सुमहात्मनः ।भिक्षोः पञ्चशिखस्याहं शिष्यः परमसंमतः ॥ २४ ॥
सांख्यज्ञाने तथा योगे महीपालविधौ तथा ।त्रिविधे मोक्षधर्मेऽस्मिन्गताध्वा छिन्नसंशयः ॥ २५ ॥
स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन् ।वार्षिकांश्चतुरो मासान्पुरा मयि सुखोषितः ॥ २६ ॥
तेनाहं सांख्यमुख्येन सुदृष्टार्थेन तत्त्वतः ।श्रावितस्त्रिविधं मोक्षं न च राज्याद्विचालितः ॥ २७ ॥
सोऽहं तामखिलां वृत्तिं त्रिविधां मोक्षसंहिताम् ।मुक्तरागश्चराम्येकः पदे परमके स्थितः ॥ २८ ॥
वैराग्यं पुनरेतस्य मोक्षस्य परमो विधिः ।ज्ञानादेव च वैराग्यं जायते येन मुच्यते ॥ २९ ॥
ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत् ।महद्द्वंद्वप्रमोक्षाय सा सिद्धिर्या वयोतिगा ॥ ३० ॥
सेयं परमिका बुद्धिः प्राप्ता निर्द्वंद्वता मया ।इहैव गतमोहेन चरता मुक्तसङ्गिना ॥ ३१ ॥
यथा क्षेत्रं मृदूभूतमद्भिराप्लावितं तथा ।जनयत्यङ्कुरं कर्म नृणां तद्वत्पुनर्भवम् ॥ ३२ ॥
यथा चोत्तापितं बीजं कपाले यत्र तत्र वा ।प्राप्याप्यङ्कुरहेतुत्वमबीजत्वान्न जायते ॥ ३३ ॥
तद्वद्भगवता तेन शिखाप्रोक्तेन भिक्षुणा ।ज्ञानं कृतमबीजं मे विषयेषु न जायते ॥ ३४ ॥
नाभिषज्जति कस्मिंश्चिन्नानर्थे न परिग्रहे ।नाभिरज्यति चैतेषु व्यर्थत्वाद्रागदोषयोः ॥ ३५ ॥
यश्च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत् ।सव्यं वास्या च यस्तक्षेत्समावेतावुभौ मम ॥ ३६ ॥
सुखी सोऽहमवाप्तार्थः समलोष्टाश्मकाञ्चनः ।मुक्तसङ्गः स्थितो राज्ये विशिष्टोऽन्यैस्त्रिदण्डिभिः ॥ ३७ ॥
मोक्षे हि त्रिविधा निष्ठा दृष्टा पूर्वैर्महर्षिभिः ।ज्ञानं लोकोत्तरं यच्च सर्वत्यागश्च कर्मणाम् ॥ ३८ ॥
ज्ञाननिष्ठां वदन्त्येके मोक्षशास्त्रविदो जनाः ।कर्मनिष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः ॥ ३९ ॥
प्रहायोभयमप्येतज्ज्ञानं कर्म च केवलम् ।तृतीयेयं समाख्याता निष्ठा तेन महात्मना ॥ ४० ॥
यमे च नियमे चैव द्वेषे कामे परिग्रहे ।माने दम्भे तथा स्नेहे सदृशास्ते कुटुम्बिभिः ॥ ४१ ॥
त्रिदण्डादिषु यद्यस्ति मोक्षो ज्ञानेन केनचित् ।छत्रादिषु कथं न स्यात्तुल्यहेतौ परिग्रहे ॥ ४२ ॥
येन येन हि यस्यार्थः कारणेनेह कस्यचित् ।तत्तदालम्बते द्रव्यं सर्वः स्वे स्वे परिग्रहे ॥ ४३ ॥
दोषदर्शी तु गार्हस्थ्ये यो व्रजत्याश्रमान्तरम् ।उत्सृजन्परिगृह्णंश्च सोऽपि सङ्गान्न मुच्यते ॥ ४४ ॥
आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मनि ।राजर्षिभिक्षुकाचार्या मुच्यन्ते केन हेतुना ॥ ४५ ॥
अथ सत्याधिपत्येऽपि ज्ञानेनैवेह केवलम् ।मुच्यन्ते किं न मुच्यन्ते पदे परमके स्थिताः ॥ ४६ ॥
काषायधारणं मौण्ड्यं त्रिविष्टब्धः कमण्डलुः ।लिङ्गान्यत्यर्थमेतानि न मोक्षायेति मे मतिः ॥ ४७ ॥
यदि सत्यपि लिङ्गेऽस्मिञ्ज्ञानमेवात्र कारणम् ।निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम् ॥ ४८ ॥
अथ वा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः ।किं तदेवार्थसामान्यं छत्रादिषु न लक्ष्यते ॥ ४९ ॥
आकिंचन्ये न मोक्षोऽस्ति कैंचन्ये नास्ति बन्धनम् ।कैंचन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते ॥ ५० ॥
तस्माद्धर्मार्थकामेषु तथा राज्यपरिग्रहे ।बन्धनायतनेष्वेषु विद्ध्यबन्धे पदे स्थितम् ॥ ५१ ॥
राज्यैश्वर्यमयः पाशः स्नेहायतनबन्धनः ।मोक्षाश्मनिशितेनेह छिन्नस्त्यागासिना मया ॥ ५२ ॥
सोऽहमेवंगतो मुक्तो जातास्थस्त्वयि भिक्षुकि ।अयथार्थो हि ते वर्णो वक्ष्यामि शृणु तन्मम ॥ ५३ ॥
सौकुमार्यं तथा रूपं वपुरग्र्यं तथा वयः ।तवैतानि समस्तानि नियमश्चेति संशयः ॥ ५४ ॥
यच्चाप्यननुरूपं ते लिङ्गस्यास्य विचेष्टितम् ।मुक्तोऽयं स्यान्न वेत्यस्माद्धर्षितो मत्परिग्रहः ॥ ५५ ॥
न च कामसमायुक्ते मुक्तेऽप्यस्ति त्रिदण्डकम् ।न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना ॥ ५६ ॥
मत्पक्षसंश्रयाच्चायं शृणु यस्ते व्यतिक्रमः ।आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम् ॥ ५७ ॥
प्रवेशस्ते कृतः केन मम राष्ट्रे पुरे तथा ।कस्य वा संनिसर्गात्त्वं प्रविष्टा हृदयं मम ॥ ५८ ॥
वर्णप्रवरमुख्यासि ब्राह्मणी क्षत्रियो ह्यहम् ।नावयोरेकयोगोऽस्ति मा कृथा वर्णसंकरम् ॥ ५९ ॥
वर्तसे मोक्षधर्मेषु गार्हस्थ्ये त्वहमाश्रमे ।अयं चापि सुकष्टस्ते द्वितीयोऽऽश्रमसंकरः ॥ ६० ॥
सगोत्रां वासगोत्रां वा न वेद त्वां न वेत्थ माम् ।सगोत्रमाविशन्त्यास्ते तृतीयो गोत्रसंकरः ॥ ६१ ॥
अथ जीवति ते भर्ता प्रोषितोऽप्यथ वा क्वचित् ।अगम्या परभार्येति चतुर्थो धर्मसंकरः ॥ ६२ ॥
सा त्वमेतान्यकार्याणि कार्यापेक्षा व्यवस्यसि ।अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः ॥ ६३ ॥
अथ वापि स्वतन्त्रासि स्वदोषेणेह केनचित् ।यदि किंचिच्छ्रुतं तेऽस्ति सर्वं कृतमनर्थकम् ॥ ६४ ॥
इदमन्यत्तृतीयं ते भावस्पर्शविघातकम् ।दुष्टाया लक्ष्यते लिङ्गं प्रवक्तव्यं प्रकाशितम् ॥ ६५ ॥
न मय्येवाभिसंधिस्ते जयैषिण्या जये कृतः ।येयं मत्परिषत्कृत्स्ना जेतुमिच्छसि तामपि ॥ ६६ ॥
तथा ह्येवं पुनश्च त्वं दृष्टिं स्वां प्रतिमुञ्चसि ।मत्पक्षप्रतिघाताय स्वपक्षोद्भावनाय च ॥ ६७ ॥
सा स्वेनामर्षजेन त्वमृद्धिमोहेन मोहिता ।भूयः सृजसि योगास्त्रं विषामृतमिवैकधा ॥ ६८ ॥
इच्छतोर्हि द्वयोर्लाभः स्त्रीपुंसोरमृतोपमः ।अलाभश्चाप्यरक्तस्य सोऽत्र दोषो विषोपमः ॥ ६९ ॥
मा स्प्राक्षीः साधु जानीष्व स्वशास्त्रमनुपालय ।कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम ।एतत्सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितुम् ॥ ७० ॥
सा यदि त्वं स्वकार्येण यद्यन्यस्य महीपतेः ।तत्त्वं सत्रप्रतिच्छन्ना मयि नार्हसि गूहितुम् ॥ ७१ ॥
न राजानं मृषा गच्छेन्न द्विजातिं कथंचन ।न स्त्रियं स्त्रीगुणोपेतां हन्युर्ह्येते मृषागताः ॥ ७२ ॥
राज्ञां हि बलमैश्वर्यं ब्रह्म ब्रह्मविदां बलम् ।रूपयौवनसौभाग्यं स्त्रीणां बलमनुत्तमम् ॥ ७३ ॥
अत एतैर्बलैरेते बलिनः स्वार्थमिच्छता ।आर्जवेनाभिगन्तव्या विनाशाय ह्यनार्जवम् ॥ ७४ ॥
सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिमात्मनः ।कृत्यमागमने चैव वक्तुमर्हसि तत्त्वतः ॥ ७५ ॥
इत्येतैरसुखैर्वाक्यैरयुक्तैरसमञ्जसैः ।प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत ॥ ७६ ॥
उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना ।ततश्चारुतरं वाक्यं प्रचक्रामाथ भाषितुम् ॥ ७७ ॥
नवभिर्नवभिश्चैव दोषैर्वाग्बुद्धिदूषणैः ।अपेतमुपपन्नार्थमष्टादशगुणान्वितम् ॥ ७८ ॥
सौक्ष्म्यं संख्याक्रमौ चोभौ निर्णयः सप्रयोजनः ।पञ्चैतान्यर्थजातानि वाक्यमित्युच्यते नृप ॥ ७९ ॥
एषामेकैकशोऽर्थानां सौक्ष्म्यादीनां सुलक्षणम् ।शृणु संसार्यमाणानां पदार्थैः पदवाक्यतः ॥ ८० ॥
ज्ञानं ज्ञेयेषु भिन्नेषु यथाभेदेन वर्तते ।तत्रातिशयिनी बुद्धिस्तत्सौक्ष्म्यमिति वर्तते ॥ ८१ ॥
दोषाणां च गुणानां च प्रमाणं प्रविभागशः ।कंचिदर्थमभिप्रेत्य सा संख्येत्युपधार्यताम् ॥ ८२ ॥
इदं पूर्वमिदं पश्चाद्वक्तव्यं यद्विवक्षितम् ।क्रमयोगं तमप्याहुर्वाक्यं वाक्यविदो जनाः ॥ ८३ ॥
धर्मार्थकाममोक्षेषु प्रतिज्ञाय विशेषतः ।इदं तदिति वाक्यान्ते प्रोच्यते स विनिर्णयः ॥ ८४ ॥
इच्छाद्वेषभवैर्दुःखैः प्रकर्षो यत्र जायते ।तत्र या नृपते वृत्तिस्तत्प्रयोजनमिष्यते ॥ ८५ ॥
तान्येतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप ।एकार्थसमवेतानि वाक्यं मम निशामय ॥ ८६ ॥
उपेतार्थमभिन्नार्थं नापवृत्तं न चाधिकम् ।नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं तव ॥ ८७ ॥
न गुर्वक्षरसंबद्धं पराङ्मुखमुखं न च ।नानृतं न त्रिवर्गेण विरुद्धं नाप्यसंस्कृतम् ॥ ८८ ॥
न न्यूनं कष्टशब्दं वा व्युत्क्रमाभिहितं न च ।न शेषं नानुकल्पेन निष्कारणमहेतुकम् ॥ ८९ ॥
कामात्क्रोधाद्भयाल्लोभाद्दैन्यादानार्यकात्तथा ।ह्रीतोऽनुक्रोशतो मानान्न वक्ष्यामि कथंचन ॥ ९० ॥
वक्ता श्रोता च वाक्यं च यदा त्वविकलं नृप ।सममेति विवक्षायां तदा सोऽर्थः प्रकाशते ॥ ९१ ॥
वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते ।स्वार्थमाह परार्थं वा तदा वाक्यं न रोहति ॥ ९२ ॥
अथ यः स्वार्थमुत्सृज्य परार्थं प्राह मानवः ।विशङ्का जायते तस्मिन्वाक्यं तदपि दोषवत् ॥ ९३ ॥
यस्तु वक्ता द्वयोरर्थमविरुद्धं प्रभाषते ।श्रोतुश्चैवात्मनश्चैव स वक्ता नेतरो नृप ॥ ९४ ॥
तदर्थवदिदं वाक्यमुपेतं वाक्यसंपदा ।अविक्षिप्तमना राजन्नेकाग्रः श्रोतुमर्हसि ॥ ९५ ॥
कासि कस्य कुतो वेति त्वयाहमभिचोदिता ।तत्रोत्तरमिदं वाक्यं राजन्नेकमनाः शृणु ॥ ९६ ॥
यथा जतु च काष्ठं च पांसवश्चोदबिन्दुभिः ।सुश्लिष्टानि तथा राजन्प्राणिनामिह संभवः ॥ ९७ ॥
शब्दः स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च ।पृथगात्मा दशात्मानः संश्लिष्टा जतुकाष्ठवत् ॥ ९८ ॥
न चैषां चोदना काचिदस्तीत्येष विनिश्चयः ।एकैकस्येह विज्ञानं नास्त्यात्मनि तथा परे ॥ ९९ ॥
न वेद चक्षुश्चक्षुष्ट्वं श्रोत्रं नात्मनि वर्तते ।तथैव व्यभिचारेण न वर्तन्ते परस्परम् ।संश्लिष्टा नाभिजायन्ते यथाप इह पांसवः ॥ १०० ॥
बाह्यानन्यानपेक्षन्ते गुणांस्तानपि मे शृणु ।रूपं चक्षुः प्रकाशश्च दर्शने हेतवस्त्रयः ।यथैवात्र तथान्येषु ज्ञानज्ञेयेषु हेतवः ॥ १०१ ॥
ज्ञानज्ञेयान्तरे तस्मिन्मनो नामापरो गुणः ।विचारयति येनायं निश्चये साध्वसाधुनी ॥ १०२ ॥
द्वादशस्त्वपरस्तत्र बुद्धिर्नाम गुणः स्मृतः ।येन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति ॥ १०३ ॥
अथ द्वादशके तस्मिन्सत्त्वं नामापरो गुणः ।महासत्त्वोऽल्पसत्त्वो वा जन्तुर्येनानुमीयते ॥ १०४ ॥
क्षेत्रज्ञ इति चाप्यन्यो गुणस्तत्र चतुर्दशः ।ममायमिति येनायं मन्यते न च मन्यते ॥ १०५ ॥
अथ पञ्चदशो राजन्गुणस्तत्रापरः स्मृतः ।पृथक्कलासमूहस्य सामग्र्यं तदिहोच्यते ॥ १०६ ॥
गुणस्त्वेवापरस्तत्र संघात इति षोडशः ।आकृतिर्व्यक्तिरित्येतौ गुणौ यस्मिन्समाश्रितौ ॥ १०७ ॥
सुखदुःखे जरामृत्यू लाभालाभौ प्रियाप्रिये ।इति चैकोनविंशोऽयं द्वंद्वयोग इति स्मृतः ॥ १०८ ॥
ऊर्ध्वमेकोनविंशत्याः कालो नामापरो गुणः ।इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम् ॥ १०९ ॥
विंशकश्चैष संघातो महाभूतानि पञ्च च ।सदसद्भावयोगौ च गुणावन्यौ प्रकाशकौ ॥ ११० ॥
इत्येवं विंशतिश्चैव गुणाः सप्त च ये स्मृताः ।विधिः शुक्रं बलं चेति त्रय एते गुणाः परे ॥ १११ ॥
एकविंशश्च दश च कलाः संख्यानतः स्मृताः ।समग्रा यत्र वर्तन्ते तच्छरीरमिति स्मृतम् ॥ ११२ ॥
अव्यक्तं प्रकृतिं त्वासां कलानां कश्चिदिच्छति ।व्यक्तं चासां तथैवान्यः स्थूलदर्शी प्रपश्यति ॥ ११३ ॥
अव्यक्तं यदि वा व्यक्तं द्वयीमथ चतुष्टयीम् ।प्रकृतिं सर्वभूतानां पश्यन्त्यध्यात्मचिन्तकाः ॥ ११४ ॥
सेयं प्रकृतिरव्यक्ता कलाभिर्व्यक्ततां गता ।अहं च त्वं च राजेन्द्र ये चाप्यन्ये शरीरिणः ॥ ११५ ॥
बिन्दुन्यासादयोऽवस्थाः शुक्रशोणितसंभवाः ।यासामेव निपातेन कललं नाम जायते ॥ ११६ ॥
कललादर्बुदोत्पत्तिः पेशी चाप्यर्बुदोद्भवा ।पेश्यास्त्वङ्गाभिनिर्वृत्तिर्नखरोमाणि चाङ्गतः ॥ ११७ ॥
संपूर्णे नवमे मासे जन्तोर्जातस्य मैथिल ।जायते नामरूपत्वं स्त्री पुमान्वेति लिङ्गतः ॥ ११८ ॥
जातमात्रं तु तद्रूपं दृष्ट्वा ताम्रनखाङ्गुलि ।कौमाररूपमापन्नं रूपतो नोपलभ्यते ॥ ११९ ॥
कौमाराद्यौवनं चापि स्थाविर्यं चापि यौवनात् ।अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते ॥ १२० ॥
कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे ।वर्तते सर्वभूतेषु सौक्ष्म्यात्तु न विभाव्यते ॥ १२१ ॥
न चैषामप्ययो राजँल्लक्ष्यते प्रभवो न च ।अवस्थायामवस्थायां दीपस्येवार्चिषो गतिः ॥ १२२ ॥
तस्याप्येवंप्रभावस्य सदश्वस्येव धावतः ।अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः ॥ १२३ ॥
कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः ।संबन्धः कोऽस्ति भूतानां स्वैरप्यवयवैरिह ॥ १२४ ॥
यथादित्यान्मणेश्चैव वीरुद्भ्यश्चैव पावकः ।भवत्येवं समुदयात्कलानामपि जन्तवः ॥ १२५ ॥
आत्मन्येवात्मनात्मानं यथा त्वमनुपश्यसि ।एवमेवात्मनात्मानमन्यस्मिन्किं न पश्यसि ।यद्यात्मनि परस्मिंश्च समतामध्यवस्यसि ॥ १२६ ॥
अथ मां कासि कस्येति किमर्थमनुपृच्छसि ।इदं मे स्यादिदं नेति द्वंद्वैर्मुक्तस्य मैथिल ।कासि कस्य कुतो वेति वचने किं प्रयोजनम् ॥ १२७ ॥
रिपौ मित्रेऽथ मध्यस्थे विजये संधिविग्रहे ।कृतवान्यो महीपाल किं तस्मिन्मुक्तलक्षणम् ॥ १२८ ॥
त्रिवर्गे सप्तधा व्यक्तं यो न वेदेह कर्मसु ।सङ्गवान्यस्त्रिवर्गे च किं तस्मिन्मुक्तलक्षणम् ॥ १२९ ॥
प्रिये चैवाप्रिये चैव दुर्बले बलवत्यपि ।यस्य नास्ति समं चक्षुः किं तस्मिन्मुक्तलक्षणम् ॥ १३० ॥
तदमुक्तस्य ते मोक्षे योऽभिमानो भवेन्नृप ।सुहृद्भिः स निवार्यस्ते विचित्तस्येव भेषजैः ॥ १३१ ॥
तानि तान्यनुसंदृश्य सङ्गस्थानान्यरिंदम ।आत्मनात्मनि संपश्येत्किं तस्मिन्मुक्तलक्षणम् ॥ १३२ ॥
इमान्यन्यानि सूक्ष्माणि मोक्षमाश्रित्य कानिचित् ।चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु ॥ १३३ ॥
य इमां पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति ह ।एकमेव स वै राजा पुरमध्यावसत्युत ॥ १३४ ॥
तत्पुरे चैकमेवास्य गृहं यदधितिष्ठति ।गृहे शयनमप्येकं निशायां यत्र लीयते ॥ १३५ ॥
शय्यार्धं तस्य चाप्यत्र स्त्रीपूर्वमधितिष्ठति ।तदनेन प्रसङ्गेन फलेनैवेह युज्यते ॥ १३६ ॥
एवमेवोपभोगेषु भोजनाच्छादनेषु च ।गुणेषु परिमेयेषु निग्रहानुग्रहौ प्रति ॥ १३७ ॥
परतन्त्रः सदा राजा स्वल्पे सोऽपि प्रसज्जते ।संधिविग्रहयोगे च कुतो राज्ञः स्वतन्त्रता ॥ १३८ ॥
स्त्रीषु क्रीडाविहारेषु नित्यमस्यास्वतन्त्रता ।मन्त्रे चामात्यसमितौ कुत एव स्वतन्त्रता ॥ १३९ ॥
यदा त्वाज्ञापयत्यन्यांस्तदास्योक्ता स्वतन्त्रता ।अवशः कार्यते तत्र तस्मिंस्तस्मिन्गुणे स्थितः ॥ १४० ॥
स्वप्तुकामो न लभते स्वप्तुं कार्यार्थिभिर्जनैः ।शयने चाप्यनुज्ञातः सुप्त उत्थाप्यतेऽवशः ॥ १४१ ॥
स्नाह्यालभ पिब प्राश जुहुध्यग्नीन्यजेति च ।वदस्व शृणु चापीति विवशः कार्यते परैः ॥ १४२ ॥
अभिगम्याभिगम्यैनं याचन्ते सततं नराः ।न चाप्युत्सहते दातुं वित्तरक्षी महाजनात् ॥ १४३ ॥
दाने कोशक्षयो ह्यस्य वैरं चाप्यप्रयच्छतः ।क्षणेनास्योपवर्तन्ते दोषा वैराग्यकारकाः ॥ १४४ ॥
प्राज्ञाञ्शूरांस्तथैवाढ्यानेकस्थानेऽपि शङ्कते ।भयमप्यभये राज्ञो यैश्च नित्यमुपास्यते ॥ १४५ ॥
यदा चैते प्रदुष्यन्ति राजन्ये कीर्तिता मया ।तदैवास्य भयं तेभ्यो जायते पश्य यादृशम् ॥ १४६ ॥
सर्वः स्वे स्वे गृहे राजा सर्वः स्वे स्वे गृहे गृही ।निग्रहानुग्रहौ कुर्वंस्तुल्यो जनक राजभिः ॥ १४७ ॥
पुत्रा दारास्तथैवात्मा कोशो मित्राणि संचयः ।परैः साधारणा ह्येते तैस्तैरेवास्य हेतुभिः ॥ १४८ ॥
हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः ।लोकसाधारणेष्वेषु मिथ्याज्ञानेन तप्यते ॥ १४९ ॥
अमुक्तो मानसैर्दुःखैरिच्छाद्वेषप्रियोद्भवैः ।शिरोरोगादिभी रोगैस्तथैव विनिपातिभिः ॥ १५० ॥
द्वंद्वैस्तैस्तैरुपहतः सर्वतः परिशङ्कितः ।बहुप्रत्यर्थिकं राज्यमुपास्ते गणयन्निशाः ॥ १५१ ॥
तदल्पसुखमत्यर्थं बहुदुःखमसारवत् ।को राज्यमभिपद्येत प्राप्य चोपशमं लभेत् ॥ १५२ ॥
ममेदमिति यच्चेदं पुरं राष्ट्रं च मन्यसे ।बलं कोशममात्यांश्च कस्यैतानि न वा नृप ॥ १५३ ॥
मित्रामात्यं पुरं राष्ट्रं दण्डः कोशो महीपतिः ।सप्ताङ्गश्चक्रसंघातो राज्यमित्युच्यते नृप ॥ १५४ ॥
सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः ।अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः ॥ १५५ ॥
तेषु तेषु हि कालेषु तत्तदङ्गं विशिष्यते ।येन यत्सिध्यते कार्यं तत्प्राधान्याय कल्पते ॥ १५६ ॥
सप्ताङ्गश्चापि संघातस्त्रयश्चान्ये नृपोत्तम ।संभूय दशवर्गोऽयं भुङ्क्ते राज्यं हि राजवत् ॥ १५७ ॥
यश्च राजा महोत्साहः क्षत्रधर्मरतो भवेत् ।स तुष्येद्दशभागेन ततस्त्वन्यो दशावरैः ॥ १५८ ॥
नास्त्यसाधारणो राजा नास्ति राज्यमराजकम् ।राज्येऽसति कुतो धर्मो धर्मेऽसति कुतः परम् ॥ १५९ ॥
योऽप्यत्र परमो धर्मः पवित्रं राजराज्ययोः ।पृथिवी दक्षिणा यस्य सोऽश्वमेधो न विद्यते ॥ १६० ॥
साहमेतानि कर्माणि राज्यदुःखानि मैथिल ।समर्था शतशो वक्तुमथ वापि सहस्रशः ॥ १६१ ॥
स्वदेहे नाभिषङ्गो मे कुतः परपरिग्रहे ।न मामेवंविधां मुक्तामीदृशं वक्तुमर्हसि ॥ १६२ ॥
ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच्छ्रुतः ।सोपायः सोपनिषदः सोपासङ्गः सनिश्चयः ॥ १६३ ॥
तस्य ते मुक्तसङ्गस्य पाशानाक्रम्य तिष्ठतः ।छत्रादिषु विशेषेषु कथं सङ्गः पुनर्नृप ॥ १६४ ॥
श्रुतं ते न श्रुतं मन्ये मिथ्या वापि श्रुतं श्रुतम् ।अथ वा श्रुतसंकाशं श्रुतमन्यच्छ्रुतं त्वया ॥ १६५ ॥
अथापीमासु संज्ञासु लौकिकीषु प्रतिष्ठसि ।अभिषङ्गावरोधाभ्यां बद्धस्त्वं प्राकृतो यथा ॥ १६६ ॥
सत्त्वेनानुप्रवेशो हि योऽयं त्वयि कृतो मया ।किं तवापकृतं तत्र यदि मुक्तोऽसि सर्वतः ॥ १६७ ॥
नियमो ह्येष धर्मेषु यतीनां शून्यवासिता ।शून्यमावासयन्त्या च मया किं कस्य दूषितम् ॥ १६८ ॥
न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां न चानघ ।न गात्रावयवैरन्यैः स्पृशामि त्वा नराधिप ॥ १६९ ॥
कुले महति जातेन ह्रीमता दीर्घदर्शिना ।नैतत्सदसि वक्तव्यं सद्वासद्वा मिथः कृतम् ॥ १७० ॥
ब्राह्मणा गुरवश्चेमे तथामात्या गुरूत्तमाः ।त्वं चाथ गुरुरप्येषामेवमन्योन्यगौरवम् ॥ १७१ ॥
तदेवमनुसंदृश्य वाच्यावाच्यं परीक्षता ।स्त्रीपुंसोः समवायोऽयं त्वया वाच्यो न संसदि ॥ १७२ ॥
यथा पुष्करपर्णस्थं जलं तत्पर्णसंस्थितम् ।तिष्ठत्यस्पृशती तद्वत्त्वयि वत्स्यामि मैथिल ॥ १७३ ॥
यदि वाप्यस्पृशन्त्या मे स्पर्शं जानासि कंचन ।ज्ञानं कृतमबीजं ते कथं तेनेह भिक्षुणा ॥ १७४ ॥
स गार्हस्थ्याच्च्युतश्च त्वं मोक्षं नावाप्य दुर्विदम् ।उभयोरन्तराले च वर्तसे मोक्षवातिकः ॥ १७५ ॥
न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः ।भावाभावसमायोगे जायते वर्णसंकरः ॥ १७६ ॥
वर्णाश्रमपृथक्त्वे च दृष्टार्थस्यापृथक्त्विनः ।नान्यदन्यदिति ज्ञात्वा नान्यदन्यत्प्रवर्तते ॥ १७७ ॥
पाणौ कुण्डं तथा कुण्डे पयः पयसि मक्षिकाः ।आश्रिताश्रययोगेन पृथक्त्वेनाश्रया वयम् ॥ १७८ ॥
न तु कुण्डे पयोभावः पयश्चापि न मक्षिकाः ।स्वयमेवाश्रयन्त्येते भावा न तु पराश्रयम् ॥ १७९ ॥
पृथक्त्वादाश्रमाणां च वर्णान्यत्वे तथैव च ।परस्परपृथक्त्वाच्च कथं ते वर्णसंकरः ॥ १८० ॥
नास्मि वर्णोत्तमा जात्या न वैश्या नावरा तथा ।तव राजन्सवर्णास्मि शुद्धयोनिरविप्लुता ॥ १८१ ॥
प्रधानो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः ।कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम् ॥ १८२ ॥
द्रोणश्च शतशृङ्गश्च वक्रद्वारश्च पर्वतः ।मम सत्रेषु पूर्वेषां चिता मघवता सह ॥ १८३ ॥
साहं तस्मिन्कुले जाता भर्तर्यसति मद्विधे ।विनीता मोक्षधर्मेषु चराम्येका मुनिव्रतम् ॥ १८४ ॥
नास्मि सत्रप्रतिच्छन्ना न परस्वाभिमानिनी ।न धर्मसंकरकरी स्वधर्मेऽस्मि धृतव्रता ॥ १८५ ॥
नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्यप्रवादिनी ।नासमीक्ष्यागता चाहं त्वत्सकाशं जनाधिप ॥ १८६ ॥
मोक्षे ते भावितां बुद्धिं श्रुत्वाहं कुशलैषिणी ।तव मोक्षस्य चाप्यस्य जिज्ञासार्थमिहागता ॥ १८७ ॥
न वर्गस्था ब्रवीम्येतत्स्वपक्षपरपक्षयोः ।मुक्तो न मुच्यते यश्च शान्तो यश्च न शाम्यति ॥ १८८ ॥
यथा शून्ये पुरागारे भिक्षुरेकां निशां वसेत् ।तथा हि त्वच्छरीरेऽस्मिन्निमां वत्स्यामि शर्वरीम् ॥ १८९ ॥
साहमासनदानेन वागातिथ्येन चार्चिता ।सुप्ता सुशरणा प्रीता श्वो गमिष्यामि मैथिल ॥ १९० ॥
इत्येतानि स वाक्यानि हेतुमन्त्यर्थवन्ति च ।श्रुत्वा नाधिजगौ राजा किंचिदन्यदतः परम् ॥ १९१ ॥
« »