Click on words to see what they mean.

युधिष्ठिर उवाच ।अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च ।धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ ॥ १ ॥
वसुषेणे च धर्मज्ञे धृष्टकेतौ च पार्थिवे ।तथान्येषु नरेन्द्रेषु नानादेश्येषु संयुगे ॥ २ ॥
न विमुञ्चति मां शोको ज्ञातिघातिनमातुरम् ।राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारकम् ॥ ३ ॥
यस्याङ्के क्रीडमानेन मया वै परिवर्तितम् ।स मया राज्यलुब्धेन गाङ्गेयो विनिपातितः ॥ ४ ॥
यदा ह्येनं विघूर्णन्तमपश्यं पार्थसायकैः ।कम्पमानं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम् ॥ ५ ॥
जीर्णं सिंहमिव प्रांशुं नरसिंहं पितामहम् ।कीर्यमाणं शरैस्तीक्ष्णैर्दृष्ट्वा मे व्यथितं मनः ॥ ६ ॥
प्राङ्मुखं सीदमानं च रथादपच्युतं शरैः ।घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत् ॥ ७ ॥
यः स बाणधनुष्पाणिर्योधयामास भार्गवम् ।बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे ॥ ८ ॥
समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः ।कन्यार्थमाह्वयद्वीरो रथेनैकेन संयुगे ॥ ९ ॥
येन चोग्रायुधो राजा चक्रवर्ती दुरासदः ।दग्धः शस्त्रप्रतापेन स मया युधि घातितः ॥ १० ॥
स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम् ।न बाणैः पातयामास सोऽर्जुनेन निपातितः ॥ ११ ॥
यदैनं पतितं भूमावपश्यं रुधिरोक्षितम् ।तदैवाविशदत्युग्रो ज्वरो मे मुनिसत्तम ।येन संवर्धिता बाला येन स्म परिरक्षिताः ॥ १२ ॥
स मया राज्यलुब्धेन पापेन गुरुघातिना ।अल्पकालस्य राज्यस्य कृते मूढेन घातितः ॥ १३ ॥
आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः ।अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति ॥ १४ ॥
तन्मे दहति गात्राणि यन्मां गुरुरभाषत ।सत्यवाक्यो हि राजंस्त्वं यदि जीवति मे सुतः ।सत्यं मा मर्शयन्विप्रो मयि तत्परिपृष्टवान् ॥ १५ ॥
कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितं मया ।सुभृशं राज्यलुब्धेन पापेन गुरुघातिना ॥ १६ ॥
सत्यकञ्चुकमास्थाय मयोक्तो गुरुराहवे ।अश्वत्थामा हत इति कुञ्जरे विनिपातिते ।कान्नु लोकान्गमिष्यामि कृत्वा तत्कर्म दारुणम् ॥ १७ ॥
अघातयं च यत्कर्णं समरेष्वपलायिनम् ।ज्येष्ठं भ्रातरमत्युग्रं को मत्तः पापकृत्तमः ॥ १८ ॥
अभिमन्युं च यद्बालं जातं सिंहमिवाद्रिषु ।प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम् ॥ १९ ॥
तदाप्रभृति बीभत्सुं न शक्नोमि निरीक्षितुम् ।कृष्णं च पुण्डरीकाक्षं किल्बिषी भ्रूणहा यथा ॥ २० ॥
द्रौपदीं चाप्यदुःखार्हां पञ्चपुत्रविनाकृताम् ।शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव ॥ २१ ॥
सोऽहमागस्करः पापः पृथिवीनाशकारकः ।आसीन एवमेवेदं शोषयिष्ये कलेवरम् ॥ २२ ॥
प्रायोपविष्टं जानीध्वमद्य मां गुरुघातिनम् ।जातिष्वन्यास्वपि यथा न भवेयं कुलान्तकृत् ॥ २३ ॥
न भोक्ष्ये न च पानीयमुपयोक्ष्ये कथंचन ।शोषयिष्ये प्रियान्प्राणानिहस्थोऽहं तपोधन ॥ २४ ॥
यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः ।सर्वे मामनुजानीत त्यक्ष्यामीदं कलेवरम् ॥ २५ ॥
वैशंपायन उवाच ।तमेवंवादिनं पार्थं बन्धुशोकेन विह्वलम् ।मैवमित्यब्रवीद्व्यासो निगृह्य मुनिसत्तमः ॥ २६ ॥
अतिवेलं महाराज न शोकं कर्तुमर्हसि ।पुनरुक्तं प्रवक्ष्यामि दिष्टमेतदिति प्रभो ॥ २७ ॥
संयोगा विप्रयोगाश्च जातानां प्राणिनां ध्रुवम् ।बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च ॥ २८ ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ २९ ॥
सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम् ।भूतिः श्रीर्ह्रीर्धृतिः सिद्धिर्नादक्षे निवसन्त्युत ॥ ३० ॥
नालं सुखाय सुहृदो नालं दुःखाय दुर्हृदः ।न च प्रज्ञालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम् ॥ ३१ ॥
यथा सृष्टोऽसि कौन्तेय धात्रा कर्मसु तत्कुरु ।अत एव हि सिद्धिस्ते नेशस्त्वमात्मना नृप ॥ ३२ ॥
« »