Click on words to see what they mean.

वैशंपायन उवाच ।द्वैपायनवचः श्रुत्वा कुपिते च धनंजये ।व्यासमामन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः ॥ १ ॥
न पार्थिवमिदं राज्यं न च भोगाः पृथग्विधाः ।प्रीणयन्ति मनो मेऽद्य शोको मां नर्दयत्ययम् ॥ २ ॥
श्रुत्वा च वीरहीनानामपुत्राणां च योषिताम् ।परिदेवयमानानां शान्तिं नोपलभे मुने ॥ ३ ॥
इत्युक्तः प्रत्युवाचेदं व्यासो योगविदां वरः ।युधिष्ठिरं महाप्राज्ञं धर्मज्ञो वेदपारगः ॥ ४ ॥
न कर्मणा लभ्यते चिन्तया वा नाप्यस्य दाता पुरुषस्य कश्चित् ।पर्याययोगाद्विहितं विधात्रा कालेन सर्वं लभते मनुष्यः ॥ ५ ॥
न बुद्धिशास्त्राध्ययनेन शक्यं प्राप्तुं विशेषैर्मनुजैरकाले ।मूर्खोऽपि प्राप्नोति कदाचिदर्थान्कालो हि कार्यं प्रति निर्विशेषः ॥ ६ ॥
नाभूतिकाले च फलं ददाति शिल्पं न मन्त्राश्च तथौषधानि ।तान्येव कालेन समाहितानि सिध्यन्ति चेध्यन्ति च भूतिकाले ॥ ७ ॥
कालेन शीघ्राः प्रविवान्ति वाताः कालेन वृष्टिर्जलदानुपैति ।कालेन पद्मोत्पलवज्जलं च कालेन पुष्यन्ति नगा वनेषु ॥ ८ ॥
कालेन कृष्णाश्च सिताश्च रात्र्यः कालेन चन्द्रः परिपूर्णबिम्बः ।नाकालतः पुष्पफलं नगानां नाकालवेगाः सरितो वहन्ति ॥ ९ ॥
नाकालमत्ताः खगपन्नगाश्च मृगद्विपाः शैलमहाग्रहाश्च ।नाकालतः स्त्रीषु भवन्ति गर्भा नायान्त्यकाले शिशिरोष्णवर्षाः ॥ १० ॥
नाकालतो म्रियते जायते वा नाकालतो व्याहरते च बालः ।नाकालतो यौवनमभ्युपैति नाकालतो रोहति बीजमुप्तम् ॥ ११ ॥
नाकालतो भानुरुपैति योगं नाकालतोऽस्तं गिरिमभ्युपैति ।नाकालतो वर्धते हीयते च चन्द्रः समुद्रश्च महोर्मिमाली ॥ १२ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर ॥ १३ ॥
सर्वानेवैष पर्यायो मर्त्यान्स्पृशति दुस्तरः ।कालेन परिपक्वा हि म्रियन्ते सर्वमानवाः ॥ १४ ॥
घ्नन्ति चान्यान्नरा राजंस्तानप्यन्ये नरास्तथा ।संज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते ॥ १५ ॥
हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरे ।स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ ॥ १६ ॥
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते ।अहो कष्टमिति ध्यायञ्शोकस्यापचितिं चरेत् ॥ १७ ॥
स किं शोचसि मूढः सञ्शोच्यः किमनुशोचसि ।पश्य दुःखेषु दुःखानि भयेषु च भयान्यपि ॥ १८ ॥
आत्मापि चायं न मम सर्वापि पृथिवी मम ।यथा मम तथान्येषामिति पश्यन्न मुह्यति ॥ १९ ॥
शोकस्थानसहस्राणि हर्षस्थानशतानि च ।दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ २० ॥
एवमेतानि कालेन प्रियद्वेष्याणि भागशः ।जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ॥ २१ ॥
दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते ।तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् ॥ २२ ॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥ २३ ॥
सुखमन्ते हि दुःखानां दुःखमन्ते सुखस्य च ।तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् ॥ २४ ॥
यन्निमित्तं भवेच्छोकस्तापो वा दुःखमूर्छितः ।आयासो वापि यन्मूलस्तदेकाङ्गमपि त्यजेत् ॥ २५ ॥
सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम् ।प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥ २६ ॥
ईषदप्यङ्ग दाराणां पुत्राणां वा चराप्रियम् ।ततो ज्ञास्यसि कः कस्य केन वा कथमेव वा ॥ २७ ॥
ये च मूढतमा लोके ये च बुद्धेः परं गताः ।त एव सुखमेधन्ते मध्यः क्लेशेन युज्यते ॥ २८ ॥
इत्यब्रवीन्महाप्राज्ञो युधिष्ठिर स सेनजित् ।परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित् ॥ २९ ॥
सुखी परस्य यो दुःखे न जातु स सुखी भवेत् ।दुःखानां हि क्षयो नास्ति जायते ह्यपरात्परम् ॥ ३० ॥
सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च ।पर्यायशः सर्वमिह स्पृशन्ति तस्माद्धीरो नैव हृष्येन्न कुप्येत् ॥ ३१ ॥
दीक्षां यज्ञे पालनं युद्धमाहुर्योगं राष्ट्रे दण्डनीत्या च सम्यक् ।वित्तत्यागं दक्षिणानां च यज्ञे सम्यग्ज्ञानं पावनानीति विद्यात् ॥ ३२ ॥
रक्षन्राष्ट्रं बुद्धिपूर्वं नयेन संत्यक्तात्मा यज्ञशीलो महात्मा ।सर्वाँल्लोकान्धर्ममूर्त्या चरंश्चाप्यूर्ध्वं देहान्मोदते देवलोके ॥ ३३ ॥
जित्वा संग्रामान्पालयित्वा च राष्ट्रं सोमं पीत्वा वर्धयित्वा प्रजाश्च ।युक्त्या दण्डं धारयित्वा प्रजानां युद्धे क्षीणो मोदते देवलोके ॥ ३४ ॥
सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य सम्यग्राष्ट्रं पालयित्वा च राजा ।चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे पूतात्मा वै मोदते देवलोके ॥ ३५ ॥
यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः ।पौरजानपदामात्याः स राजा राजसत्तमः ॥ ३६ ॥
« »